________________
२७४
न्यायविनिश्चयविवरणे
[११३६ 'तदपि स्वयमुपलभ्यमानमन्येन शक्यमुपलब्धुं केशादिवत् । न च तस्य तज्ज्ञानानुप्रवेश इति प्रतिपादितमनन्तरमेव । ततो नातस्तैमिरकेशादेस्तज्ज्ञानानुप्रवेशः सिद्ध्यति यतस्तत्र प्रकाशनियमस्य ताप्यनिबन्धनत्वनिर्णयात अन्यत्रापि तस्यैव तन्निबन्धनत्वसाधनमुपपद्यत । ततो बोधशक्तित एव तत्केशादावपि तन्नियमस्य भावादन्यत्रापि तत एव तन्नियमः प्रतिपत्तव्य इत्य. ५ लमभिनिवेशेन ।
स्यान्मतम्-यदि संविदनुप्रवेशो नार्थस्य कथमवभासनम् ? स्वरूपेणैव पुरोवर्तिनेति चेत् ; कथं दूरेऽपि न तथैव दर्शनम् ? कथं ध्यामलितत्वेन ग्रहणम् ? न ह्यन्यरूपेण तद्ब्रहणम्। अथ तद्रूपमेव मन्दालोकसम्पर्कान्मन्दतया प्रकाशते; तदनुपपन्नम् ; यतः
अर्थस्य प्रतिभासः स्याद्यदि भासा समन्वितः । १०
अंन्येन सहिताभासे न स्यान्मन्दावभासिता ॥७०५॥ परस्परव्यावृत्तालोकरूपप्रतिभासे हि तयोरेव तथावभासनमिति नाऽस्पष्टरूपप्रतिभासः । न खल्वन्यस्मिन् स्वरूपावभासवति तदपरस्तथा भवति । भवत्येव कुसुम्भरागवस्त्रान्तरितवस्तुप्रतिभासवदिति चेत् ; न; तत्रापि समानत्वात् । स्वरूपेण प्रतिभासने "नेरताव(न रक्तताव )भासः ।
सदेव तस्य रूपमिति तथावभासनाभ्युपगमे प्रकृतस्याप्यालोकमन्दतया तदेव रूपमिति सकलस्य १५ तथावभासनात् कुतो बुद्धिभेदः ? तस्मादालोकभेदेऽपि न भेदावभासः । तस्माद्बुद्धेरेवायमाकारो
मन्दरूपः तथा व्यक्तरूपश्चेति; तन्न समीचीनम् ; मन्दरूपस्यापि बाह्यत्वात् । ननु अर्थस्यात. दूपत्वात्कथं तथा प्रतिभासनम् , मन्दालोकबलात्तत्प्रतिभासनस्य प्रतिविहितत्वादिति चेत् ? न; यस्मात्
मन्दालोकान्वयादर्थो मन्दश्चेन्नावभासते । "बुद्ध्यात्मारोपसम्पत्तिद्रूपो भासते कथम् ? ॥७०६॥ मिथोव्यावृत्तयोर्बोधभेदोपप्लवयोस्ततः । प्रतिभासे कथं बोधरूपे स्यात्तदुपप्लवः ॥७०७॥ निरुपप्लवताभावे तत्रेदं कथमुच्यते ? । "ज्ञानस्याभेदिनो भेदप्रतिभासो ह्युपप्लवः ॥" [प्र. वा० २।२१२ ] मोहाभावे कथं च स्यात् “शास्त्रं मोहनिवर्तनम् ।" [प्र० वा० ११७] असतः खरशृङ्गस्य किं किश्चित्स्याग्निवर्त्तनम् ॥७०९।।
केशादि । २ सत्यकेशादावपि । ३ चेत्थं दू-आ०, ब०, ५०। ४ अतद्रूप-आ०, ब०, ५०। ५ तुलना-प्र. वार्तिकाल. २०४१६ । ६ अनेन स-मा., ब., प। न सन्मन्दा-भा०, ब०, प.। ८-ति स्प-भा०,०प० । ९ रूपेण भा०,०प०।१०-नेन न रताव-भा०,०।-ने न रक्ततावभासःप्र. वार्तिकाल । ११ कस्मा-मा०, ब०,५०।१२ बुद्धयात्मालोकस-भा०, ब०,०।