________________
२५२
न्यायविनिश्चयविवरणे
[ ११३१
दहेतुत्वात् गर्त्तः तस्यावतारसोपानमवतरणमार्गः " नान्योऽनुभाव्यः" इत्यादिस्तस्य पोषणं समर्थनं तदाकुलं न भवति । कुतः ? ऊनं यतः । अवनमवगमनम् ऊः अवतेरवगमनार्थत्वात् कपि त्वरज्वल (ज्वरत्वर ) [ पाळ्या०६।४।२० ] इत्यादिना सोचो वकारस्य ऊजा (ऊडा ) देशे सत्येवंरूपात् उवा अवगत्या ऊनं हीनम् अवगमरहितं यस्मादित्यर्थः ।
तथा हि-ग्राह्यादिनिषेधः कुतोऽवगन्तव्यः “यतो नान्यः" इत्यादि शोभेत ? प्रायाद्यपरिज्ञानादिति चेत्; न; अपरिज्ञानान् कस्यचिदप्रतिपत्तेः, अतिप्रसङ्गात् । तदपरिज्ञानमेत्र तन्निषेधापेक्षया परिज्ञानम् । न चेदं व्याहतम् ; विषयभेदात, परिज्ञानस्यैवापरिज्ञानत्ववत् अपरिज्ञानस्यापि परिज्ञानत्वोपपत्तेः । प्रसिद्धं हि रूपपरिज्ञानस्यापि रसादावपरिज्ञानत्वमिति चेत्; उच्यते - यदि तत्परिज्ञानान्निषेधस्यान्यत्वम् - "नान्योऽनुभाव्यो बुद्ध्या" इति व्याह१० न्येत, तन्निषेधस्य तत्परिज्ञानादन्यस्यैव तेनानुभवात् । अनन्य एव ततस्तन्निषेधो ग्राह्यादिपर्यु - दासस्य तत्परिज्ञानरूपत्वादिति चेत्; अप्रतिपन्ने ग्राह्यादौ कथं तस्यै तत्पर्युदासरूपत्वमपि शक्य - मवगन्तुम् ? अप्रतिपन्ने कलशादौ भूतलादेस्तत्पर्युदासरूपतया प्रतिपत्तेरप्रतिवेदनात् । एकान्तापरिज्ञाने जात्यन्तरस्य कथं तत्पर्युदासरूपत्वमवगम्यत इति चेन् ? क एवमाह - नैकान्तपरिज्ञानमिति ? सम्यगेकान्तस्य नैगमादिना नयविभागेन मिथ्यैकान्तस्य " च परपरिकल्पनया प्रति१५ वेदनात् । ग्राह्यादेरपि कल्पनयैव वेदनमिति चेत्; न; तत्पर्युदासरूपादेव ज्ञानात्तत्कल्पनानुपपत्तेः, ततस्तत्पर्युदासस्यैव प्रतिवेदनात् । अन्यतस्तत्कल्पनायामद्वैतव्यापत्तिः ।
अपि च, अन्यस्यापि तत्कल्पकत्वं तन्निर्भासित्वमेव । तच्चानुपपन्नम् "अविभागोऽपि बुद्ध्यात्मा" [ प्र० वा० २।३५४ ] इत्यस्य व्याघातात् । सत्यम् न " तस्यापि वस्तुतस्तन्निर्भासित्वम्, अन्यत एव तत्र तत्कल्पनादिति चेत्; न; तस्यातन्निर्भासत्वे ततस्तत्र २० तत्कल्पनानुपपत्तेः । न ह्यरूपनिर्भासमेव ज्ञानमन्यत्र तन्निर्भासित्वं कल्पयितुमलम् । भवतु तस्य तन्निर्भासित्वमिति चेत्; न; अविभागबुद्धिप्रतिघातस्योकत्वात् । तत्रापि तदन्यतस्तत्कल्पनायाम् अनवस्थापत्तेः । तन्न कुतश्चिदपि ग्राह्यादिप्रतिवेदनम् । तत्कथमेतत्
"ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ।” [ प्र० वा० २। ३५४ ] इति ।
१४ तल्लक्षणस्य स्वतः परतश्चासम्भवात् । "विचारावरुद्धं विशीर्यत एव तल्लक्षणम्, २५ अकृत्वा तु " तदवरोधं तदभ्युपगम्यत इति चेत्; न; विचारस्यैव परामर्शभेदाधिष्ठानस्य वस्तुवृत्तेनाभावात् । अवस्तुभूतात्तु तत्त्वतो न ततः क्वचित्तदभावप्रतिवेदनम् ।
" स्वसंवेदनादेव तत्प्रतिवेदनं सर्वज्ञानानां ग्राह्यादिभेदनिर्भासविकलतया स्वतः प्रतिवे
१ " ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च" - पा०सू० । २ अच्सहितस्य वकारस्य 'अव' इत्यस्य । ३ प्रायादिनिषेधपरिज्ञानात् । ४ ग्राह्यादिनिषेधस्य । ५ ग्राह्यादिनिषेधपरिज्ञान । ६ ग्राह्यादिनिषेधस्य । ७ प्राह्यादिपर्युदास । ८ अनेकान्तस्य । ९ एकान्तपर्युदास । १० - हानेकान्त-आ०, ब०, प० । ११ – स्य कल्प-आ०, ब० । १२ ग्राह्यादिकल्पकत्वम् । १३ अन्यज्ञानस्य । १४ ग्राह्यादिभेदवानित्र प्रतिभासस्य । १५ विचारा गूढं वि-आ०, ब०, प० । १६ विचारविषयत्वम् । १७ संवे-आ०, ब०, प० ।