________________
२६४ न्यायविनिश्चयविवरण
[२३५ "अन्यस्यानुपकारिणः ॥ व्यक्ती व्यज्येत सर्वोऽथः" [प्र०वा०२१४१८] इति । यश्चात्र निबन्धनम्-"न समानकालस्य हेतुता; तथाऽप्रतीतेः। 'असम्बन्ध(द्ध)ग्रहणे च
सर्वमेव गृह्यत" [प्र०वार्तिकाल०] इति ; तंदपि प्रत्याख्यातम् ; न हि कालसाम्याद्विषयपरि५ ज्ञानं यदयमतिप्रसङ्गः, किन्तु शक्तः, तस्याश्च स्वहेतुबलभाविनो नियमात् नियतस्यैव
समसमयस्यान्यस्य वा परिज्ञानमिति किमेतावता न पर्याप्तम् ? यत इदं बालविप्रलम्भनमाकारपरिकल्पनया कल्प्यते । कथञ्चार्यम् "स्पर्शस्य रूपहेतुत्वात्" [प्र०वा०१।१८४] इत्यादिव्याख्याने "परस्परवियोगेन समानकालयोरपि हेतुत्वात्" [प्र०वार्तिकाल० ]
इत्यनेन समसमयस्यापि स्पर्शस्य रूपहेतुत्वं प्रतिपादयन्नेव निबन्धनकारः तादृशस्यैवार्थस्य १. ज्ञानहेतुतां प्रत्याचक्षीत ? यत इदम् “न समानकालस्य" इत्यादि सूक्तं भवेत् ? तदयं प्रज्ञाकरोऽपि विस्मरणशील इति सविस्मयमस्मच्चित्तमावर्तते ।
यदपि हेतोः प्रकाश्यप्रकाशनियम एव "तद्धेतोनियमो यदि"[प्र०वा०२।४१८] इत्यनेन पूर्वपक्षयित्वा समाधानमुक्तम्-"नेपापि कल्पना ज्ञाने" [प्र०वा०२१४१९] इति । निबन्ध
नमत्र-"[न] प्रतिनियतग्रहणमनया कल्पनया । हेतुनियमो हि पदार्थानां स्वरूपे, १५ कार्यकरणे वा ? न तावत्स्वरूपे ; स्वरूपप्रतिनियमे हि कारणतः स्वरूपमेव तयोस्तथाभूतं
यदवभासते ततः स्वरूपावभासनमेव प्रसक्त तत्पूर्वकारणाधीनं न परस्पराधीन मिति न परस्परं ग्राह्यग्राहकभावः समानकालतयोदयात् । यदधीना हि तयोराह्यग्राहकता तस्य हि तौ ग्राह्यग्राहकाविति युक्तम् । न च संविदितात् स्वरूपादपरा ग्राह्यग्राहकता ।
कथं तर्हि 'ग्राहकोऽहं ग्राह्यं ममेदम्' इति प्रतीतिः ? न; तदपरस्य सम्बन्धस्याप्रति२० भासनात् । कल्पनामात्रमेव अनादिवासनाधीनमेतत् । तथा चोक्तम्- "सव्या.
पारमिवाभाति" [प्र०वा०२।३०८] इति । तस्मात्स्वरूपे स्वहेतुनियमान ग्राह्यग्राहकभावः । अथ कार्यकरणे हेतुनियमः; तदापि यदि ताभ्यां प्रतिनियतस्य कार्यात्मनो जननम् ; कथमिव ग्राह्यग्राहकभावः सहकारिभाव एव भवेत् ? न च तावता ग्राह्यग्राहक
भावः, तस्मान्न हेतुतो ग्राह्यग्राहकभावः” [प्र०वार्तिकाल०] इति । तत्र स्वरूप एव हेतुनियमः, २५ न तावता स्वरूपप्रतिभासनमेव नीलतद्वेदनयोः । नीलस्य हि स्वहेतुनियतं ग्राह्यत्वं नियतवेदना
पेक्षमेव न तु निरपेक्षं तत्कथं तस्य स्वतोऽवभासनम् ? तद्वदनस्यापि तन्नियतप्राहकत्वं नियत. नीलापेक्षं स्वापेक्षञ्च, तत्कथं तस्य स्वावभासनमेव । न चैवं सति कारणमेव नीलस्य ग्राहक प्राह्मञ्च तद्वेदनस्य' इति चोद्यम् ; नीलतद्वेदनयोः परस्परापेक्षस्यैव ग्राह्यग्राहकभावस्य कारणेन
, 'असम्बद्धग्रहणे'-प्र. वार्तिकाल । २ प्रज्ञाकरगुप्तः । ३ स्पर्श स्यापि रूप-भा०, ब०, ५० ४ कार्य कारणे वा भा०, ब.। कार्यकारणे वा प०। ५ तस्य हेतौ भा०, ब०,५०। ६ संविदितस्वरूभा०, ब०, प० । 'संविदितस्वस्वरूप'-प्र. वार्तिकाल०। ७ -रूपस्यस्वहे- आ०, ब०, ५०। ८ स्वहेतुनि' यतग्राहकत्वम् ।