________________
२५७
१॥३४]
प्रथमः प्रत्यक्षप्रस्ताव चेत् ; कार्यकाले कार्यस्य विद्यमानत्वाद् व्यर्थं सामर्थ्यम् । एवं हि कार्यस्य कालो यदि तदा कार्यस्य सत्त्वम् । तस्मात् प्रागेव सत्त्वं सर्वहेतूनाम् । अतोऽर्थोऽपि हेतुर्न फलभूतस्वग्राहकविज्ञानसमानकालभावी । तदुक्तम्
"असतः प्रागसामर्थ्यात्पश्चाच्चानुपयोगतः।
प्राग्भावः सर्वहेतूनां नातोऽर्थः स्वधिया सह ॥" [प्र०वा०२।२४६] इति । ५
भवतु तर्हि प्राग्भाविन एव विषयत्वं तस्य हेतुत्वेन ज्ञाने प्रतिबन्धादिति चेत् ; न; ज्ञानकाले तस्याभावात् । न ह्यसतस्तत्काले तद्विषयत्वम् , एवं हि निर्विषयत्वमेव ज्ञानस्य स्यात् । साकारवादिनां तु नायं दोपः, स्वाकारज्ञानहेतुतयैव तस्य तद्विषयत्वोपपत्तेः । तदप्युक्तम्
"भिन्न कालं कथं ग्राह्यमिति चेद्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥” [प्र०वा०२।२४७] इति ; १० तत्राह
अतीतस्यानभिव्यक्ती कथमात्मसमर्पणम् ॥३३॥
असतोऽज्ञानहेतुत्वे व्यक्तिरव्यभिचारिणी । इति
यदि ज्ञानकाले अतीतस्य तद्धेतोरभावात् अनभिव्यक्तिः अप्रतिपत्तिः तहिं तस्यामभ्युपगम्यमानायां कथमात्मसमर्पणं संवेदने स्वाकारोपनिधानम् ? 'अतीतस्य' इति १५ सम्बन्धः । कदैतदिति चेत् ? असतो ज्ञानकाले अविद्यमानस्यातीतस्य अज्ञान हेतुत्वे ज्ञानहेतुत्वाभावे तद्धेतोरेव हि तत्रात्मसमर्पणं परस्याभिप्रेतम् "हेतुत्वमेव युक्तिज्ञाः” इत्यादिवचनात् । असतश्च ज्ञानकाले यदि तद्धेतुत्वं तद्वद्यत्वमपि स्यात्, निर्विषयत्वमेवं संवेदनस्य स्यात् । 'असत्तस्य वेद्यम्' इति 'सन्न वेद्यम्' इत्यादिति चेत् ; निर्हेतुकत्वमप्येवं स्यात् 'असत्तस्य हेतुः' इत्यत्रापि 'सन्न हेतुः' इत्यर्थात् । स्वकाले सत एव हेतुत्वान्न निर्हेतुकत्व-२० मिति चेत्; निर्विषयत्वमपि न भवेत, स्वकाले सत एव तस्य तद्वद्यत्वात् । अन्यकोलस्यापि वेद्यत्वे तदविशेषात् चिरातीतमपि वेद्यं भवेदिति न तत्र प्रमाणान्तरकल्पनं फलवत् , प्रत्यक्षत एव सिद्धेरिति चेत् ; न; हेतुत्वेऽप्येवं प्रसङ्गात् । अन्यकालत्वाविशेषेण चिरातीतस्यापि हेतुत्वे स्वात्मसमर्पणे च प्रत्यक्षसिद्धेः प्रमाणान्तरवैफलस्य चाविशेषात् । शक्तस्यैव हेतुत्वम् , न च चिरातीतस्य शक्तत्वम् अनन्तरस्यैव संवेदनोपजनने सामर्थ्यात् , ततो नायं प्रसङ्ग इति चेत् ; न; २५ |सङ्गान्तरस्याप्येवमनुपपत्तेः । शक्यस्यैव हि वेद्यत्वम्, न चिरातीतस्य शक्यत्वम् , अल्पकालातीतस्यैव तद्वित्तं ( तद्वित्तिं ) प्रति शक्यत्वात् । तदेवाह-व्यक्तिरव्यभिचारिणी। व्यक्तिः अतीतस्य प्रतिपत्तिर्न व्यभिचारशीला अनन्तरवञ्चिरप्रवृत्तेष्वप्रवृत्तेः ।
यत्पुनरेतत्--अतीतादेरपि प्रत्यक्षविषयत्वे वर्तमानत्वमेव अभिमतवर्तमानवदिति;
१ कार्यात प्राक्काले । तदाकारस्य-आ०, ब०, १०।२ प्रबन्धा-भा०, ब०, ५०। ३ कथञ्चि. दात्मसमर्पणं संवेदनस्वा-मा०, ब०, ५०। ४ तदसत्तस्य आ०, ब०, ५०। ५-कालेस्यापि मा०, १०, प०।६-लत्वादवि-आ०, ब०, ५० । ७ प्रसादकालान्तरस्याप्येव-भा०, ब०, ५०, स० ।