________________
२४९
१॥३०]
प्रथमः प्रत्यक्षप्रस्तावः मेवार्थ पश्यतीति तदर्थदृग् अवधारणगर्भत्वात्समासस्य। कुत एतत्? अतदर्थपरावृत्तं यत इति । नीलादेरादन्यः पीतादिरतदर्थः तस्मात्परावृत्तं तद्हणपराङ्मुखत्वात् , तत्कथं तेन तदर्शनम् ? न हि तत्परावृत्तमेव तदर्शनं भवति । ननु अतद्रूपत्वे तत्परावृत्तत्वमेव कथमिति प्रश्नविषयः, तत्कथं तस्यैवोत्तरत्वम् ? प्रश्नविषयस्यैवोत्तरत्वे न कचित्साधनसाफल्यम् , विवादविषयादेव तत्सिद्धेरिति चेत् ; न; शक्तिगतस्य तत्परावृत्तत्वस्य हेतुत्वात् , अधिगमगतस्य च साध्यत्वात् । । तंदयमर्थः-शक्तिनियमात् संवेदनस्याधिगमनियम इति । एतदेवोत्तरार्थं विवृण्वन्नाह
अथेदमसरूपं किमतदर्थनिवृत्तितः ॥२९॥
तदर्थवेदनं न स्यादसमानामपोहवत् । इति ।
अथेति प्रश्ने । इदं स्वसंवेदनवेद्यं ज्ञानम् । कीदृशम् ? असरूपम् अविषयाकारम् । अनेन तत्सारूप्यसाधने प्रत्यक्षबाधनमुक्तम् । तदर्थवेदनं तस्य नीलादेरर्थस्य वेदन तत्परिच्छेदि १० किन्न स्यात् ? स्यादेव। कुत एतत्? अतदर्थनिवृत्तितः । व्याख्यातमेतत् । सैव कथमसरूपस्येति चेत् ? खण्डादीनामिवेति ब्रूमः । तदाह-'असमानामपोहवत्' इति । यथा कर्काद्यपोहः खण्डादीनामसरूपाणामेव तथा तद्वदनस्यापीत्यर्थः । तन्निवृत्तेर्नीरूपत्वात्कथं ततो व्योमकुसुमादिव नियतमर्थवेदनमिति चेत् ? न ; सर्वथा तन्नीरूपत्वस्यासिद्धत्वात् , कथञ्चिद्भावतादात्म्येनैव तत्प्रतिपत्तेः।
___ "नात्यन्तमन्यत्वमनन्यता च विधेर्निषेधस्य च शून्यदोषात् "[बृहत्स्व० श्लो० ४२] इति वचनाच्च । परस्य तु भवत्येवाय पर्यनुयोगः किं तेषु तदपोहस्य फलमिति ? समानप्रत्यय इति चेत् ; न; नीरूपात्तदयोगात् । प्रसिद्धञ्च तस्य तन्नीरूपत्वं "रूपं तस्य न किश्चन" [प्र०वा० २।३०] इति वचनात् । 'वासनाप्रबोधादेव तत्प्रत्ययः, तत्र केवलं तदपोहस्य सहकारिभाव एव' इत्यपि वासनामात्रविलसितमेव; कारणस्यैव सहकारित्वोपपत्तेः । न च नीरूपस्य कार- २० णत्वम् ; वस्तुत्वानुषङ्गात् , तस्य तल्लक्षणत्वात, अन्यथा स्वलक्षणस्यापि तदभावोपनिपातान्न किञ्चिद्भवेत् ।
यत्पुनरेतत्-"समानप्रत्ययः समानतामन्तरेण सर्वस्य विलक्षणत्वात्कथमुदयी ?" [प्र०वार्तिकाल० ४।१२] इति पूर्वपक्षयित्वा प्रतिपादितम्-"तदन्यव्यावृत्तिमात्रादेव नियामकाक्वचिदेव तदुदयः” [ ] इति ; तत्प्रतिविहितम् ; तन्मात्रस्य नीरूपत्वेन २५ व्योमकुसुमवत्तत्प्रत्ययनियामकत्वायोगात् ।
यदप्यन्यदुक्तम्
"आरोपितो य आकारो वासनाबीजबोधतः । तावन्मात्रेण पर्याप्तं जातिरन्या वृथा न किम्॥" [प्र०वार्तिकाल०४।१२] इति;
१ तदयमर्थशक्ति । २ प्रत्यक्षावाध-आ०, ब०, प० । ३ खण्डादिषु । ४ कर्काद्यपोहस्य । ५ वस्तुनः । ६ कारणलक्षणत्वात् । ७ "अथवा तदन्यव्यावृत्तिमात्रमेवास्तु सामान्यमिति न क्षतिः ।"-प्र. वार्तिकाल. भार।