________________
१२३४ ]
प्रथमः प्रत्यक्ष प्रस्तावः
"
अस्मदादीनां दृष्टमतीतम् द्रक्ष्यमाणमनागतमिति चेत्; तत्तर्हि कथं योगिदर्शनापेक्षयापि वर्त्तमानं भवेत् उपरतत्वादनुत्पन्नत्वाच्च । अस्मदादिदर्शनस्यैव तद्विषयस्योपरमानुत्पत्ती न वस्तुन इति चेत् ; तस्य तर्हि स्यादक्षणिकत्वं पूर्वापरकालव्यापित्वात् । तन्न अस्मदाद्यपेक्षया भावानामतीतादित्वात्तथात्वेनोपदेशः । तेषामुपदेशोऽपि वर्त्तमानतयैव तथैव स्वयं परिज्ञानादिति चेत्; न तर्हि तदुपदेशादुपायोपेयभावपरिज्ञानम्, वर्तमानतयोपदिष्टानां तद्भावाभावात् । ५ नहि वर्त्तमाना एव भावाः केचित्केषाञ्चिदुपायत्वमुपेयत्वं वा प्रतिपद्यन्ते " प्राग्भावः सर्वहेतूनाम्” [ प्र० वा० २।२४६ ] इत्यस्य व्याघातात् । अतो व्यर्थमेव तदन्वेषणम्, सोपाययोपादेयतॆत्त्वपरिज्ञानस्य तदन्वेषणादिष्टत्वात्, तस्य च ततोऽसम्भवात् । ततो न सुभाषितमेतत्
"
"ज्ञानवान् 'मृग्यते कश्चित्तदुक्तप्रतिपत्तये ।" [ प्र० वा० १।३२ ] इति । तस्मादतीतादितया प्रतिपन्नत्वादेव भादानां योगिना तथोपदेश इत्यङ्गीकर्त्तव्यम्, अन्यथा १० योगिन एवाभावापत्तेः - यद्यसौ वर्तमानतयैव सर्वं पश्यति स्वसन्तानभाविनः पूर्वोत्तर समयभाविनिरवशेषक्षणानपि तथैव पश्यतीति नासौ कस्यचित्कार्यं पूर्वाभावात् नापि कस्यचित्कारणमुत्तराभावादित्यन्नेव खरविषाणवत् । ततस्तद्भावमनभ्युपगच्छता यथास्वकालभाविन एव तान् स पश्यतीति वक्तव्यम् । तथा च " तैरेव व्यभिचारादयुक्तमेतत् - 'अतीतादिकमपि वर्त्तमानं प्रत्यक्षविषयत्वात् प्रसिद्धवर्त्तमानवत्' इति । तस्मात्तत्तत्कालभावितयैव अतीतादेरस्म- १५ दादिप्रत्यक्षव्यक्त्यापि प्रतिपत्तिः, न तस्याः कालव्यत्ययलक्षणो व्यभिचारोऽस्ति । तदेवाह - व्यक्तिरव्यभिचारिणी ।
"
साकारमेव तु विज्ञानं व्यभिचारि द्विचन्द्रादेर्बहिर भावेऽपि तदाकारस्य ज्ञानस्योपलम्भात्। न "तन्मात्रात्तद्वस्तुप्रतिपत्तिर्विशिष्टा देव" बहिर्भावोपनीतात्ततस्तत्परिज्ञानोपगमात् तस्य चाव्यभिचारादिति चेत् ; स्यादेतदेवं यदि बहिर्भावस्य पृथग्दर्शनं भवेत् -' इदं बहिर्भावोपनीत - २० माकारवद्विज्ञानम् इदमन्यथा' इति । न चैवम्, सर्वदा ज्ञानाकारादेव तत्प्रतिपत्तेः, तस्य च सत्यसति चार्थे विशेषाभावात् ।
नन्वेवं निराकारापि व्यक्तिर्व्यभिचारिण्येव द्विचन्द्रादौ बहिरसत्यपि तद्दर्शनात् । निर्बाधात् तद्व्यक्तिरव्यभिचारिण्येव द्विचन्द्रादिव्यक्तिस्तु बाधावतीति चेत्; न; बाधकस्यासम्भवात् । तथा हि
२५९
" बाधकः किं तदुच्छेदी किं वा ग्राह्यस्य हानिकृत् । ग्राह्याभावज्ञापको वा त्रयः पक्षाः परः कुतः १ ॥
यदि बाधको बाध्यप्रत्ययस्याभावं करोति तदालम्बनस्य वा; तदा " तत् जातम्, अजातं वा ?
१ वस्तुनः । २ अतीतादीनाम् । ३ कार्यकारणभाव । ४ योग्यन्वेषणम् । ५ - यतत्परि-आ०, प०, ब० । ६ तत्त्वपरिज्ञानस्य । ७ योगितः । ततो न संभ-आ०, ब०, प० । ८ दृश्यते आ०, ब०, प० । ९ योग्यभावम् । १० अतीतादिभिरेव । ११ तदाकारज्ञानमात्रोपलम्भात् । १२ - त्तिर्विशेषादेव आ०, ब०, प० । १३ व तद्विचन्द्रा - आ०, ब० ।-व तद्धि चन्द्रा - प० । १४ बाध्यम् ।
२५