________________
१।२८]
प्रथमः प्रत्यक्षप्रस्तावा
२४७
जडत्वान्नीलमन्यच्चेजडं नीलं कथं भवेत् ? । सम्बन्धाच्चेजडत्वेन सोऽपि कः परिकल्प्यताम् ? ॥६६९।। न तादात्म्यं विभिन्नत्वात्तदुत्पत्तेस्तु सम्भवे । जडत्वान्नीलमुत्पन्नं जडमेव पुनर्भवेत् ॥६७०।। प्रागुक्तस्तत्र दोषश्च तज्ज्ञाने जडतेत्ययम् । पुनस्तद्भेदक्लृप्तौ स्यादनवस्थानदूषणम् ॥६७१।। जडत्वेतरनिर्मुक्तं नीलं चेदुपकल्प्यते । स्कन्धान्तरं तदापन्नं तच्च नानभ्युपागमात् ॥६७२॥ तन्निर्मुक्तेरपि ज्ञानं तदाकारतयोद्भवत् । तैन्निर्मुक्तं भवेन्नीलप्रभवोत्तरनीलवत् ॥६७३॥ 'नीलादिवा( दिव) कथं तस्मान्नीलस्याधिगमस्तदा । चेतनस्यैव धर्मोऽयं यतो लोके प्रसिद्धिमान् ॥६७४।। तस्मादधिगमोऽन्यस्मात्तादृशादेव वेदनात् । इत्यवस्थानवैधुर्यादर्थवृत्तिः क्षयं गता ॥६७५।। तन्न जाड्यात्पृथङ्नीलकल्पनेयं फलावहा । तथापि नीलसंवित्तेरुक्तं नीत्याऽनवापनात् ॥६७६।। अतदाकारया वित्त्या जाड्यस्य यदि वेदनम् । नीलस्यापि तयैवेति व्यर्थमाकारकल्पनम् ॥६७७।। अविज्ञाते तु जाड्यस्य कथं तत्र प्रवर्तनम् ? । नीलमात्रावबोधाच्चेत्कथं नातिप्रसज्यते ॥६७८॥ सम्बन्धो जाड्य एवेति यदि तत्रैवं वर्त्तनम् । कथं तस्मिन्नविज्ञाते सम्बन्धोऽप्यवगम्यताम् ॥६७९।। साधनज्ञानतोऽप्येवं साध्ये वर्तनसम्भवात् । अनुमानप्रमाणस्य कैमर्थ्यक्येन पोषणम् ॥६८०॥ 'अप्रवृत्ति[:]कुतो जाड्ये? "स्नानादेः प्रापणं कथम्? । नीलमात्रप्रवृत्त्या चेजाड्यमन्यद्वृथा भवेत् ॥६८१॥ तथा च नीलमेव स्याद्विना जाड्येन चेतनम् । चैतन्येतरनिर्मुक्तस्तत्र पूर्व "निपेधनात् ॥६८२॥
-तेरसंभवात् प० ।-रोस्तुरसंभवेत् आ०, ब.। २ तयोद्भवेत् मा०, ब०,५०1३ जडत्वेतर. निर्मुक्तम्। ४ नीलादेवाकथं मा०, ब०, प०। ५ जडत्वेतरनिर्मुक्तज्ञानात् । ६-करीत्यानवा-मा०,०, प० । जाड्ये एव । ८ जाड्थे । ९ प्रवृत्तौ दोषापादनात् जाड्ये अप्रवृत्तिरेवास्तु इत्युक्ते प्राह । अप्रवृत्तिकृतोजाये ता०, अ०, ब०।१० यतः । ११ निवेदनात् आ०, ब०, प.