________________
१॥३६] प्रथमा प्रत्यक्षप्रस्ताव:
२७१ पत्यवमर्शनम् अर्थाकारशङ्का, न विद्यते सा येषु तैमिरादिज्ञानविषयेषु ते अनर्थीकारशङ्काः शङ्काभावनिवेदनेन तत्र निर्णयस्यात्यन्ताभावमावेदयति । तेषु त्रुट्यति शिथिलीभवति एषः अनन्तरोक्त: 'प्रकाशनियमो हेतोः' इत्ययं नयो न्यायः तादूप्यादेव तत्प्रकाशनियमात् । सिद्ध क्वचित्ततस्तनियमे अन्यत्रापि तदेव नियामकम् । तथा हि-'विवादापन्नस्तत्प्रकाशनियमो विष. याकारादेव, तत्प्रकाशनियमत्वात् , तैमिरकेशादिप्रकाशनियमवत्' इति परस्याकूतम् । यदि ५ इति तदाकूतद्योतने । तत्रोत्तरमाह
सर्व समानमर्थात्मासम्भाव्याकारडम्बरम् । इति ।
अर्थश्च आत्मा च ज्ञानस्वभावस्तदन्यस्य तस्याभावात् , तयोः असम्भाव्यस्तद्रूपत्वेनाभावात् तस्याकारस्य केशादिलक्षणस्य डम्बरं तज्ज्ञाने प्रतिभासनम् । तदयमर्थः-नायमर्थरूपः केशादिर्नापि ज्ञानरूपः 'किन्त्वविद्यमान एव तज्ज्ञाने प्रतिभासते तत्कथं १० तंत्रानन्तरनयस्य त्रोटनम् ? कथं वा तन्निदर्शनबलाद्विवादापन्नेऽपि विषयाकारसाधनम् ? सत्येव तस्य ज्ञानरूपत्वे तदुपपत्तेः । असतः प्रतिभासमानमेव न सम्भवति प्रतिभास्याभावादिति घेत्; न; तस्यैव प्रतिभास्यत्वात् । कथं तस्य प्रतिभास्यत्वमिति चेत् ? कस्मिन प्रकारे प्रश्नः १ विषयगत इति चेत्, 'केशादिरूपेण' इति ब्रूमः । कथमसतस्तद्रूपत्वमिति चेत् ? सतोऽपि कथम् ? तथा दर्शनात् समानमन्यत्र-असतोऽपि केशादिरूपस्योपलम्भात् । असतोऽ. १५ सस्वेनैवोपलम्भनमुपपन्नं न तद्रूपतयेति चेत् ; न; सतोऽपि सत्त्वेनैव तदुपपन्नं न तद्रूपतये. त्यपि प्रसङ्गात् । तद्रूपतैव तस्य सत्त्वमिति चेत् ; असत्त्वमपि तद्रूपतयैवेति किन्नानुमन्यते ? सदसतोरविशेषापत्तेरिति चेत् ; न; शक्तिभावाभावाभ्यां तत्परिहारात्-यस्य हि तदर्थक्रियायां शक्तिः स साक्षात्केशादिः अन्यस्तु तदाभास इति । तन्नायं विषयगते प्रकारे प्रश्नः । तज्ज्ञानगत इति चेत् ; न; तत्रापि शक्तिरूपेणोत्तरवचनात् । अंसदपि केशादिकं ज्ञानेन प्रतिभास्यते २० सच्छक्तिमत्त्वादिति । तदेव कथमसद्विषयमिति चेत् ? आह
- 'सर्व समानम्' इति । चोद्यं तत्समाधानं च सर्व समानं सदृशम् तद्ब्रहणे तदनुकरणे च । तथा हि यद्यसतो न ग्रहणम् अनुकरणमपि कथं यतो ज्ञानं तदाकारम् ? न तदनुकरणात् तस्य तदाकारत्वमपि तु पूर्वज्ञानादिति चेत् ; न; तस्यापि तदाकारत्वं यदि पूर्वज्ञानात्तस्यापि तत्पूर्वज्ञानादित्यनादेः केशनिर्भासस्य प्रसङ्गात् । न चैवम् , विषयान्तरनिर्भास- २५
र्व्यवधानस्य दर्शनात् । व्यवहितस्यैवाकारार्पकत्वमिति चेत् ; तादृशस्यैवार्थस्य प्रतिभासनं किन्न भवेद्यतः केशादिज्ञानमर्थवन्न भवेत् ? भवत्येवमतिप्रसङ्गो जन्मान्तरावगतस्यापि प्रतिभासोपपत्तेरिति चेत् ; न; आकारार्पणेऽपि तत्प्रसङ्गात् । शक्तिनियमतस्तत्परिहारस्यान्यत्रापि प्रत्यवायाभावात् । वर्तमानतया प्रतिभासमानस्य कथं व्यवहितत्वं केशादेरिति चेत् ? बहिर्भावेन
न्यायतास्ता- मा०,१०,५०।२ किश्च वि-आ.ब.प.। ३ तत्रानन्तरस्य त्रो-प.। तत्रानन्तनयस्य मा०, ब| असत एव । ५ तथा तद्दशे-मा०, ब०,०।६ केशादिरूपतया । ७ अपि केशा-बा., १०,०।८ तर्हि यद्यसतोनुप्र-आ०,०,५०९-ज्ञानमर्थशान था, 40, प..