________________
२६८ न्यायविनिश्चयविवरणे
[११३५ योगात्? तदपि नेति चेत्; किं पुनरिदमुन्मत्तभाषितम्-"ज्ञानमपि स्वरूपेणाप्रतिपन्नमसदेवेति शून्यतैवावविशष्यते" [प्र० वार्तिकाल० २।२१२] इति ? शून्यवादिन एवेदं वचनं न ज्ञानवादिनः, 'तेन निर्भेदतयैव तन्नि सस्य तत्सत्वस्य चाभ्युपगमात् । तथा च तस्य वचः
नम्-"अविभागोऽपि बुद्ध्यात्मा" [प्र०वा०२।३४५] इति, "स्वसंवेदनप्रसिद्धमेत" ५ [प्र०वार्तिकाल० २।३५४] इति च । इति चेत् ; उच्यते
निर्भेद एव बुद्ध्यात्मा स्वतश्चेदवभासते। प्राह्यादिभेदनि सस्तत्र कस्मादुपलवः ? ॥६९५॥ अन्यतस्तस्य भावस्तु नैवाद्वैतनिपीडनात् । . न स्वतो नान्यतश्चैष यदि निर्भासते कथम् ? ॥६९६॥ मायामरीचिप्रभृतिरिव चेन्नेदमुत्तरम् । न हि तस्यापि निर्भासः स्वपरापेक्षया विना ॥६९ ॥ तथापि तस्य निर्भासे तद्वदुद्ध्यात्मनो न किम् । स्ववेदनप्रसिद्धत्वं यतस्तत्रोपवर्ण्यते ? ॥६९८॥ नास्त्येव तस्य निर्भास इत्यप्यश्लीलभापितम् । प्राह्यप्राहकसंवित्तीत्यादेः स्वोक्तस्य बाधनात् ॥६९९॥ "दृष्टश्चायं न दृष्टस्य लोपो बुद्धौ प्रसङ्गतः। शून्यतैव भवेत्तत्त्वं बुद्धरुक्तञ्च कैश्चन ॥७००। "तत्रैकस्याप्यभावेन द्वयमप्यवहीयते । तसात्तदेव तस्यापि तत्त्वं या द्वयशून्यता॥" [प्र०वा०२।२१३] इति । शून्यता परमार्थश्चेत्केदमाकारकल्पनम् । यतः प्रयासः सर्वोऽयं तव साफल्यमुद्हेत् ? ॥७०२॥ प्रमाणविरहाच्चायं परमार्थः कथं भवेत् ? । अशून्यमेव तत्त्वं स्यादन्यथा सकलं जगत् ।।७०३॥ प्रमाणं चेन्न शून्य प्रमाणस्यैव भावतः । शून्यत्वं चेत्प्रमाणं नेत्येतत्पूर्व निवेदितम् ॥७०४॥
२०
१-णप्रति-मा०, ब०, प०। २ ज्ञानवादिना। ३-मेतदिति चेत् भा०, २०, ५०।-तं नि-आ.. ब०प०। ५ "मायामरीचिप्रमृतिप्रतिभासवदसत्त्वेऽपि न दोषः।"-प्र०वार्तिकान.१००।६ "प्रााग्राहकसवित्तिभेदवानिव लक्ष्यते"-प्र. वा. २०३५४७ दृष्टेश्चायं न दृष्टस्य लोपे बु-आ०, २०, ५०1. "तत्र एक ज्ञानात्मनि विरुद्धं द्वयं न युक्तमित्येकस्य ग्राह्यत्वस्य प्राहकत्वस्य वावश्याभ्युपगन्तव्यत्वेनाभावेन द्वयमप्यवहीयते । अन्योन्यसापेक्षयोरेकाभावेऽपराभावस्य न्यायप्राप्तत्वात् । तस्मात्तस्य ज्ञानस्यापि तत्वं तदेव या द्वयेन प्रापप्राहकाकारेण शून्यता नाम ।"-प्र. वा. म.१०२२१३९ यद्वयशू-ता० ।