________________
१॥३४] प्रथमः प्रत्यक्षप्रस्ताव
२६१ विशेषणाप्रसिद्धौ च बोधशक्तिः कथं 'तव ? ॥ विशेषणमथान्यत्र सिद्धमत्रानुवादवत् । भावरूपं हि तत्तत्र नाभावस्य विशेषणम् ॥ तदेवान्यत्र नास्तीति यद्येवं प्रतिपद्यते । तथैव प्रतिपन्नस्य निषेधोऽयं किमर्थकः १ ॥ अन्यथा प्रतिपन्नस्य तथापि न निषेधनम् । प्रागुक्तमेतदेवेति न पुनः पुनरुच्यते । न दृश्यते यदा भावस्तदा न स्यानिषेधनम् ॥ स्मृत्याध्याहृत्य तत्रास्य क्रियते चेन्निपेधनम् । स्मृत्या स्वरूपग्रहणे न कथञ्चिनिषेधनम् ।
स्मृत्या स्वरूपग्रहणे नाभावस्य विशेषणम् ॥" [प्र०वार्तिकाल०३।३३० ]
इति चेत् ; किमस्य विचारस्य प्रयोजनम् ? न किश्चिदिति चेत् ; न; निष्प्रयोजनवचनस्य असाधनाङ्गवचनत्वेन निग्रहावाप्तेः । बाधकसद्भावपरिज्ञानस्य नाशः प्रयोजनमिति चेत् ; न; तस्याजातस्य तदयोगात्, तत्र 'यद्यजातोऽसौ भावः' इत्यादेर्दोषात् । नापि आतस्य; तत्रापि 'अथ जातः कारणात्तथा सति' इत्यादेः प्रसङ्गस्यापि विशेषात् । अथ येन १५ रूपेण न जातस्तेनास्य नाशः क्रियते; तन्न; तत्रापि 'अन्यरूपेण जातस्य' इत्यादेरविकलस्याविशेषात् । तन्न तत्परिज्ञानस्य विचारान्नाशः तद्विपयस्य बाधकस्येति चेत् ; न; तत्राप्यस्य प्रसङ्गस्य तुल्यत्वात् । तस्यापि 'यथा स जातः तेनास्य रूपेण न विनाशनम' इत्यादिनैव प्रतिपादनात् । तन्न तद्विषयस्यापि ततो नाशः । तर्हि तत्परिज्ञानस्य निर्विषयत्वं तेन ज्ञाप्यते इति चेत् ; किमिदं निर्विषपनन्नाम ? तद्विषयस्य बाधकस्यासत्त्वमेवेति चेत् ; न ; तत्रापि 'यदा स २० दृश्यते भावः' इत्यादेरुपसर्पणात् ।
___अपि च, नाप्रसिद्ध बाधके तद्विशिष्टत्वमभावस्य, न च तथा प्रतिपत्तिः तदा भावाप्रसिद्धौ च' इत्यादेायात् । प्रसिद्ध च तस्मिन् भाव एव नाभावः, भावाभावयोनिष्पर्याय - मेकत्र विरोधात् । अन्यत्र प्रसिद्धमन्यत्रानुवादोपनीतं निषिध्यत इति चेत् ; न; तत्रापि 'भावरूपं हि तत्तत्र' इत्यादेर्दूषणस्यानुषङ्गात् । न चापरिज्ञातस्यानुवादोऽपि । परिज्ञानञ्च न २५ दर्शनमेव, निषेधसमये तदभावात् । स्मरणमिति चेत् ; तेनापि यदि तत्स्वरूपग्रहणं सम्भवत्यनुवादो न निषेधः, स्वरूपतः प्रतीयमानस्य तदयोगात् । अथ न स्वरूपग्रहणम् ; न तर्हि तस्याभावविशेषणत्वम् , 'स्मृत्या स्वरूपग्रहणे' इत्यादिना स्वयमप्येवमभिधानात् ।
ततो न विषयाभावस्यापि परिज्ञानं तत्कथमुक्तो बाधकामावनिर्णयः ? यतो निर्बाधैव
१ तमः आ०, ब०,५०।२ तदैवान्य-आ०, ब०, प० । विशेषणीभूतं वस्तु । ३ नास्तीति रूपेण । ४ प्रतिपाद्यते भा०, ब०, ५०, प्र. वार्तिकाल । ५ यथाभावः भा०, ब०, ५०। ६-मस्य प्रयो-आ०, ब०, ५०, ७ बाधकसद्भावपरिज्ञानस्य । ८ -नाशः प्रयोजनमिति चेन्न तत्राप्यस्य मा०,०, प०।९-करवस्यास-आ०, ब०, ५०० युगपत् ।