________________
प्रथमः प्रत्यक्षप्रस्तावः
२६७ प्रत्यक्षे नानुमानम् ; तत्पूर्वकत्वात् । प्रमाणान्तरं तु नास्त्येव यतस्तत्प्रतिपत्तिः । अतोऽनादि. तद्वासनाविकासोल्लासिता विकल्पिकैव बुद्धिरन्वयव्यतिरेकावुपदर्शयति । तदभिप्रायेण च पीततज्ज्ञानयोर्भेदकल्पनमनुमन्यत एव, परमार्थत एव तदनभ्युपगमात् , “परमार्थतस्तु तदतदाकारं परापरं विज्ञानमेव" [प्र. वार्तिकाल० २।३०७ ] इति वचनादिति चेत् ; कुतः पुनरिदमपरापरत्वं विज्ञानानामवगन्तव्यम् ? तेषामेव कुतश्चिदन्यतमादिति चेत् ; न; ५ तस्य स्वाकारमात्रपर्यवसायित्वेनान्यत्राप्रवृत्तेः । न हि तदन्यत्राप्रवर्त्तमानं तद्गतमपरापरत्वं प्रत्येतुमर्हति; धर्मपरिज्ञानस्य तदधिकरणपरिज्ञानाविनाभावनियमात् । तन्नैकस्मात्तत्परिज्ञानम् । भवतु बहुभिरेव तत्परिज्ञानम् , तानि हि परस्परमनुप्रवेशरहितमात्मानमात्मानुभवस्वभावतया प्रतिपद्यन्ते, तदेव च तेषामपरापरत्वपरिज्ञानमिति चेत् ; नन्विदमेव दुरवबोधं यद्येकं तद्गोचरं 'विज्ञानं न भवेत् । भवतु तदिति चेत् ; न; वक्ष्यमाणोत्तरत्वात् । तन्न प्रत्यक्षात्तदपरापरत्व. १० परिज्ञानम् । नाप्यनुमानात् ; प्रत्यक्षाभावे तदनुत्पत्तेस्तत्पूर्वकत्वात् । प्रमाणान्तरस्य चानभ्युपगमात् ।
___तदपरापरत्वमपि तद्वासनोपनीतेन विकल्पेनैव कल्प्यत इति चेत् ; न; "परमार्थतः" इत्यस्य विरोधात् , कल्पितस्यापरमार्थत्वात् । अस्ति वस्तुतस्तदपरमार्थत्वम् , तत्परमार्थत्वकथनं तत्र लोकाभिप्रायानुरोधादिति चेत् ; न; अन्वित एव ज्ञाने तत्कथनप्रसङ्गात् । 'तत्तैव (तत्रैव) १५ लोकस्य परमार्थत्वाभिप्रायात् ।
कस्य वा वस्तुतः परमार्थत्वम् ? पीतवेदनाकारमात्रस्याद्वैतवेदनस्येति चेत् ; पीतमपि कीदृशम् ? स्थूलमिति चेत् ; न; तस्यानभ्युपगमात् । "तस्मानार्थेषु न ज्ञाने स्थूलावभा(लामा)सः" [प्र० वा० २।२११ ] इति वचनात् । परापरपरमाणुरूपमिति चेत् ; तत्परमाणुषु तर्हि वेदनमेकं प्रवर्त्तमानमात्मानमपरापरतदाकारानुगतं तदाकाराश्च (कारांश्च) २० परस्परव्यतिरेकिणः प्रतिपद्यत इति कथं प्रत्यक्षसिद्धावेवान्वयव्यतिरेको न भवेतां यतः पीततद्वेदनयोः पारमार्थिक एव भेदो न भवेत् ? प्रतिपरमाणु भिद्यत एव तद्वदनं तदयमदोष इति चेत् ; कथमद्वैतं कथं वा तद्वदनानां बहुत्वस्य परिज्ञानं स्वरूपवेदननियमेन परस्परमवि. षयीकरणात् ? अन्यस्य चैकस्य तत्परिज्ञातुरभावात् । भवत्वेकपरमाणुरूपमेव पीतमिति चेत् ; न; तस्यानवभासनात् । न हि निर्भेदस्य संवेदनस्यावभासनं ग्राह्यग्राहकादिभेदप्रतिभासवत १५ एव तस्य प्रतिवेदनात् । स्वतो निर्भेदमेव तत् , तद्भेदप्रतिभासस्तु तस्योपप्लव एव "ज्ञानस्यामेदिनो भेदप्रतिभासो ह्युपप्लवः" [प्र० वा० २।२१२ ] इति वचनादिति चेत् ; तदुपप्लवो यदि तस्य स्वत एव; कथं निर्भेदत्वम् ? न हि स्वत एव भेदेन प्रत्यवभासमानं निर्भेदमित्युपपन्नम् , पीततयाऽवभासमानस्याप्यपीतत्वप्रसङ्गात् । अन्यत एव तस्य तदुपप्लवः स्वतस्तु तन्निर्भेदमेवावभासत इति चेत् ; कथं तर्हि तस्यासत्त्वोपपादनम् , यथातत्त्वं प्रतिभासमानस्य तद. ३०
१-ज्ञानं तद्भ-आ०,०,५०२त एव प० । अत्र ताडपत्रं त्रुटितम् । ३-स्यापरमा-आ०,०प० । १ अत्र ताडपत्रं त्रुटितम् ।