________________
२७०
न्यायविनिश्वयविवरणे
[ २१/३५
पादेय विभागश्वेत्तत्र नास्ति किंमीदृशा भेदेन" [ १० वार्तिकाल० २।३८८ ] इति; तत्प्रतिविहिसम् ; 'अनन्वयव्यतिरेकित्वात्' इत्यस्यासिद्धेः; वस्तुतस्तद्भावस्य प्रतिपादनात् । अन्योन्यव्यतिरेणार्थ तद्वेदन यो दर्शनस्योपपत्तेः, अन्वितानन्वितरूपत्वेन ज्ञानार्थयोर्दर्शनस्यैव तद्व्यतिरेकदर्शनत्वात् । न च तद्व्यतिरेकस्य निष्फलत्वम् ; व्यतिरेकेणैव विनियोगात् । नीलमेव हि वस्त्रादिक५ माच्छादनादौ विनियुज्यते न तज्ज्ञानम्, तेन कस्यचिदाच्छादनाभावात्, तदेव च तज्ज्ञानं विषयान्तरपरिच्छित्तावुपयुज्यते न नीलं तेन कस्यचित्परिच्छेदायोगात् । यथा च तज्ज्ञानस्य विषयान्तरपरिच्छि सौ विनियोगस्तथा प्रतिपादितमेव । ततो 'भेदेन' इत्यादि प्रज्ञाबलविकलतयैव प्रज्ञाकरेण प्रतिपादितम् । यत्पुनरुक्तम्
१०
"दधानं तच तामात्मन्यर्थाधिगमनात्मना । सव्यापारमिवाभाति व्यापारेण स्वकर्मणि ॥
1
तद्वशात्तद्व्यवस्थानादकारकमपि स्वयम् ॥” [ प्र०वा० २।३०७ - ८ ] इति; तदपि महतस्तमसो विलसितमेव; "संवेदनमात्मनि विषयाकारतां धत्ते" [ इत्यस्य प्रतिक्षेपात् तद्वशादधिगमव्यवस्थानस्यासम्भवात् । तदसम्भवे तन्निबन्धनस्य 'सव्यापार मिवाभाति' इत्यस्यानुपपत्तेः वस्तुत एव तस्य सव्यापारत्वाच । न हि तस्मिन्नेव १५ तदिवेति व्यपदेशो नील एव नीलमिवेति तत्प्रसङ्गात् । वस्तुतः सव्यापारत्वञ्च तस्य परापरविषयाभिमुख्यलक्षणस्याधिगमव्यापारस्य तत्र प्रतीतेः । नापि तस्याकारकत्वम्; वस्तुसति व्यापारे तदपेक्षया कारकत्वस्यैवोपपत्तेः । ततो हेतोरेव प्रकाशनियमो बुद्धेर्नाकार नियमादिति सूक्तम्- 'प्रकाशनियमः' इत्यादि ।
"
भवतु नाम सत्यर्थे हेतोरेव तत्प्रकाशनियमा न ताद्रुष्यात्, यत्र तु तैमिरिकज्ञाना२० दावर्थ एव नास्ति तत्र कॅथम् ? न हि तत्र प्रकाश एव सम्भवति तस्य प्रकाश्यनिष्ठत्वेन तदभाasनुपपत्तेः । सम्भवतश्च कुतश्चिन्नियमो नान्यस्य । तत्रापि विद्यत एव केशादि : प्रकाश्य इति चेत्; न; तस्यानर्थत्वात् । न ह्यसावर्थः; अर्थक्रियाविरहात् । अर्थ एवायं अलौकिकः, लौकिककस्यैवायं नियमो यदर्थक्रियया भवितव्यमिति चेत्; न; तस्य " अभिन्नदेशकालानाम्” इत्यादी स्वयमेव निराकरणात् । तस्मादसौ तज्ज्ञानस्यैवाकारो न बाह्यस्य प्रकाशविषयस्य २५ सतो गत्यन्तराभावात् । प्रकाशविषयेण ह्यर्थेन वा भवितव्यं ज्ञानेन वा । तत्रार्थत्वाभावे अवश्यम्भावि ज्ञानत्वम्, अर्थज्ञानाभ्यां राश्यन्तरस्याभावादिति सिद्धं तत्केशादेस्ताद्रूप्यादेव प्रतिवेदनम्, ततस्तत्र विपर्ययस्यत्येव भवदुक्तो न्यायः । तदेवाह -
अनर्थाकारशङ्केषु त्रुव्यत्येष नयो यदि ॥ ३५ ॥ इति ।
अर्थस्य बाह्यस्याकारः स्वरूपं तस्य शङ्का ' किमयमर्थाकारो भवति न वा' इति
१ किमीदृशेनेति आ०, ब०, प० । २ ज्ञानार्थव्यतिरेक । ३ विषयाकारतावशात् । ४ संवेदनस्य । ५ कथं तर्हि प्र-आ०, ब०, प० । ६ प्रकाशस्य । ७ न्यायवि० श्लो० ४६ । ८ सो ज्ञान-आ०, ब०, प० ।