________________
२५४ न्यायविनिश्चयविवरणे
[१३२ येन हि प्रकारेण सामान्यं दुष्यति 'व्यक्तिभ्यो व्यतिरेकेण-व्यतिरेके हि 'तासां तत्' इति व्यपदेशो न स्यात् , असम्बन्धात् । न चानुपकारे सम्बन्धोऽपि अतिप्रसङ्गात् । व्यक्तिभिस्तदभिव्यक्तिरुपकार इति चेत् ; अभिव्यक्तिरपि नियताभिरेव कुतः ? कुतश्चित्प्रत्या
सत्तेरिति 'चेत् ; तया ताः समानप्रत्ययमेव कुर्वन्तु किं सामान्येन ? सत्यपि तस्मिन् तत्कल्प५ नस्यावश्यम्भावात् । एवं हि पारम्पर्यपरिश्रमः परिहृतो भवति, अन्यथा नियमेन तस्योपनिपा
तात्-प्रत्यासत्तेरभिव्यक्तिः सामान्यस्य ततश्च समानप्रत्यय इति । नित्यत्वेन च-नित्यत्वे हि हत्य नित्योपलम्भनं तैच्छक्तेर्नित्यत्वात् । न तस्याः कुतश्चित्प्रतिबन्धो नित्यत्वहानेः । अतच्छक्तिकत्वे तु न कदाचिदपि दर्शनं व्योमारविन्दवत् । न च तस्य कुतश्चिच्छक्त्वाधानम् अनित्य
त्वोपनिपातात । एतेन व्यापित्वमपि चिन्तितम् । व्यापित्वे हि तस्य सर्वत्र प्रतिपत्तिः तच्छक्तौ । १. अतच्छक्तौ तु न क्वचिदपि स्यात् । शक्तिप्रतिबन्धतदाधानयोः पूर्ववदयोगात्' इति । न तथा
स्याद्वादिनां सामान्यं सिद्ध किन्तु अन्यथा अन्येन कथञ्चिदव्यतिरेकादिप्रकारेण । संदृशपर्यायरूपं हि सामान्यं नं व्यक्तिभ्यो व्यतिरिक्तमेव तदव्यतिरेकस्यापि दर्शनान । न च तस्य नित्यत्वमेव; द्रव्यतो नित्यत्वेऽपि पर्यायतो विपर्ययात् । नापि व्यापित्वमेव, एकत्वोपचारतो
व्यापित्वेऽपि वस्तुतः प्रतिव्यक्ति पर्यवसानात् । प्रसिद्धञ्च सामान्यमीदृशं सौगतस्यापि प्रत्यक्ष१५ विपयतया तस्याभ्यनुज्ञानात-"दृष्टेश्व यमलादिपु" [ प्र० वा० २।३८४ ] इति वचनात् ।
ननु एवमर्थज्ञानयोरपि न दुष्यत्येव साम्प्यं दूपणनिबन्धनस्य नित्यत्वादेस्तंत्राप्य. भावादिति चेत् ; अत्राह-'न" हि ज्ञानार्थयोस्तथा' इति । तात्पर्यमत्र-मा भूत्सारूप्ये नित्यत्वादेः सामान्यधर्मस्याभावात् तत्प्रयुक्त उपप्लवो निरंशत्वस्य तु स्वलक्षणेष्ववश्यम्भावात् , "तत्प्रयुक्तस्य तु तस्य नास्त्येव परिहारः, तत एव प्रायशः सामान्यदूषणमित्युक्तम् । तत्र सर्वात्मना सारूप्ये अर्थवत् ज्ञानस्यापि जडत्वादर्थस्यैव जीवनं "न ज्ञानस्येति कस्य सारूप्यम् ? ज्ञानवदर्थस्यापि वा चेतनत्वाज्ज्ञानस्यैवावस्थानं नार्थस्येति केन सारूप्यमिति ? ततो न तथा जैनकल्पितेन प्रकारेण ज्ञानाथेयोः सामान्यं सारूप्यं सिद्धम् ।
अपि च, सारूप्यं नाम द्विष्ठो धर्मः, तदधिकरणप्रतिपत्तावेव शक्यते प्रतिपत्तुं नान्य. तरप्रतिपत्तिमात्रादिति ज्ञानवदर्थोऽपि प्रतिपत्तव्यः । भवत्वेवमिति चेत् ; कुतस्तत्प्रतिपत्तिः ? तत १. एव प्रत्यक्षात् यस्य सारूप्यं परिजिज्ञास्यत इति चेत् ; ततोऽपि यद्यसारूप्योपायमेव तद्ब्रहणं
व्यर्थमेव सारूप्यकल्पनम् । सारूप्योपायमेवेति चेत् ; न; परस्पराश्रयप्रसङ्गात्-'प्रतिपत्तावर्थस्य तत्सारूप्यपरिज्ञानम् , परिज्ञाते च तस्मिंस्तदुपायमर्थप्रतिवेदनम्' इति । तन्न ततोऽर्थदर्शनम् । तदेवाह-'अदृष्टेरर्थरूपस्य' इति । साधनमिदम् , 'न हि' इत्यादि साध्यम् ।
१ चेन्न तयोः स-आ०, ब०, ५०। २ व्यक्तयः। ३ तच्छक्तिनि-आ०, ब०, ५०। ४ - त्यादानभा०, ब०, प० । ५ ननु तथा आ० ब०, ५०। ६ सादृश्यपर्याय-आ०, ब०, प० । न तद्यक्ति-आ०, २०, प०। ८ तस्य द्रव्यत्व-आ०, ब०, प० । ९ तत्राभावा-आ०, ब०,५०।१.न विज्ञा-आ०, ब०, प० ।
निरंशत्वप्रयुक्तस्य । १२ नार्थज्ञानस्येति तस्य आ०, ब०, ५०।१३ तद्विष्टो आ०, ब०, प.।