________________
२५० न्यायविनिश्चयविवरणे
[१।३० तदपि न किञ्चित् ; 'तदाकारस्य नीरूपत्वे सतोऽपि तदन्यापोहवत्समानप्रत्ययायोगात्। वस्तुरूपत्वे तु स एव वस्तुभूतः समानाकार इत्यसङ्गतमेतत्-"जातिरन्या वृथा न किम्' इति । ततो न कुतश्चिदपि नीरूपत्वात् समानप्रत्ययः ।
भवत्वेवम् ; तस्यैवाभावात् । विशेषान्तरव्यापिरूपत्वे हि समानत्वम् । न च प्रत्ययस्य ५ रूपं तैदन्तरव्यापि, तन्मात्रपर्यवसायिन एव तस्य प्रतिभासनात् । ततः स्वलक्षणमेव तत् , न सामान्यम् । तथा च परस्य वचनम्-“स च बुद्ध्याकारः स्खलक्षणमेव न तत्सामान्यं बुद्ध्यन्तरस्य तदानीमभावात् अर्थगतत्वाभावाच्च" [प्र०वार्तिकाल०४।१२] इति । ततो न समानप्रत्ययाभावो दोषायेति चेत् ; न ;
"प्रत्ययो यदि नामायं क्वचिदेव प्रवर्त्तते । नियमो हेतुमात्रे स्यात् सामान्ये तु गतिः कथम् ?॥"[प्र०वार्तिकाल०४।१२]
इत्यस्य विरोधात् । अनेर्ने सामान्यप्रत्ययमभ्युपगम्य तन्नियामकत्वेन सामान्यादन्यस्य अन्यापोहस्य प्रतिपादनात् । असत एव तस्याभ्युपगम इति चेत् ; न; प्रयोजनाभावात् । व्यवहारः प्रयोजनमिति चेत् ; न; तस्याप्यसतस्ततोऽसम्भवात् अप्रतिवेदनाच्च । कुतो हि व्यवहारस्य
प्रतिवेदनम् ? दर्शनादिति चेत् ; न; ततः स्खलक्षणस्यैव प्रतिवेदनात् । न च तस्यैव व्यवहार१५ त्वम् ; निरंशक्षणक्षीणत्वात् , व्यवहारस्य च पूर्वापरभावाधिष्ठानप्रवृत्त्यादिरूपतया तद्विपरीतत्वात् ,
तत्र च दर्शनस्याप्रवृत्तेः । विकल्पादिति चेत् ; न; समानप्रत्ययापलापे तस्यैवासम्भवात् तस्य तद्रूपत्वात् । अङ्गीकारादस्त्येव तत्प्रत्यय इति चेत् ; न; तदर्थापरिज्ञानात् । दर्शनमङ्गीकार इति चेत् ; न; तत्र समानाकारस्याप्रतिभासनात् । प्रतिभासनेऽपि स्खलक्षणवदसत्त्वानुपपत्तेः । विकल्प इति चेत् ; न; समानप्रत्ययाभावे तदभावस्योक्तत्वात् । अङ्गीकारादस्त्येव तत्प्रयय इति चेत् ; न; 'तदर्थापरिज्ञानात्' इत्याद्यनुबन्धादनवस्थापत्तेः । न दर्शनमङ्गीकारो नापि विकल्पः किन्तु तदभिनिवेशमात्रमिति चेत् ; न; तस्यापि चिद्रूपत्वे दर्शनविकल्पान्यतरकोटिव्यतिक्रमानुपपत्तेः। अचिद्रूपत्वे तु न ततस्तत्प्रत्ययप्रतिपत्तिः, ज्ञानकल्पनावैफल्यदोषात् । इति न विकल्पाव्यवहारप्रतिवेदनम् । नापि व्यवहारान्तरात् ; अनवस्थानात् । ततो न कुतश्चिदपि तत्परिज्ञानम् । अतः प्रतिषिद्धमेतत्"व्यवहारमात्रमविचारिततत्त्वयापि जात्या सम्पाद्यते?" [प्र०वार्तिकाल० ४।१२]इति;
अपरिज्ञातस्य "तया सम्पादनमिति दुरवबोधत्वात् ।। अपि च, किमिदमविचारिततत्त्वया" इति ? विचारभीरुस्वभावया” इति चेत् ; ननु
-----
---
आरोपिताकारस्य । २ समामप्रत्ययस्यैवाभावात् । ३ विशेषान्तरव्यापि । ४ खमात्र । ५-कारस्वभा०, ब०,०।६ श्लोकेन । ७ -न्यस्यापोहस्य भा०, ब०, ५०।८-वृत्तिवि-आ०, ब०, प.: ९ तद्रूपस्वाजी-भा०, ब०,१०।१० व्यवहारस्य । ११ जात्या । १२ च तत्व इति आ०, ब०, प० । १३ -भीरु स्वभाव इति भा०,०,५०।