SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ २७२ न्यायविनिश्चयविवरणे [१६ प्रतिभासमानस्य कथं तस्य ज्ञानान्तर्गतत्वम् ? तद्भावस्य मिथ्यात्वादिति चेत्, न; वर्त्तमानत्वस्यापि तत्त्वाविशेषात् । मिथ्याकारस्य कथमर्थत्वमिति चेत् ? ज्ञानत्वमपि कथम् ? न बहिर्भावेन ज्ञानत्वं केशादितयैव तत्त्वादिति चेत् ; अर्थत्वमपि तयैव किन्न स्यादविशेषात् ? ततो न पूर्वज्ञानेनापि तदाकारेण तदर्पणम् । अतदाकारेण तु तद्रहणवन्न तदर्पणमप्युपंपन्नम् ५ अतिप्रसङ्गाद् दोषादिति सूक्तम्-सर्व समानम् इति । . शक्तिनियमानियतस्यैव तदाकारस्यार्पणे तत एव ग्रहणमपि नियतस्यैव भवेत् । तन्नियमश्च वस्तुसत्केशादिविषयदर्शनाहिततद्वासनापरिपाकवशात् , भवन्मतेन वस्तुसत्तदाकारदर्शनार्पिततद्वासनापरिपाकवशात्तन्नियमवत् । एतदेवाह तद्धान्तेराधिपत्येन [ सान्तरप्रतिभासवत् ॥३६॥] तत् अनन्तरोक्तम् अर्थात्मासम्भाव्याकारडम्बरं भ्रान्तः मिथ्याज्ञानस्य आधिपत्येन सामर्थेन । दृष्टान्तमाह-सान्तरप्रतिभासवत् इति । अन्तरं व्यवधानं तेन सह वर्तमान सान्तरं केशादि तस्य ज्ञानात् बहिर्व्यवधानवत्त्वेनैव प्रतिभासनात् तत्प्रतिभासः स इव तद्वदिति । तात्पर्यमत्र-केशादिप्रतिभासोऽयम् अवस्तुविषयः बाध्यमानत्वात् सान्तरप्रतिभास. वदिति । साध्यविकलं निदर्शनम्, तत्प्रति भासस्यापि वस्तुविषयत्वात् । अन्तरस्यापि ज्ञाना१५ कारत्वेन वस्तुत्वादिति चेत् ; न तर्हि केशादेस्तदाकारत्वम् अन्तरितस्य तदयोगात् , सर्वस्यापि तदाकारत्वापत्तेः । अतोऽवस्त्वेव केशादिकम् अज्ञानत्वे गत्यन्तराभावात् , अर्थत्वस्य स्वयमनभ्युपगमात् । तदयं शमनप्रयोगादेव प्रकोपो दोषस्य केशादिप्रतिभासस्यावस्तुविषयत्वमुपशम. यितुमुद्भावितादेव निदर्शनस्य साध्यवैकल्यात् "तत्प्रतिभासस्य तद्विषयत्वोपनिपातात् । तदि दं दोषमपसिसारयिषता नान्तरस्य ज्ञानाकारत्वमुररीकर्तव्यमिति "सिद्धं तस्यावस्तुत्वेन तत्प्रतिभा. २० सस्यावस्तुप्रतिभासित्वमिति न साध्यवैकल्यं निदर्शनस्य । संवृतिरेवायमन्तरप्रतिभासो नाम । दर्शनं हि केशादेस्तद्रूपमेव नापरमसम्प्रतिपत्तेः । न च तदेव स्वतः स्वस्य व्यवधानमुपदर्शयति विरोधात् । संवृतिस्तु व्यवधानवासनापरिपाकादुत्पद्यमाना व्यवधानस्य तद्गतत्वेनोपदर्शनात् अन्तरप्रतिभास इत्युच्यते । न च तस्यावस्तु विषयत्वेनान्यथा वा विचारसहत्वम्, "तदसहत्वस्यैव तद्रूपत्वात् , ततः सन्दिग्धसाध्यमेव २५ निदर्शनम् ; अवस्तुविषयत्वस्य साध्यस्य तत्रानिश्चयनादिति चेत् ; न; केशादिप्रतिभासस्यापि संवृतित्वप्रसङ्गात् तस्यापि तद्वासनापरिपाकाभावेऽनुत्पत्तेः । अतस्तस्यापि तद्विषयादन्यत्वानन्य. त्वाभ्यां विचार(ग)क्षमत्वात् कथं निश्चितं तस्य तदाकारत्वं यतस्तदवष्टम्भेनान्यस्यापि वेदनस्य १ तदभावस्य मि-मा०, ब०,५० । बहिर्भावस्य । २-नमतिप्रसङ्गादिदोषा इति आ०, ब०,०।। -यमनिश्चयव-आ०, ब०,१० । ४-यहेतुत्वाद्वास-आ०, ब०, ५० ५-धानत्वेनैव आ०, ब०, प.।। केशादिप्रतिभासस्यापि 1 0 ज्ञानाकारत्वाभावे । ८-तमुपदर्शयितु-आ०, ब०, प० । ९ सान्तरप्रतिभासस्य । "केशादिप्रतिभासस्य । सिद्धान्तस्य आ०, ब., प.। १२ विचारासहत्वस्यैव । १३ संवृतिस्वरूपत्वात् ।
SR No.007279
Book TitleNyayvinischay Vivaran Part 01
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy