________________
२६६
न्यायविनिश्चयविवरणे
[११३५
[तत्] सम्यग्ज्ञानं "प्रामाण्यं व्यवहारेण" [प्र०वा०१७] इति वचनात् । यत्र तु तदभावः तैमिरिककेशादौ मिथ्यैव ज्ञानम् "केशादिर्नार्थोऽनाधिमोक्षतः" [प्र०वा०२।१] इति वचनादिति चेत्; अनाकारमेव तर्हि विज्ञानमभ्यनुज्ञातव्यम्, व्यवहारस्य तथैव भावात् ।
न हि व्यवहारी नीलमेव विज्ञानमनुमन्यते 'नीलमहं वेद्मि' इति नीलादन्यत्रैव तज्ञाने ५ तैदभिनिवेशदर्शनात् । न चासो क्वचिदनुगम्यते क्वचिन्नेति निर्निमित्तमुपपन्नम् । सत्यपि
तथा व्यवहारे प्रकाशनियमाय साकारवाद इति चेत् ; न; हेतुबलादेव तन्नियमान्न विषयाकारात् । एतदेवाह-न प्रतिविम्बतः । प्रतिबिम्ब विषयसारूप्यं न ततः प्रकाशनियम इति । कदैतत् ? इत्याह-अन्तरेणापि विनापि । किम् ? ताप्यं विषयाकारत्वं ग्राह्यग्राह
कयोर्नीलतद्वेदनयोः सतोर्व्यवहारतो विद्यमानयोरिति । विद्यत एव व्यवहारतो नीलतद्वे. १० दनयोरन्यत्वम् । न चैवमनुभव इति चेत् ; न; अन्वयव्यतिरेकानुभवस्यैव भेदानुभवत्वात् , अन्वयवद्विज्ञानमनुभूयते व्यतिरेकवञ्च नीलादिकम् । तथा हि
पीते प्रवृत्तं प्रत्यक्षं यदान्यत्र प्रवर्त्तते । तदा तदन्वितं पीतं व्यतिरेकि च दृश्यते ॥६८८॥ पीताव्यतिरेके तु तद्वत्तस्यान्वयः कथम् ? । अन्वितस्य च तस्यास्ति दर्शनं सार्वलौकिकम् ॥६८९॥ पीतं मया पुरा दृष्टमधुना दृश्यते परम् । इत्यन्वितस्य बोधस्य स्वतोऽनुभवनिर्णयात् ॥६९०॥ अभेदे त्वन्वितज्ञानात्पीतमप्यन्वितं भवेत् ।। न ह्यन्वितादभिन्नं तदुपपन्नमनन्वितम् ॥६९१॥ विषयान्तरसञ्चारः प्रत्यक्षस्य तदा कथम् । पीतस्यैव सदा वित्तेस्तज्ज्ञानाव्यतिरेकिणः ? ॥६९२॥ अन्वयव्यतिरेकेऽपि यद्यभेदप्रकल्पनम्। पीततज्ज्ञानयोर्लोके न किञ्चिद्भिन्नतो ब्रजेत् ॥६९३॥ विरुद्धधर्माध्यासाद्धि भेदोऽन्यत्रापि नापरः ।
अभेदश्चेदसावत्र कथमन्यत्र मिद्भवेत् ॥६९४॥
नन्विदं बालोपलालनमेव यदन्धयव्यतिरेकाभ्यां भेदप्रकल्पनम् , प्रमाणाभावात् । न हि किञ्चित्क्वचिदन्वितं कुतश्चिव्यावृत्तमित्यपि प्रमाणमस्ति, प्रत्यक्षस्य तत्राप्रवृत्तेः । प्रत्यक्षेण हि तात्कालिकत्वमेव भावानां प्रतिपत्तव्यं तथा तद्धतोनियमान पौर्वापर्यम्, अतिप्रसङ्गात् । न च तदप्रतिपत्तौ ततस्तदन्वयव्यतिरेकपरिज्ञानम् । तस्य तदविनाभावात् । असति. प
, अत्र आ०, १०, प० । २ अर्थबुझ्यभावात् । ३ सामाभिप्राय । प्रत्यक्षम् मन्वितम् । ५ पीतवत ज्ञानस्य । ज्ञानस्य । ७ पौर्वापर्याप्रतिपत्तौ।.