________________
२६२ न्यायविनिश्चयविवरण
[११३४ द्विचन्द्रादिर्य (दिव्य) तिर्भवेत् । ततो विचाराद्वाधकं निषेधता तस्य तदभावज्ञापकत्वमनुमन्तव्यम् । तथा च द्विचन्द्रादेरपि किश्चिदभावमवबोधयत् किन्न बाधकं भवेत् ? तस्य प्रतिभासे कथमभावबोधनमिति चेत् ; कथं बाधकस्य ? तदपि मदीयमेव चोद्यमिति चेत् ; उच्यते
भैवेदिदं चोद्यम् , यदि प्रतिभासनादेव सत्त्वम् , सति तस्मिन् कथमभावबोधनं विरोधादिति ? न ५ चैवम् , अर्थक्रियासामर्थ्यादेव सत्त्वोपपत्तेः । प्रतिभासनमात्रादेव तु सत्त्वे नित्यादेरप्रतिषेध. प्रसङ्गात् , तस्यापि स्वग्राहिणि विज्ञाने प्रत्यवभासनात् । नास्त्येव तादृशं ज्ञानं लोक इति चेत; कीदृशमस्ति ? सौगतकल्पितमनित्यादिविषयमेवेति चेत् ; न; विप्रतिपत्त्यभावप्रसङ्गात् । तथा च व्यर्थमेव प्रमाणशास्त्रप्रणयनं तस्य प्रमाणविषयविप्रतिपत्तिनिराकरणार्थत्वात् । स्वत एव च
तेदभावे किं तदर्थेन तत्प्रणयनप्रयासेन किंशुके पाटलिमापादनप्रयासवत् । सोऽपि नास्त्येवेति १० चेत् ; न; दृष्टत्वात् । भ्रम एवायं तवेति चेत् ; किमिदं भ्रम इति ? असत्यपि
'तत्प्रयासे तत्परिज्ञानमिति चेत् ; अस्ति तर्हि प्रतिभासनमसतोऽपि इति कथमुपलभ्यमानस्याभावज्ञापनमनुपपन्नम् ? यतः किञ्चित्कस्यचित् बाधकं न भवेत् । ततो बाधवत्त्वादुपपन्नं द्विचन्द्रादिव्यक्तेयभिचारित्वं नार्थव्यक्तेर्विपर्ययात् । विपर्ययप्रतिपत्तिश्चाभ्यासे स्वतः, अन
भ्यासे च परतः । न चैवमनवस्थानम् ; पर्यन्ते कस्यचिदभ्यासवतो ज्ञानस्यावश्यम्भावात् । १५ तदाह-व्यक्तिः निराकारबुद्धिः अव्यभिचारिणी व्यभिचारशीला न भवति, ततो बहिरर्थप्रतिपत्तिस्तत एवेति भावः।
'निराकारव्यक्तिरेव नास्ति नीलादिसुखादिव्यतिरेकेण तदसम्प्रतिपत्तेस्तत्कथं क्वचि. व्यभिचारित्वं तस्या इति चेत् ? न; स्वसंवेदनतस्तत्प्रतिपत्तेर्निवेदितत्वात् ।
अपि च, निराकारैव बहिरर्थव्यक्तिः, "भिन्नकालम्" [प्र० वा. २।२४७ ] २० इत्यादिप्रश्नस्यान्यथानुपपत्तेः । न ह्यपरिज्ञातविषयः प्रेक्षावतां प्रश्नः । परिज्ञानञ्च भिन्नकाल
स्यार्थस्य न प्रत्यक्षात् ; तेन "पृथक् तस्याप्रतिवेदनात् । पृथक् प्रतिवेदने हि तस्य भिन्नकालत्वमन्यद्वा "तत्त्वं शक्यमवगन्तुम् । न चैवम् , तदाकारस्यैव तेन प्रतिपत्तेः, तस्य च तदनुप्रविष्टस्य तात्कालिकत्वात् । नापि तत्कादाचित्कत्वलिङ्गोपजनितादनुमानात्तत्परिज्ञानम् ; "तस्यापि प्रत्यक्ष
वन्निराकारस्याभावात् । आकारवत्त्वे तु तेनापि स्वरूपस्यैव परिज्ञानं न पृथगर्थस्येति न ततोऽपि २५ तत्परिज्ञानम् । पुनरपि तदाकारकादाचित्कत्वलिङ्गोपजनितादनुमानात्तत्परिज्ञानपरिकल्पनायाम्
अनवस्थानमसमञ्जसमासज्येत । न चापरं तत्परिज्ञानकारणमिति कथमयं प्रश्नः “भिन्नकालं कथं ग्राह्यम्" इति ? प्रश्नोपनिबन्धनस्य भिन्नकालवस्तुपरिज्ञानस्याभावे तदनुपपत्तेः । कथं वा तत्रेदमुत्तरम्-"हेतुत्वमेव" इत्यादि । तस्यापि भिन्नकालवस्तुविषयत्वेन तज्ज्ञानाभावेऽनुपपत्तेः। तदेवाह
अतीतस्यानभिव्यक्ती कथमात्मसमर्पणम् । इति ।
विचारस्य । २-भावमेवबो-मा०, ब०,५०। ३ भवदिदं मा०, ब०,५०। ४ नित्यादेरपि । ५ विवादाभावे । ६ शास्त्रप्रणयनप्रयासः । शास्त्रप्रणयनप्रयासे । ८ -त् सो बाध-मा०,०,५०।९-रा व्यभा०,१०,५०।१० प्रसक्तस्या-भा०,ब०प०।११ -तत्कथमश-भा०,ब०प० ।।२ भिन्नकालस्य अर्थस्य ।