________________
न्यायविनिश्चयविवरणे
[ १९३४
२५८
५
तत्रापि किमिदं वर्त्तमानत्वमेव नाम ? प्रत्यक्षविषयत्वमेवेति चेत्; न; साध्यस्यैव हेतुत्वायोगात्, तद्विषयत्वमेव हेतुस्तदेव साध्यमिति कथमिव न्यायवेदिनः प्रतिपद्येरन् ? 'अनित्यम् अनित्यत्वात्' इत्यादिवत् साध्यत्वानुपपत्तेश्च सिद्धत्वात् । सिद्धं हि तद्विषयत्वमतीतादेः । न च सिद्धमेव साध्यम्; असिद्धस्य तत्त्वेन प्रसिद्धत्वात् । वर्त्तमानत्वं वर्त्तमानव्यवहारविषयत्वम्, तदेवातीतादौ प्रत्यक्षविषयत्वेनोपपद्यते, न हि विपयत्वादन्यत् तद्व्यवहारनिबन्धनं तस्यैव तन्निबन्धनत्वेन प्रसिद्धेऽपि वर्त्तमाने प्रतिपत्तेरिति चेत्; किमेवं नीले पीतव्यवहारविषयत्वन्न प्रकल्प्यते ? प्रसिद्धे पीते तद्विषयस्यैव तद्व्यवहारनिबन्धनत्वेन प्रसिद्धेः, तस्य च नीलेsपि भावात् । एवं लोको न क्षमते तस्य तथा प्रकल्पनाभावादिति चेत्; न; अन्यत्रापि तुल्यत्वात् - लोकस्यातीतादावपि वर्त्तमानव्यवहारकल्पनस्याभावात् । वर्त्तमानकालसम्बन्धित्वं १० वर्त्तमानत्वमिति चेत्; न; कालस्य तत्र प्रमाण (णा ) भावोपन्यासेन स्वयं प्रतिक्षेपात् । अप्रतिक्षेपेऽपि यथा कस्यचित्प्रत्यक्षविषयस्य वर्त्तमानकालसम्बन्धाद् वर्तमानत्वम् एवम् अतीतादिकालसम्ब न्धादतीतादित्वमपि भवेदिति कथं सर्वस्य प्रत्यक्षविषयस्य वर्त्तमानत्वोपपादनमुपपद्येत ?
यदि चायं निर्बन्धः प्रत्यक्षवेद्यं वर्त्तमानमेव नातीतादिकमिति; तर्हि प्रत्यासन्नमेव न दूरादिकमित्यपि भवेत् । शक्यं हि वक्तुम् 'पर्वतादयोऽपि दूरादितयाभिमताः प्रत्यासन्नाः ११ प्रत्यक्षवेद्यत्वात् वापीकूपादिवत्' इति । प्रत्यक्षबाधनान्नैवमिति, प्रत्यक्षेणैव पर्वतादौ दूरादित्वस्य प्रतिपत्तेरिति चेत्; न; अन्यत्रापि समानत्वात्, अतीतादावपि वर्त्तमान कल्पने 'प्रत्यक्षबाधनस्याविशेषात्, अतीतादेरतीतादितयैव प्रत्यक्षेण प्रतिपत्तेः । अतीतादौ प्रत्यक्षमेव न वर्तते तत्काले तस्याभावात्, परप्रसिद्धेन तु तस्य विषयत्वेन वर्त्तमानत्वापादनमिति चेत् ; दूरे पर्वतादावपि न तत्प्रवर्त्तते तद्देशेऽपि तस्याभावात्, अतदेशेऽपि तत्प्रवृत्तौ अतत्कालेऽपि स्यात् । २० अवश्यं चैतदेवमभ्युपगन्तव्यम्, कथमन्यथा योगिप्रत्यक्षस्यातीतादौ प्रवृत्तिः ? वर्तमानमात्रविपयत्वे तस्याशेषज्ञत्वविरोधात् । तदपेक्षया सर्वं वर्त्तमानमेवेति चेत् कथमेवमतीतादित्वेन भावानामुपदेशो वर्त्तमानतयैव तदुपपत्तेः वर्त्तमानतया प्रतिपन्नस्यातीतादित्वेनोपदेशे तस्य वचकत्वेन प्रामाण्याभावानुषङ्गात् । अस्मदाद्यपेक्षयाऽतीतादित्वमप्यस्त्येव तेषामिति चेत्; अस्मदादेरेव तर्हि तथा तदुपदेशो युक्तो न योगिनः, तदपेक्षया "तेषु " तदभावात् ।
" किं वेदम्-अस्मदाद्यपेक्षयापि तेषामतीतादित्वम् ? अदर्शनविषयत्वमेव । "तस्मादतीतादि पश्यतीति कोऽर्थः ? अन्येनादृश्यमानं पश्यति” [ प्र० वार्तिकाल० १।१३८] इत्यलङ्कारवचनादिति चेत्; न; तात्कालिकस्यापि व्यवहितविप्रकृष्टादेरन्येनादर्शनसम्भवात् । अदृश्यमानं कथमस्ति उपलम्भलक्षणत्वात्सत्ताया इति चेत् ? किमिदानीं यावदेव दृश्यमस्मदादेस्तावदेवास्ति ? तथा चेत् ; योगिनापि तावदेव दृश्यमिति न योगीतरयोः कश्चिद्विशेषः स्यात् ।
२५
१ - मामत्वं नाम आ०, ब०, प० । २ विषयत्वस्यैव । ३ व्यवहारनिबन्धनत्वेन । ४ " न प्रमाणेकेनापि गतिः कालस्य विद्यते ।" - प्र० वार्तिकाल० ११३८ । ५ प्रत्यक्षवेद्यम् । ६ अतीतकाले । ७ योग्य पेक्षया । ८ –दिमत्त्वेन आ०, ब०, प० । ९ योगिनः । १० अर्थेषु । ११ अतीतादित्वाभावात् । १२ किञ्चैदनम् प० ।