________________
२४६
न्यायविनिश्चयविवरणे
[૨૨૮
निराकारज्ञानमेव नास्ति अप्रतिवेदनात् तत्कथं तच्छक्तितस्तन्नियम इति चेत् ? न; तस्यैव 'नीलमहं वेद्मि' इत्यनुभवात् । एवमपि कथं तस्य बहिर्विषयत्वमिति चेत् ? कस्यायं प्रश्न: प्रयोजकस्य, प्रकारस्य, ज्ञापकस्य वा ? प्रयोजकस्तु 'प्रतिपादित एव । प्रकारः शक्ति
लक्षणः । ज्ञापकश्च स्वसंवेदनरूपः, स्वत एव तत्र बहिर्विषयत्वस्यानुभवात् । तदेव कीदृशमिति ५ चेत् ? नीलमपि कीदृशम् ? यादृशमनुभवेन द्रश्यते तादृशमेवेति चेत् ; न; प्रस्तुतेऽपि
समानत्वात-बहिर्विषयत्वमपि ज्ञानस्य यादृशमनुभवोपारूढं तादृशमेव तदिति । ततो निराकत्वमेतत्-"नीलादिसुखादिकमन्तरेणापरस्य ज्ञानाकारस्यानुपलक्षणात्" [ ] इति; अपरस्यैद स्वपरपरिच्छेदरूपस्य तदाकारस्य दर्शितत्वात् । साक्षात्करणञ्च तस्यैव धर्मो
नार्थस्य । कथमेवमर्थः साक्षात्कृत इति व्यपदेश इति चेत् ? न; साक्षात्करणविषयत्वादेव १० तदुपपत्तेः । स्वयं तस्य तद्धर्मत्वे तु 'साक्षात्कर्ता सः' इति स्यान्न 'साक्षात्कृतः' इति । न
हि भवति छेदनधर्मैव खड्गः छिन्न इति, 'छेत्ता' इति तत्र व्यपदेशदर्शनात् । तत इदमपि शब्दन्यायापरिज्ञानादेव परस्य वचनम्-"अथ संवेदनस्यैव' इत्यादिकिं' ( दिकम् । ) ततो यदि निराकारत्वे सर्वविषयत्वं संवेदनस्य आकारवत्त्वेऽपि भवेत् , शक्तरनियामकत्वे तदाकारनि
यमस्याप्यसम्भवात् । इति सूक्तम्-'प्रतिबिम्बोदये समम् ।' इति । १५ पुनरपि साकारवादं दूषयन्नाह
सारूप्येऽपि समन्वेति प्रायः सामान्यदूषणम् ॥२८॥ इति ।
सारूप्येऽपि न केवलं सामान्ये समन्वेति सङ्गतं भवति । किम् ? सामा. न्यस्य दूषणं प्रायो बाहुल्येन नित्यत्वादिदूपणस्य तत्राऽभावात् । तथा हि-यथा सामा
म्यस्य कचित् दृश्यत्वे सर्वत्र दृश्यत्वमेवे, दृश्यत्वाद(त्वादृ)श्यत्वे निरवयवत्वविरोधात् , तथा २० संवेदनस्य यदि नीलविषयत्वं तदाकारतया जडविषयत्वमपि तदाकारतयैव, अन्यथा विषयस्या
नुकृतेतरत्वेने विषयिणश्च सरूपेतरत्वेन विरुद्धधर्माध्यासे निरंशत्वविरोधात् , अविरोधे वा सामान्येऽपि तदविरोधादसम्बद्धमेतत्-"जातिः सर्वत्र दृश्येत" [प्र० वा. स्व० ३।१५८] इति । तथा च जडमेव संवेदनमिति कथं ततः कस्यचिदधिगमो ज्ञानकल्पनावैफल्यापत्तेः ?
तदनेन अधिगमनियमस्य सारूप्यसाधने विरुद्धत्वमुक्तम् । २५ अथ नीलं जाड्यादन्यदेव तत्कथं तत्र सारूप्ये जाड्येऽपि तन्नियम इति चेत् ?
उच्यते
१ प्रतिवादिन एव । २ बहिर्विषयत्वमेव । ३ चेन्न नी-आ०, ब०, प०। ४ "तस्मात्सुखादिनीला. दिव्यतिरिक्तमपरमिह जगति संवेदनं नास्तीति"-प्र. वार्तिकाल. ३१५०६ । ५ ज्ञानाकारस्य । ६ तद्धर्म प्रत्येतुं सा-आ०, ब०। ७ पृ. २४१५०६।८ किं भवति सा-आ०, ब०, प०। ९-व सादृश्यत्वाद् दृश्य-आ०, ब०,०।१० कचित् अदृश्यत्वे क्वचिच दृश्यत्वे । ११-वे वि-आ०, ब०,५०।१२ कचिद् दृश्यत्वस्य क्वचिचादृश्यत्वस्याविरोधात् । १३ नीले ।