________________
१।३२ ]
प्रथमः प्रत्यक्ष प्रस्तावः
२५३
दनादिति चेत्; न; तन्निर्भासावेदने कल्यस्य ततोऽपि दुरवगमत्वात् । सत्यपि कचित्तद्रेदने कुतः क्वचित्तद्वैकल्यवेदनम् ? न तावत्तन्निर्भासादेव; तेन तद्वैकल्याधिकरणस्य ज्ञानस्याप्रतिवेदनात् । तदप्रतिवेदने तदाधेयस्य तद्वैकल्यस्य दुरवबोधत्वात् । न च तदधिकरणस्यै तेन प्रतिपत्तिः, "तस्या नानुभवोऽपरः" [ प्र० वा० २।३२७ 7 इत्यर्थं व्याघातात् । नापि तदधिकरणेनैव ज्ञानेन तद्वैकल्यवेदनम् ; तेनापि तन्निर्भासस्यानवबोधात् । न च निषेध्यानगमे तन्निषेधपरिज्ञानम् । न चोभयविषयमेकं संवेदनमस्ति यतस्तद्वैकल्यस्य कचिदवगमः; तत्रापि " तस्याः" इत्यादेरुपद्रवात् ।
कथमेवमेकान्तप्रतिषेधस्य जात्यन्तरे परिज्ञानम् ? जात्यन्तरविपयं हि प्रमाणम् । न च तेन प्रतिषेध्यस्यैकान्तस्य प्रतिपत्तिः, येन च तस्य प्रतिपत्तिर्नयेर्न न तेन तन्निषेधाधिकरणस्य जात्यन्तरस्य प्रतिवेदनम् । न चोभयविपयमन्यत् ; तस्यापि प्रमाणत्वे एकान्तविषयत्वस्य नयत्वे जात्यन्तर- १० विषयत्वस्य चायोगात् । प्रमाणनयभावविकलेन तु [ न ] तत्परिज्ञानम् ; प्रमाणादिपरिकल्पनावैफल्यापत्तेः । न च कुतश्चिन्निषेध्यतन्निषेधाधिकरणपरिज्ञानमन्तरेण तन्निषेधप्रतिपत्तिरुपपत्तिमतीति चेत् ; न; आत्मनस्तदुभयविपयस्य भावात् । आत्मा हि नयपर्यायात्प्रमाणपर्यायमुपधावन्न सर्वथा तच्छक्तिं परित्यजति यतस्तद्विषयपरिज्ञानाभावात्तद्विविक्ततया जात्यन्तरस्य परिज्ञानं न भवेत् । तत्परित्यागे हि " निरन्वयवादादात्मैव न स्यात् । न चैवम् तस्य १५ व्यवस्थापनात् । प्रमाणपर्याय एवं नयशक्तिभावे कथं प्रमाणत्वमेव तस्य न नयत्वमपीति चेत्; न; एकान्तत: प्रमाणत्वानभ्युपगमात् । अत एव 'स्यात्प्रमाणम्, स्यादप्रमाणम्' इत्यादि सप्तभङ्गीप्रवर्तनम् । न चैवं परस्यापि ग्राह्यादितन्निषेधाधिष्ठानविषयं किञ्चित्सम्भव यतस्तद्विवेकपरिज्ञानं क्वचिद्भवेत् । तदिदमप्रतिपन्नविपयमेव परस्य वचनम् - " अविभागोऽ पिं बुद्ध्यात्मा" [ प्र०वा०२ । ३२७ ] इति । ततः सूक्तम्-ग्राह्यादिनिराकरणस्याद्वैत गर्ताव तारसोपानस्य परिपोषणमाकुलम् अवगमरहितत्वात् इति । एतौ अन्तरश्लोकौ ।
"
१२
स्यान्मतम् -'सारूप्येऽपि' इत्यादिना सारूप्य - सामान्ययोः साधारणो " दोषसमन्वयः प्रतिपादितः, ततश्च कथं सारूप्यवत्सामान्यस्यापि वस्तुत्वम् ? मा भूदिति चेत्; न; तस्य 'सामान्यविशेषार्थात्म वेदनम् " इत्यनेन प्रत्यक्षविपयत्वनिवेदनात्, अवस्तुनः प्रत्यक्षविपयत्वानुपपत्तेरिति ; तत्राह
सामान्यमन्यथा सिद्धम् [ न हि ज्ञानार्थयोस्तथा ॥ ३१ ॥ अदृष्टेरर्थरूपस्य प्रमाणान्तरतो गतेः । ] इति ।
१ ग्राह्यादिप्रतिभासावेदने । २ स्वसंवेदनादपि । ३ ग्राह्यादिवेदने । ४ तद्वैकल्यादिकार-आ०, ब०, प० । ५ ज्ञानस्य । ६ - स्या व्या-ब० । ७ एकान्तस्य । ८ -न तन्नि आ०, ब०, प० । ९ हि नेय प-आ०, ब० । हि नेयं प-प० । १० – णनयप-आ०, ब०, प० । ११ क्षणिकत्वप्रसङ्गात् । १२ प्रमात्वा-आ०, ब० । १३ ग्रात्यादिविवेकपरिज्ञानम् । १४ दोषमन्वयः आ०, ब०, प० । १५ न्यायवि० श्लो० ३ ।
२०
२५