________________
न्यायविनिश्वयविवरणे
अजातस्य कथं तेनं तस्याभावो विधीयताम् । न जातु खरशृङ्गस्य ध्वंसः केनचिदर्पितः ॥ जातस्यापि न भावस्य ततोऽभावो विधीयते । "तदस्ति" हेतोस्त नास्ति बाधकादिति साहसम् ॥ यद्यजातोऽसौ भावः केन तस्याभावः क्रियते ? दैवरक्ताः किंशुकाः कस्तान् पुना रञ्जयति ? अथ जातः कारणात् ; तथा सति यथा जातस्तथास्ति, कथं तत्र विनाशावेशः ? तथा सति तदेव नष्टं तदेव सदिति महदसमञ्जसम् । अथ यथा न जातस्तथा विनाश्यते; तथा सति
५
१०
१५
२०
२५
२६०
अन्यरूपेण जातस्य यद्यन्येन विनाश्यता | नीलादेरन्यपीतादिरूपेणास्तु विनाश्यता ॥
न च तस्य तद्रूपमिति सैव दैवरक्तता । तेन च रूपेणासौ पश्चाद्विनाश्यते । अथ सर्वदा;
यदि पचाद्विनाश्येत पूर्वं तद्रूपता भवेत् । तेन रूपेण जातस्य कथं पश्चाद्विनाशनम् ? || तदैव तेन रूपेण जातः पश्चाद्विनाश्यते । पश्चात्तद्रूपता नास्ति दैवरक्तः स किंशुकः ॥ पूर्वमेवास्य नाशत्कारणादेव तत्तथा । नाशकेन परं कार्यं किमस्येति निरूप्यताम् ? ॥ एतदालम्बनविनाशेऽपि समानम् । तथा हि
यथा स जातस्तेनास्य रूपेण न विनाशनम् । यथा न जातस्तेनापि न रूपेण विनाशनम् ॥ व्यर्थकत्वादशक्यत्वात् प्रमाणेनाप्रत । अर्थस्यास्य " कथं नु स्यात्कल्पनापि सचेतसाम् ॥
[ १३४
१२
"अथ आलम्बनाभावं ज्ञापयति बाधकः; तदप्यसत्यदा स दृश्यते भावस्तदाऽभावो न बोध्यते ।
93
"यदा न दृश्यते भावो [5] दर्शनं तस्य बोधकम् ॥ " तदा भावप्रसिद्धौ च नाभावः " सविशेषणः ।
१ बाधकेन । २ बाध्यप्रत्ययस्य तदालम्बनस्य वा । ३ न जातखर-आ०, ब०, प० । ४ बाध्यम् । ५ स्वकारणात् । ६ अन्यरूपम् । ७ सर्वधा भ० ब० । सर्वथा प० । ८ पश्चात्तद्रूपनास्तित्वे दै-आ०, ब०, प०, प्र०बार्तिकाल० । ९ उत्पादकहेतोरेव । १० तेनाश्यरूपेण आ०, ब०, ११ कथं तु स्यात् ब० । कथन्न स्यात् प्र० वार्तिकाल० । १२ अथनालम्ब -आ०, ब०, प० । १३ यथा न आ०, ब०, प० । १४ तदभावप्रप० । भावादर्शनकाले । १५ यस्य अर्थस्य अभावः क्रियते तेन विशेषणीभूतेन भर्थेन भवितव्यम्, तदभावे च कथमभावः सविशेषणः ।