________________
१३५ ]
प्रथमः प्रत्यक्ष प्रस्तावः
२६३
अभिमुखीविषयं प्रति न पुनस्तदाकारा व्यक्तिः बुद्धिः अभिव्यक्तिः तदन्या अनभिव्यक्तिः आकारवती व्यक्तिः तस्याम्, आत्मसमर्पणं स्वाकारनिवेशनम् अतीतस्य तज्ज्ञानात्माच्यविषयस्य । कथम् न कथञ्चित् अवगम्यत इति शेषः । ततो भिन्नकालविषयं प्रश्नमुत्तरच प्रतिपोदयता तत्परिज्ञानमभ्यनुज्ञातव्यम् । तञ्च निराकारयैव व्यक्त्या उपपद्यत इति उपपन्नं तदन्यथानुपपत्त्या तद्व्यक्तिव्यवस्थापनम् । तदेवाह -
असतो ज्ञानहेतुत्वे व्यक्तिरव्यभिचारिणी । इति
असतः अतीतस्य तस्य ज्ञानकाले व्यतिक्रमात् ज्ञानहेतुत्वे स्वाकारज्ञानजनकत्वे व्यक्तिः निराकारा वित्तिः, अन्यतस्तत्परिज्ञानयोगात् अव्यभिचारिणी प्रमाणमिति यावत् । यदि निराकारैव व्यक्तिः कथं ततः प्रकाशननियम: - 'नीलस्यैवायं प्रकाशो न पीतादे:' इत्येवं रूप इति चेत् ? अत्राह -
प्रकाशनियमो हेतोर्बुद्धेर्न प्रतिबिम्बतः ॥ ३४ ॥ अन्तरेणापि ताद्रूप्यं ग्राह्यग्राहकयोः सतोः । इति
"ज्ञानशब्द प्रदीपानां प्रत्यक्षस्येतरस्य च । जनकत्वेन पूर्वेषां क्षणिकानां विनाशतः ॥ शक्तिः कुतोऽसतां ज्ञानात्” [प्र०वा०२।४१७] इति;
प्रकाशोऽधिगमः तस्य नियमोऽवधारणमुक्तरूपम्, स कस्याः सम्बन्धी ? बुद्धेः . प्रत्यक्षलक्षणायाः ततस्तस्य भावात् । स कुतः ? इत्याह- हेतोः बुद्धेर्यो हेतुरिन्द्रियादिलक्षणः प्रकाशावरणक्षयोपशमादिसव्यपेक्षस्तत इति । एतदुक्तं भवति - स्वहेतोरेव बुद्धिः नियतप्रकाश- १५ शक्तिकत्वेनोत्पन्ना यतो नियत एव ततो विषयप्रकाश इति । अवश्याभ्युगमनीयश्चायं स्वहेतुनिबन्धनः शक्तिनियमो भावानाम्, अन्यथा 'नीलज्ञानस्य नीलवत्पीतादयोऽपि किन्न सर्वे हेतवः तज्ज्ञानं वा नीलवत्किन्न सर्वेषां कार्यम् ? कारणत्वेन च नीलस्य आकारयितृत्वे तदविशेषात् चक्षुरादयोऽपि ज्ञानस्य कुतो नाकारयितारः ? कुतो वा स्वलक्षणदर्शनं नीलवत्क्षणभङ्गादावपि न निश्चयमुपजनयति यतस्तत्र समारोपः तद्व्यवच्छेदार्थमनुमानञ्च परिकल्प्येत' इत्या- २० द्यतिप्रसङ्गपर्यनुयोगे कः परः परिहारः ? ततो यथा शक्तिनियमादेव अत्र कारणत्वादिनियमः तथा प्रकाशनियमो ऽपि बुद्धेरिति व्यर्थं तदर्थमाकारपरिकल्पनम् । न चातीतपरिज्ञानार्थम् ; तस्यापि शक्तित एवोपपत्तेः । ततो यदत्र वार्तिकम् -
तत्प्रतिविहितम् ; सन्निधानं यदि ग्रहणनिबन्धनं भवेदतीतस्य शब्दादेरग्रहणम् असन्निधानात् । न चैवम् । शक्तेस्त निबन्धनत्वात् तस्याश्च भिन्नकालभावापेक्षयापि भावात्, अन्यथा तदपरिज्ञानमेवेति निवेदितत्वात् । यदपि समानकाले परिज्ञानेऽतिप्रसङ्गपरं वार्तिकम् -
"
५
१ अभिमुखिवि-आ०, ब० । २-दयति त- आ०, ब०, प० । ३-स्य ज्ञान-आ०, ब०, प० । ४ नीलज्ञानं वा । ५ कारणत्वाविशेषात् । ६ 'व्यक्तिः कुतोऽसताम्'- प्र० वा० । ७ ग्रहणनिबन्धनत्वात् ।
१०
२५