________________
२७३
१॥३६]
प्रथमः प्रत्यक्षप्रस्तावः विषयाकारानुमानमुपपन्नं भवेत् ? स्पष्टप्रतिभासत्वान्न केशादिप्रतिभासस्य संघृतित्वम् । न हि संवृतेः स्पष्टत्वम् । “न विकल्पानुविद्धस्य स्पष्टार्थप्रतिभासिता ।" [प्र० वा० २।२८३] इति वचनादिति चेत् ; न; अन्तरप्रतिभासस्यापि स्पष्टस्यैवोपलम्भात् तस्य चांवस्तुविषयतया निश्चयान्न सन्दिग्धसाध्यत्वं निदर्शनस्य ।
नापि बाध्यमानत्वस्य हेतोरसिद्धत्वम् , 'नायभित्थमेव केशादिः' इति बाधकप्रत्ययस्य ५ तत्रोपनिपातात् । बाध्यबाधकभावस्य च तांत्विकस्यैव व्यवस्थापनात् । यदि तज्ज्ञानादन्य एव केशादिरन्येनापि कस्मान्नोपलभ्यते नानाप्रतिपत्तृसाधारणत्वाहिर्विषयस्य सत्यकेशादिवत् ? तिमिरादेस्तदुपलब्धिनिबन्धनस्याभावादित्यपि न युक्तम् ; परस्यापि. तिमिरादिसम्भवात् । तत्सम्भवे भवत्येव तस्यापि तदुपलम्भ इति चेत् ; न; अन्यस्यैव केशादेस्तेनोपलम्भात् । कथं तहि तैमिरिकयोरेकवाक्यत्वम् 'आकाशे केशस्तबकोऽयमास्ते' इति ? न; सादृश्यनिबन्धनत्वा- १० त्तदेकवाक्यत्वस्य, एकस्यैवोपलम्भे तयोरन्यतरस्यान्यत्रोपलम्भो न भवेत्तस्यैान्यत्र सम्भवात् । भवति च भिन्नदिग्देशतया तदुपलम्भनं तैमिरिकस्य, तस्मात्तादृशोऽन्य एवासौ केशादिरिति तज्ज्ञानानुप्रविष्ट एवायम् अनन्योपलभ्यत्वात तज्ज्ञानस्वरूपवदिति चेत् ; न; पक्षस्य प्रत्यक्षबाधितत्वात् , तदननुप्रविष्टस्यैव तस्य प्रत्यक्षेण प्रतिपत्तेः, बहिस्तस्य अन्तस्तज्ज्ञामस्यं च प्रतिभासनात् ।
न च 'तज्ज्ञानस्वरूपे तदनुप्रविष्टत्वे सति अनन्योपलभ्यत्वमुपलब्धम्' इत्येव "तस्य १५ गमकत्वं यावद्विपक्षे विरोधो न गम्यते । गम्यत एव सहानवस्थानं "तद्विरोध इति चेत् ;न; "सहावस्थानस्यैव प्रतिपत्तेः "तदननुप्रवेशसहितस्यैवानन्योपलभ्यत्वस्य प्रतिवेदनात् । परस्परपरिहारस्तद्विरोध इति चेत् ; न; अन्योपलभ्यत्वापेक्षयैव "तस्य भावात, हेतुविरुद्धन अन्योपलभ्यत्वेन साध्यविपक्षस्य व्याप्तत्वात् । अस्त्येव "तेनापि तस्य विरोध इति चेत् ; क्व पुनस्तद्व्याप्तिप्रतिपत्तिः ? सत्यकेशादाविति चेत् ; न; तत्राप्यन्योपलभ्यत्वस्य वस्तुतः स्वयमनभ्यु-१० पगमात् । पठति च प्रज्ञाकरः-"परेण तदभावेऽपि दृश्यते इति विपर्यासमारोप्य तथा व्यवहारः" [ ] इति । न च वैपर्यासिको धर्मस्तात्त्विकस्य बाधको माणवके सिंहत्ववन्मनुष्यत्वस्य । ततो व्यभिचारी हेतुः, सत्यकेशादावतज्ज्ञानानुप्रविष्टेऽपि भावात् । नायं दोषः, तत्रापि तदनुप्रवेशस्यैव भावादिति चेत् ; क्व पुनरिदानी हेतुविरोधिना साध्यविपक्षस्य व्याप्तिपरिज्ञानं यतो विपक्षव्यावृत्त्या हेतोर्गमकत्वम् ? क्वचित्साहचर्यदर्शनमात्रेण । गमकत्वे तत्पुत्रत्वेऽपि प्रसङ्गः श्यामेऽपि क्वचित्तस्य दर्शनात् । नैवमिति चेत् ; न; प्रकृतेऽपि समानत्वात् अनन्योपलभ्यत्वस्यापि साध्यविपर्यये दर्शनात् । तद्यथा-सान्तरत्वेन हि
पुरुषेण । २ पुरुषस्य । ३-न्यत्र तदुप-आ०, ब०,०। केशादेः। ५ ज्ञानभिन्नस्यैव । । केशादेः । ७ केशादेः। ८ केशादिज्ञानस्य । ९ इत्यन्वयमात्रेण । १० तस्यगमत्वं ब० । तस्य गमगत्वं भा०। १. विपक्षविरोधः। १२ सहानवस्था-आ०, ब०, ५०। १३ तदनुप्रदेश-आ०,०,०।१४ विरोषस्य ! १५ तदनुप्रवेशेनापि । १६ सत्यकेशादावपि ।
५