________________
न्यायविनिश्चयविवरणे
[११३२
"चित्रार्थज्ञानवच्चित्रं वस्तुरूपं न किं बहिः।" [ ] इति । ____ विचारासहत्वान्न बहिः स्थूलरूपं परमार्थः इति चेत् ; न; अन्तरपि तदसहत्वस्य वक्ष्यमाणत्वात्। मा भूदुभयत्रापि तदिति चेत् ; असतः कथं तस्यावभासनम् ? मरीचिकातोयवदिति चेत् ; न; स्वतोऽवभासने तदसत्त्वविरोधात् , स्वसंवेदनस्य मिथ्यात्वानभ्युपगमात् । अन्यतोऽपि न निराकारात् तदवभासनम् ; साकारवादवैफल्यापत्तेः । आकारवत्त्वे तु तदप्यसदेव भवेत् असदाकारत्वात् । तस्याप्यन्यतस्तथाविधादवभासनमिति चेत् ; न; अनवस्थानात् । मा भूदवभासनमपि तस्येति चेत् ; न; दृष्टत्वात् । दृष्टं हि तस्यावभासनम् , तदपह्नवे नीलादौ निरंशे कः समाश्वासो यत्र दर्शनगन्धोऽपि नास्ति ? भवतु सर्वाभावः तस्यापि कैश्चित्प्रतीक्षणादिति चेत् ; ननु इदमत्यद्भुतमवभाति यत् 'सर्व नास्ति, तत्प्रतीक्षणं च विद्यते' इति । तदप्युक्तम्
"चित्रमेकमनिच्छद्भिश्चित्रं शून्यं प्रतीक्ष्यते" [ ] इति । तन्न स्थूलाकारस्य प्रतिक्षेपो न्याय्यः ।
नाप्यसत एव तस्य प्रतिभासनम् । न च मरीचिकातोयमत्र निदर्शनम् । तस्याप्यसतः साकारवादे प्रतिभासायोगात् , पूर्वोक्तन्यायात् । ततः स्थूलाकारमेवे दर्शनम् , तस्य च साधार
णाकारतया विकल्पत्वमवासनाप्रभवत्वेऽपि समानम् । न समानम् अननुसन्धायित्वात् , अनु१५ सन्धायित्वं हि विकल्पकत्वम् , तदभावात्साधारणाकारमपि दर्शनं निर्विकल्पकमेवेति चेत् ; न;
वासनाप्रभवत्वेऽपि समानत्वात् । तत्प्रभवस्यापि स्थूलप्रतिभासस्याननुसन्धायित्वाविशेषात् । तथापि तस्य न वासना कारणमिति चेत् ; विकल्पस्यापि न स्यात् । ततो निर्विकल्पाद्विकल्पस्येव निराकारादेवार्थाद् आकारवतोऽपि ज्ञानस्योत्पत्तिसम्भवात् न तदाकारादर्थस्य तादृशस्यानुमानमुपपन्नम् । एतदेवाह-प्रमाणान्तरतोऽगतेः। प्रत्यक्षादन्यत्प्रमाणं तदन्तरम् अनुमानं तस्माद् अगतेरप्रतिपत्तेः 'अर्थरूपस्य' इति । तथा च निषिद्धमेतत्-"नह्याभ्यामथं परिच्छिद्य प्रवर्त्तमानः" [ ] इति, प्रत्यक्षानुमानयोरन्यतरस्याप्यर्थस्याप्रतिवेदनात् । ततः स्थितम्
सामान्यमन्यथासिद्धं न हि ज्ञानार्थयोस्तथा ॥
अदृष्टेरर्थरूपस्य प्रमाणान्तरतोऽगतेः । इति । ___स्यान्मतम्-निराकारत्वे ज्ञानस्य कस्तस्य विषयः स्यात् ? समकालो नीलादिरिति चेत् ; न; तत्र प्रतिबन्धाभावात् । अँप्रतिबन्धस्यापि तद्विषयत्वे सर्वस्य सर्वदर्शित्वप्राप्तः । हेतुन्वेन प्रतिबद्ध एव सोऽपीति चेत् ; न तर्हि तत्समकालत्वम् । न हि हेतोः फलेन समकालत्वम् । तत्त्वे हि प्रागसत्त्वम् , असतश्वासामर्थ्य प्राक् । पश्चात्कार्यकाले सामर्थ्य मिति
परमार्थमिति भा०, ब०, ५०।२-भासमाने आ०, ब०,१०।३ तत्प्रत्यक्षं वि-आ०, ब०, ५०। ४-व निदर्श-मा०, ब०, ५०। ५ तत्प्रतिभासस्यापि । वासनाप्रभवस्यापि । ६ -रादेवासाधारणाकारवतोऽपि मा०,०, प० । ७ प्रतिबन्धरहितस्यापि । ८ तुलना-प्र. वार्तिकाळ० २।२४७ ।