________________
HTHHHHHHHHHHE
१।३२] प्रथमः प्रत्यक्षप्रस्तावः
२५५ __ भवत्वन्यत एव तत्प्रतिपत्तिरिति चेत् ; तदपि यदि प्रत्यक्षम् ; स एव दोषः-सारूप्यानपेक्षे ततस्तत्परिज्ञाने सारूप्यकल्पनावैफल्यस्य, तदपेक्षे ततस्तत्प्रतिवेदने परस्पराश्रयस्य चाविशेषात् । पुनरपि प्रत्यक्षान्तरात्तत्प्रतिपत्तिकल्पनायामनवस्थानात् । ततो नान्यतोऽपि प्रत्यक्षादर्थवेदनं सम्भवति । तदेवाह-'प्रमाणान्तरतोऽगतेः' इति । प्रत्यक्षादन्यत्प्रत्यक्षं प्रमाणं तदन्तरं तस्माद् अगतेरप्रतिपत्तेः 'अर्थरूपस्य' इति ।
अनुमानात्तत्प्रतिपत्तिरिति चेत् ; न; लिङ्गाभावात् । नीलाद्याकार एव लिङ्गं तस्यार्थकृतत्वादिति चेत् ; अत्र विश्वरूपस्य प्रत्यवस्थानम्-"क्क तन्निबन्धनं ज्ञानस्याकारवत्त्वं दृष्टं येनैवमुच्यते ? आकारद्वयदर्शनाभावात् । न हि ज्ञानाकारादन्योऽर्थाकार उपलभ्यते यतस्तत्कृतत्वं ज्ञानाकारस्योपलभ्यते । उपलम्भे वा तस्यापि प्रतिभासमानखात् ज्ञानाकारतैवेति तन्निबन्धनमन्य एवार्थाकार उपलब्धव्यः । तत्राप्येवंकल्पनायामनवस्थैव । १० ततोऽर्थस्य वाङ्मात्रेण सत्ताभ्युगमो न प्रमाणनिबन्धनः" [ ] इति; तदयुक्तम् ; अन्वयबलात् तदनुमानानभ्युपगमात्। न हि बौद्धस्य संवेदनाकाराद्विषयाकारानुमानम् अन्वयबलात् येनैवंप्रसङ्गः स्यात् , अपि तु व्यतिरेकसामर्थ्यादेव । तथा च तस्य वचनम्-"चक्षुरालोकमनस्कारेषु सत्स्वपि न भवति स्तम्भशून्याभिमते स्तम्भाकारमक्षविज्ञानम् , अन्यत्रझटिति एव भवति ततो ज्ञायते-अन्येन केनचिदत्र वस्तुना भवितव्यम् , यदभावादन्य. १५ त्राभावः स तथाभृतोऽथः प्रमेयो बाह्यः" [प्र०वार्तिकाल० ३।३९०] इति । व्यतिरेकबलादपि गमनमनुमानमिति प्रसिद्धमेव । नैयायिकस्यापि अन्त:करणादेस्तत एंव प्रतिपत्तेः । ___ भवतु तर्हि व्यतिरेकवलादेव ज्ञानाकारस्य लिङ्गत्वमिति चेत् ; न; असिद्धत्वात् । असिद्धो हि तदाकारो निराकारस्यैव ज्ञानस्यानुभवात् , तत्कथं तस्य व्यतिरेकः ? सिद्धस्यैव क्वचित्तदुपपत्तेः । सिद्धेऽपि तदाकारे ततोऽर्थस्य नान्यादृशस्यानुमानम् ; सारूप्याभावप्रसङ्गात् । 'अन्या. २० दृशश्वार्थः, तत्सरूपञ्च संवेदनम्' इति व्याघातात् । अथ यादृशं संवेदनं नीलरूपं तादृशस्यैव ततोऽनुमानम् ; कुत एतत् ? तादृशादेव तादृशस्य सम्भवादिति चेत् ; न; अन्यादृशादपि तादृशस्य सम्भवदर्शनात् यथा निर्विकल्पाद्विकल्पस्य । तत्रापि विकल्पवासनासहायादेव विकल्पत्वमिति चेत् ; आकारवत्त्वमप्याकारवासनासाहाय्यादेव किन्न स्यात् यतस्ततोऽर्थस्य तादृशस्यानुमानम् ? वासनाप्रभवत्वे विकल्प एव दर्शनं भवेदिति चेत् ; किमिदं विकल्पत्वं नाम ?, २५ साधारणाकारत्वमिति चेत् ; अवासनाप्रभवत्वे तत् किं नास्ति ? तथा चेत् ; मनोऽपि कथमसदाकारं तदाकारज्ञानं जनयेत् ? तदाकारमेव मन इति चेत् ; तवेदनं तर्हि सविकल्पक प्राप्तम् , नानावयवसाधारणस्य स्थूलरूपस्य तेन प्रतिवेदनात् । भवत्विति चेत् ; न; द्विदेव वहिरर्थवेदनस्यापि सविकल्पकत्वोपपत्तेः । अन्तरिव बहिरपि स्थूलरूपस्य परमार्थसत्त्वाऽविरोधात् । तदुक्तम्
१-वस्था स्थात् आ० ब०,०।२व्यतिरेकबलादेव । ३ सम्भवति दर्शनात् आ०,ब०,१०। ४ विकल्पेऽपि । ५ विकल्पमेव लता। ६ विकल्पकत्वं ता०। ७-वत्येतत्किं भा०, ब०, ५०। ८ तद्वदेव बहिरर्थवदेव बहि-आ०, ब० ।