________________
१२३५] प्रथमः प्रत्यक्षप्रस्ताव
२६९ ततो नाद्वैतज्ञानं तच्छून्यत्वं वा' परमार्थतः; तव्यवस्थापनोपायाभावात् ।
भवतु बुद्ध्यात्मैवाऽविभागः परमार्थः, तस्य स्वसंवेदतप्रसिद्धत्वात् । न चैवं ग्राह्यादिभेदनिर्भासस्योपप्लवस्याभावात्-"ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते" [प्र०वा. २।३५४] इति वचनव्यापत्तिः; तदुपप्लवस्य बुद्ध्यन्तरेणोपकल्पनात् , बुद्धिभेदस्यानिराकरणात् , बहिरर्थस्यैव प्रमाणाभावेन प्रतिक्षेपादिति चेत् ; न: बुद्ध्यन्तरस्याप्यविभागितयैव स्वतः प्रसिद्धः ५ ततोऽपि तदुपकल्पनानुपपत्तेः । तत्रापि तदन्तरात्तदुपकल्पनपरिकल्पनायामव्यवस्थापत्तेः । अपरापरश्च बुद्धिभावो न तद्विषयमेकज्ञानमन्तरेण शक्यः प्रतिपत्तुम् , तदभ्युपगमे च पीतादेरेवा. परापरस्य तदभ्युपगन्तव्यम् अविशेषात् । तथा च तदेव पीतादौ क्रमेणानुवृत्तिमात्मनः पीतादेश्च परस्परतो व्यावृत्तिं प्रतिपद्यत इति प्रत्यक्षसिद्धावेव संवेदनतद्वद्यगतावन्वयव्यतिरेको न कल्पनामात्रविरचितौ । ततः प्रतिषिद्धमेतत्
"अन्वयव्यतिरेकाभ्यां भेदव्यापारकल्पना । अनादिवासनासङ्गान तावध्यक्षपूर्वकौ ॥ सजातिपूर्वविज्ञानाऽनुभवांहितवासना ।
व्यतिरेककन्पनाबीजं केवलान्धपरम्परा ॥"[प्र०वार्तिकाल० २।३०८] इति ।
प्रत्यक्षतश्चान्वयव्यतिरेकयोः प्रतिपत्तौ प्रतिपन्न एव पीतवद्वेदनयोर्भेदः, तस्य तद्रूपत्वात्। १५ तेद्रूपत्वेऽप्यभेदे नीलधवलादावपि न भवेत् । न हि विरुद्धधर्माध्यासादपरस्तत्रापि भेदः । सं चेत् पीततद्वेनयोर्भवन्नपि न भेदः परत्रापि न भवेत् । तस्मादनुभवोपारूढमेव ज्ञानतद्विषययोनानात्वं न व्यवहारमात्रप्रसिद्धम् । तदेवाह-'अन्तरेणापि' इत्यादि । सतोरुपलम्भविषययोस्तद्विषेयतयैव परेण सत्त्वोपगमात् "उपलम्भः सत्ता" [प्र० वार्तिकाल० ४।२६३] इति वचनात् । शेषं पूर्ववत् । ततो यदेतद्वार्तिकं तन्निबन्धनञ्च
"नार्थोऽसंवेदनः कश्चिदनथं वापि वेदनम् । दृष्टं संवेद्यमानं तत्तयोर्नास्ति विवेकिता ॥” [प्र० वा० २।३८८ ] "अनन्वयव्यतिरेकित्वात् एकमेव नीलसंवेदनमन्योन्यव्यतिरेकेणादर्शनात् ।
२०
तथाहि
नार्थोऽसंवेदनो दृष्टोऽनर्थकञ्च न वेदनम् । सदापि योगादेकं तदर्थसंवेदनं ततः ॥ भेदेन विनियोगार्थ भेदविद्भेदमिच्छति ।
स चेनास्ति ततो भेदाभेदयोः कैव भिन्नता ॥ तस्मादत्र भेद इति नाममात्रमेव परेण विधातव्यम् न परस्य काचित् नतिः। हेयो
वा नापर-आ०,०प०। २-मार्थतस्तस्य भा०, ब०, प० । ३ भेदस्य । १ अन्वयव्यतिरेकरूफविरुद्धधर्माच्यासात्मकत्वात् । ५ विरुद्धधर्माध्यासात्मकत्वेऽपि । ६ विरुद्धधर्माध्यासः । . उपलम्भविषयतयैव ।