________________
२४८
न्यायविनिश्चयविवरणे
[१२२
दूषणं चेतनत्वेपि पुरस्तादभिधास्यते ।
तदलं त्वरितत्वेन प्रस्तुते दीयतां मतिः ॥६८३॥ ततो न सारूप्यवादे बहिरर्थवेदनम् , इत्यसरूपमेव ज्ञानमभ्यनुज्ञातव्यम् ।
कथं पुनरतद्रूपेण तद्वेदनमिति चेत् ? कथमसामान्यस्वभावैः खण्डादिभिः समानप्रत्यय५ जननम् ? स्वहेतुनियतात् कुतश्चित्प्रत्यासत्तिविशेषादिति चेत् ; अनुकूलमाचरसि, निराकारादपि वेदनात्तत एव विषयाधिगमोपपत्तेः । सकलविषयाधिगमः कस्मान्न भवतीत्यपि न युक्तम् ; खण्डादीनामेवं सकलसमानप्रत्ययहेतुत्वापत्तेर्व्यवहारसाङ्कोपिनिपातात् । प्रतिनियतसमानप्रत्यय. हेतुरेव तत्रै तद्विशेषो न सर्वतत्प्रत्ययनिबन्धनमित्यपि समानमन्यत्र, निराकारेऽपि वेदने प्रतिनि
यतार्थाधिगमनिबन्धनस्यैव तद्विशेषस्य भावात् । सारूप्यमेव तत्र तद्विशेष इति चेत् ; खण्डा१० दिष्वपि सामान्यमेव तद्विशेषः कस्मान्न भवति तदभावेऽप्येकप्रयोजनजननस्योपलम्भात् ? उप
लभ्यन्ते हि चक्षुरालोकादयस्तदेकसामान्यानधिष्ठिता अपि रूपज्ञानमेकमुपजनयन्तो ज्वरो. पशमनादिकं वा गुडूच्यादयः , तथा खण्डादयोऽपि तादृशा एव समानप्रत्ययमेकमुपजनय. न्तीति कि तत्र सामान्यकल्पनयेति चेत् ? न; जाड्यवनीलादेरपि निराकारादेव वेदनादधिगम
प्रसङ्गात् पूर्वोपादेयत्ववद्वा । न हि नीलस्य पूर्वक्षणोपादेयत्वमसंवेद्यमेव नीलस्यापि तत्त्वापत्तेः, १५ निरंशवादे भागशस्तद्वेदनविरोधात् । न च "तदाकारत्वं "तवेदनस्य; "तस्यापि "तदुपादेय.
त्वप्रसङ्गात् । न चेदमुचितम् ; चेतनस्याचेतनोपादेयत्वानभ्युपगमात् , अचेतनमेव तदपि प्राप्तम् , तथा च कथं ततस्तद्वेदनम् ? अन्यतस्तद्वेदनमिति चेत् ; न ; तस्यापि तदाकारत्वे पूर्ववत्प्रसगात , पुनरन्यतस्तद्वेदनपरिकल्पनायामनवस्थापत्तेः न किञ्चिदर्थवेदनमिति सुव्यवस्थितः सारू
प्यवादः तद्विषयाभावात् । ततो दूरमनुसृत्यापि निराकारमेव तद्वदनमभ्युपगन्तव्यं नियतविष२० यन्च, तद्वन्नीलवेदनमपीति नार्थः सारूप्येण यतः स एव तत्र "तद्विशेषः स्यात् ।
कस्तर्हि तद्विशेष इति चेत् ? अतदर्थपरावृत्तत्वमेव । तदेवाह
अतदर्थपरावृत्तमतद्रूपं तदर्थदृक् । इति । अतद्रूपम् अनीलादिरूपम् अपिशब्दो द्रष्टव्यः, तादृशमपि वेदनं तन्नीलादिक
-नत्वे तु पु-प० । २ नत्वे पु-मा०,ब.। . इत्यसद्रूप-मा०, ब०, प० । ३ खण्डादौ । ४ प्रत्यासत्तिविशेषः । ५ भावनात् बा., ब०,५०। “यथेन्द्रियालोकमनस्कारा आत्मेन्द्रियमनस्कारा रूपविज्ञानमेक जनयन्ति आत्मेन्द्रियममोर्थतत्सन्निकर्षाद्वा असत्यपि तद्भावनियते सामान्ये । शिशपादयो भिन्नाश्च परस्परानन्वयेऽपि प्रकृत्या एकाकारं प्रत्यभिज्ञानं अनयन्ति अन्यां वा दहनगृहादिका काष्ठसाध्यामर्थक्रियां यथाप्रत्ययम् । नतु भेदाविशेषेऽपि जलादयः। श्रोत्रादिवद् रूपादिविज्ञाने ।..."यथा वा गुडूची व्यक्त्यादीनां सह प्रत्येक वा ज्वरादिशमनादिलक्षणानाम् एककार्य कियावत् । न तत्र सामान्यमपेक्ष्यते । भेदेऽपि तत्प्रकृतित्वात् । न तदविशेषेऽपि दधित्रपुसादयः ।" -प्र. वा. स्व. ३१७५, ७६ । ७ एकसामान्यानधिष्ठिता एव । ८ असंवेद्यत्वापत्रोः । ९ भागतस्तद्वे-भा०, .., प.। १. पूर्वक्षणोपादेयत्वाकारत्वम् । ११ नीलवेदनस्य । १२ नीलवेदनस्य । १३ पूर्वनीलक्षणोपादेयत्व । १४ नीलवेदनात् । १५ नीलस्य ज्ञानम् । १६ प्रत्यासत्तिविशेषः ।