________________
प्रथमः प्रत्यक्षप्रस्ताव विचारो हि विकल्पात्मा तदभावे कथं भवेत् ? । यतस्तद्भीरता जातितत्त्वस्येयं प्रकल्पते ॥६८४॥ अङ्गीकारात्तदस्तित्वं पूर्वमेव निवारितम् । से एव नास्ति तस्माच तद्धीतिरिति दुर्घटम् ॥६८५॥ नित्यादिरूपं तत्प्राप्तं सामान्यं निरुपद्रवम् । क्षणभङ्गिजगद्वादवैतथ्यावेदनक्षमम् ॥६८६॥ तस्माद्विचारसद्भावे विकल्पो निरुपद्रवः ।
स च सामान्यनिर्भासस्तन्निषेधस्ततः कथम् ? ॥६८७।।
तस्माद्वस्तुसन्नेव समानप्रत्ययः । न च तस्य नीरूपादन्यापोहादुत्पत्तिरिति दुरतिक्रमोऽयं दोपापातः सौगतम्य । शाप्रकारेण तु तदभ्यज्ञामात्रेण इदमभिहितम्-'असमानामपोहवत्' १० इति । ततः स्थितम्-यथा समानपरिणामविकलानामेवान्यापोहस्ततश्च नियत एव समानप्रत्ययः तथा साम्प्यविकलन्यैव संवेदनस्यातदर्थनिवृत्तिः, अतश्च नियतमेवार्थवेदनमिति ।
ननु यावदतदर्थव्यावृत्त्या नियतार्थत्वं ज्ञानस्य तावदतदाकारल्यावृत्त्यैव कस्मान्न भवति ? अतदाकारव्यावृत्तिर्नाम तदाकारत्वमेव, तच्च न कचिदप्युपलभ्यते, तत्कथं तेन नियतार्थत्वं ग्यपुष्पेणे णे)वेति चेत् ; न; अन्यत्रापि तुल्यत्वात् । अतदर्थव्यावर्त्तनमपि तदाभिमु. १५ ख्यमेव तेनापि कथं नियतार्थत्वं वस्यैवादर्शनात् । अप्राप्तदर्शनमपि अर्थप्रतिपत्त्यन्यथानुपपत्त्या परिकल्प्यत इति चेत् ; न; प्रतिकर्मनियमान्यथानुपपत्त्या तदाकारत्वस्यापि परिकल्पनात् । 'कुतस्तस्यापि नियमः नियमविकलात् प्रतिकर्मनियमायोगात् ?' इत्यपि न युक्तः प्रश्नः; तदाभिमुख्येऽप्येवं प्रश्नापत्तेः । शक्तितस्तु (शक्तिस्तु) न तत्रैव पक्षपातमुवहति । ततो यद्याकारवतो नार्थवेदनं तदन्यतोऽपि न भवेत् । तुल्यदोपतत्परिहारत्वात् इति उत्साद एव बहिरर्थस्य । स २० चाभिप्रेत एवाद्वैतवादिनः । न हि संवेदनस्यान्यत् वेद्यम् उक्ताहोपात् । तत एव न तत् अन्यस्य वेद्यमिति स्वप्रकाशमेव तदवशिष्येत । तदुक्तम्
"नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः।
तत्रापि तुल्यचोद्यत्वात्स्वयं सैव प्रकाशते ॥" [प्रश्वा० २।३२५] इति चेत् ; अत्राह--
२५ अत्राक्षेपसमाधीनामभेदे नूनमाकुलम् ॥३०॥
खचित्तमात्रगर्तावतारसोपानपोषणम् । इति ।
अत्र अनयोः निराकारेतरज्ञानयोः आक्षेपसमाधीनां चोद्यपरिहाराणाम् उक्तप्रकारेण अभेदे विशेपाभावे सति । नु इति वितर्के । यत्वचित्तमात्रं संविदद्वैतं स एव गर्तवत् दुःखापा
१ प्रकल्प्यते प० । २ विचार एव । ३ दोषोपनिपातः आ०.०प०। ४ -नुज्ञानमात्रेण मा०, ब०, १०। ५ संवेदनम् ।