________________
१॥३६ ]
प्रथमः प्रत्यक्षप्रस्तावा विवेकविकलस्यायमस्त्येवोपप्लवो यदि । तस्यैवार्थोऽपि मन्दावभासः किन्नोपपतिमान् ? ॥७१०॥
सत्यपि बुद्ध्यात्मनो प्राह्यादिविकल्पस्य चान्योन्यव्यावृत्ततया प्रतिभासने तद्विवेकश. क्तिविकलस्य भवत्येव बुद्ध्यात्मनि ग्राह्यादिभेदप्रतिभासोपप्लव इति चेत् ; नैवम् ; मन्दावभासस्याप्युपप्लवस्य सम्भवात् ।'मन्दालोकरूपयोरपि विविक्ततया प्रत्यवभासनस्य तद्विवेकवैकल्यस्य ५ च कचित्प्रतिपत्तिरिति सम्भवानिवारणात् । तस्मात्-"मन्दालोकसाहित्येन रूपेऽपि मन्दप्रतिभासोपपत्तेरर्थस्य प्रतिभासः स्यात् ।” [ ] इत्यादिकमपर्यालोचितवचनमेव निबन्धनकारस्य । धर्मकीर्तिस्तु "मनसो युगपद्वृत्तेः" [प्र० वा० २।१३३ ] इत्यादिना दर्शनविकल्पयोरन्यतरधर्मस्यान्यत्र प्रत्यासत्तिवशादध्यारोपं ब्रुवाण एव आलोकमान्यस्य तत्पाटवस्य वा रूपेऽपि कथमध्यारोपमपाकुर्वीत ? यतस्तदध्यारोपवशादेकाकारस्यापि रूपस्य १० स्पष्टेतरात्मना भेदेन प्रतिभासो न भवेत् । ततस्तस्यापीदमपर्यालोचितमेवाभिधानम्
"मान्धपाटवभेदेन भासो बुद्धिभिदा यदि । भिन्नऽन्यस्मिन्नभिन्नस्य कथं भेदेन भासनम् ? ॥”[प्र०वा०२।४ ११]इति ।
न च वयमालोकमान्य निबन्धनत्वं मन्दावभासस्य ब्रूमः, सत्यपि तस्मिन् बालके परिस्फुटस्यैव रूपदर्शनस्य भावात, असत्यपि तस्मिन् परिणतवयसि मन्दस्यैव रूपप्रतिभासस्यो- १५ पलम्भात् , अपि तु तज्ज्ञानाशक्तिनिबन्धनत्वमेव । यदुक्तम्- 'तद्धान्तेराधिपत्येन' इति ।
ननु यावत्तदाधिपत्येन बहिरसत एव मन्दाकारस्य प्रतिभासनं तावत् ज्ञानाकारस्यैव कस्मान्न भवति ? प्रतीतिश्चैवमनुगृहीता भवति । तथा हि 'प्रतीतिरेवं मम ध्यामलितरूपोदिता' इति जनः प्रतिपत्तिमानिति चेत् ; न; तद्वहिर्भावेन प्रतिभासमानस्य तदाकारत्वानुपपत्तेः । 'प्रतीतिरेवं मम ध्यामलितरूपोदिता' इति तु प्रतिपत्तिर्बहिःस्थस्यान्तरुपचारात् । ननु कार्यधर्मस्य २० कारणे भवत्युपचारो यथा चक्षुषि दर्शनमान्द्यस्याध्यासात् मन्दं चक्षुः' इति । दर्शनस्यं तु न विषयः कार्य नाप्यन्यत् यतस्तन्मान्द्यस्य तत्राध्यासात् 'मन्दं दर्शनम्' इत्युच्यते । विषयत्वादेव तद्धमस्य विषयिण्युपचार इति चेत् ; न; मान्द्यवत् धर्मा-तरस्यापि तद्गतस्य तत्राध्यासप्रसङ्गात् । तथा च कुड्यादित्वेनापि दर्शनस्य व्यपदेशः स्यात् न चैवमनुमतिः भवतः । तस्मादस्पष्टत्वं नाम दृष्टेरेव रूपं सर्वजनप्रसिद्धत्वात् । न च सार्वजनिकस्य निश्चयम्य निर्निबन्धनमेव विभ्रमत्वव्यव. २५ स्थापनत्वमुपपन्नम् । तदुक्तम्- - --..
"मम ध्यामलितं चक्षुस्तादृग्दर्शनसङ्गमात् । तत्कार्यदर्शनादेव व्यपदेशस्तथास्तु सः ॥
मन्दावलोक-भा०,०,५०।२-दिकथम-आ०,ब०प० । ३ आलोकमान्थे । ४ वृद्धे । ५-देवमण्या-मा०, २०, ५०। ६ -स्य तु विषयिः का-आ०, ब०, ५०। ७ दर्शने । ८-मनुभवतिर्भभा०,०,५०।