________________
२६५
१॥३५]
प्रथमः प्रत्यक्षप्रस्तावः नियमात् न स्वापेक्षस्य । अवश्यञ्चैतदेवमङ्गीकर्तव्यम् , अन्यथा नीलतद्वेदनयोहेंतुफलभावेऽपि तत्प्रसङ्गात् । तवेदनं हि कारणमेव कस्यचित् , अन्यथा तदवस्तुत्वापत्तेः । कारणत्वञ्च तस्य कार्योपजननशक्तिलक्षणं स्वकारणादेवेति तदेव तस्य नीलं कार्य ने पुनस्तत्तस्येति प्राप्तम् । तथा म तत्तस्य ग्राह्यमेव अहेतोस्तदनभ्युपगमात् । ततो निराकृतमेतत्
"ज्ञानं खावभासतः । तं व्यनक्तीति कथ्येत तदभावेऽपि तत्कृतम् ॥” [प्र०वा०२।४२०] इति ।
नीलज्ञाने नीलकृतत्वस्य तदवभासस्य च तदाकारतालक्षणस्यानन्तरनीत्या निषेधात् । तस्मादत्र कारणेन कार्यान्तरापेक्षमेव तस्य कारणत्वमापाद्येत नात्मापेक्षमित्येतदेवोत्तरम् । एतच्च प्राह्यप्राहकभावेऽपि समानम्-नीलसद्वेदनयोः परस्परसव्यपेनस्यैव तद्भावस्य तत्का. रणेनोपसर्पणात् । ततो दुर्व्याहृतमेतत्-"यदधीना हि तयोः" इत्यादि । नीलतज्ज्ञानस्वरूप- १० व्यतिरिका तद्भावे एव नास्ति तत्कथं तच्चिन्तेति चेत् ? न; कार्यकारणभावस्यापि तव्यति. रिक्तस्याभावात् तश्चिन्तनस्याभावापत्तेः । कार्य ज्ञानं तस्य कारणच नीलमिति प्रतीतेः अस्त्येव तद्भाव इति चेत् ; न; ग्राह्यं नीलं तस्य ग्राहकं च ज्ञानमित्यपि प्रतीतेः ।
___कल्पनामात्रमेवैतदनादिवासनाधीनम्' इत्यपि न युक्तम् ; कार्यकारणभावप्रतीतावप्येवप्रसङ्गात् । कल्पित एव तद्भावोऽपि परमार्थतो बहिरर्थस्याप्रतिवेदनात् । न हि प्रत्यक्षेण १५ तत्प्रतिवेदनम् ; आकारवतो ज्ञानस्यैव ततः प्रतिवेदनात् । नाप्यनुमानेन; तस्य प्रत्यक्षपूर्वकत्वेन तदभावेऽनवतरणात् ।
"प्रत्यक्षपूर्वकं सर्वमनुमान प्रवर्तते ।
प्रत्यक्षस्यानुमापेक्षा यद्यन्योन्यसमाश्रयः ॥
न यावदनुमान प्रमाणं तावन्न प्रत्यक्षं प्रमाणीभवति बाह्येऽर्थे । न च प्रत्यक्ष- २० स्य प्रामाण्यासम्भवेऽनुमानम् , तत्पूर्वकत्वात् , अन्यथा अन्धपरम्परा भवेत् । तसात्परमार्थतः स्वरूपमेव संवेदनस्य संविदितं नार्थः।" [प्र०वार्तिकाल० २।४२०] इति नास्त्येव वस्तुतस्तस्य कारणत्वं तत्कार्यत्वञ्च ज्ञानस्य, कल्पनैव केवलं तद्भावमुपदर्शयतीति चेत् ; न; बहिरर्थवेदनस्य सविकल्पकत्वेन प्रत्यक्षत्वाभावप्रसङ्गात् । न हि कल्पनारोपितगोचरस्य निर्विकल्पकत्वमुपपन्नम् । सत्यम् , मिथ्याभिनिवेशरूपेण विकल्पेन सविकल्पकत्वम् अपरामर्शरूपकत्वात्तनिर्विकल्पकत्वमुच्यत इति चेत् ; कथं तथापि प्रत्यक्षत्वं भ्रान्तत्वात् ? न हि मिथ्याविषयमभ्रान्तमुपपन्नम् ; अतिप्रसङ्गात् । इदमपि सत्यमेव वस्तुवृत्त्या सर्वस्यालम्बने भ्रान्तत्वात् , अभिनिवेशकभावाभावाभ्यां तु सम्यअिथ्याज्ञानावभागः, यत्र हि व्यवहर्तुराभिनिवेशः
नीलवेदनस्य । २ न पुनः नीलवेदनं नीलस्य कार्य नीलाभावादिति भावः। ३ अकारणस्य । प्राधप्राहकभावस्य । ५ग्राह्यग्राहकभावः। ६-मेव तदना-आ०,०,०। ७-वेदनम् आ.ब.प.।"