________________
प्रथमः प्रत्यक्ष प्रस्तावः
२४५
११२८ ]
किञ्चित्संवेदनं क्वचिन्नियमवदुपलब्धं यतस्तस्य तदन्यथानुपपन्नत्वमवसीयेत । " अन्यथानुपपन्नत्वमसिद्धस्य न सिध्यति” [ न्यायवि० श्लो० ११] इति वचनात् । एतदेवाह - असंविदः असम्प्रतिपत्तेः निरंशस्य प्रत्यक्षस्येति । तन्न व्यवसायादन्यत्र सारूप्यकल्पनमुपपन्नम् । नापि व्यवसाये तस्य निराकारस्यैवानुभवात् । न तावता सर्वस्य विषयत्वम्; तस्य तथानुभवाभावात् । तर्हि न किञ्चिदपि तस्य प्रत्यक्षमाकारस्येति चेत्; अत्राह - 'अप्रत्यक्षम् ' ५ इत्यादि । अविकारिणः आकारविकारविकलस्य व्यवसायस्य यत् स्वम् आत्मीयं संवेद्यं नीलादि तत् अप्रत्यक्षमित्ययुक्तम् अत्र 'अनुभवबाधनात्' इति भावगतो हेतुः प्रतिपत्तव्यः ।
यदि च, निराकारत्वे ज्ञानस्य प्रत्यासत्तिनियमाभावात्सर्ववेदनत्वम् ; तत एव सर्वाकारत्वमपि भवेत् । सर्वस्य तत्कारणत्वाभावान्नेति चेत्; न; तत्रापि समानत्वात् प्रश्नस्य- १० 'सर्वमपि किन्न तस्य कारणम्' इति ? अतोऽत्रापि तदेव सर्वविषयत्वम् । एतदेव कारिकाशेषेण दर्शयति- प्रतिबिम्बोदये आकारवत्त्वे ज्ञानस्य समं सदृशं सर्वैकवेदनम् ।
स्यान्मतम् - न वस्त्वित्येव सर्वं सर्वस्य कारणं शक्तिप्रतिनियमात् । प्रतिनियतशक्तयो हि भावाः प्रतिनियतमेव कार्यं कुर्वीरन् न सर्वम् । न च कारणमित्येव चक्षुरादिकमपि तत्र स्वाकारसमर्पणक्षमम्, तच्छक्तिविशेषस्य नीलादावेव स्वहेतुबलभाविनो भावात् । ततो न १५ सर्वाकारत्वेन सर्वविषयत्वम् । नापि चक्षुदादिविषयत्वमिति; तन्न; शक्तित एव नियतविषयत्वोपपत्तेः आकारवादवैयर्थ्यापत्तिः । कल्पयताऽपि ह्याकारं शक्तिरभ्युपगन्तव्या, तदभावे तस्यैव नियतस्यासम्भवात् । तथा च तदवस्थ एव अर्थः स्वशक्तितो वेदनस्य विषयनियममवकल्पयतीति व्यर्थमर्थाकारकल्पनं संवेदनस्य । युक्तचैतत् अर्थस्यैवमेव सिद्धेः । आकारवादे हि न तस्य सिद्धि: पृथगदर्शनात् । आकारदर्शनमेव तस्यापि दर्शनं सादृश्यादिति चेत्; न; २० पृथगदृष्टे तस्मिन् तत्सादृश्यस्यैव दुरवगमत्वात् । न चानवगतं सादृश्यमुपचारकल्पनायालमिति निवेदितं पूर्वम् । तस्मान्नदमत्र निदर्शनमुपपन्नम् - " यथा पितुः सदृशः पुत्र उत्पत्तिमान् पितूरूपं गृह्णातीति व्यपदिश्यते लोके विनापि ग्रहणव्यापारेण तथा विज्ञानेऽपि व्यपदिश्यते " [ प्र० वार्तिकाल० २।३०५ ] इति; वैषम्यात् । उपपन्नं खल्विदम् - पुत्रः पितूरूपं गृह्णातीति पृथगेव पितापुत्रयोस्तत्सादृश्यस्य चोपलम्भात् । न चैवमत्र, पृथग् अर्थतदाकारयोस्तत्साधर्म्यस्य २५ चाप्रतिवेदनात् । तस्यादर्थशक्तित एव विषयनियमो युक्तः । " वस्तुतस्तु ज्ञानस्यैव " तत्र शक्तिः, अर्थस्य ज्ञानं प्रत्यकारणत्वात् । न च ज्ञानमशक्तमेव; तत्र तदाकारस्याप्यभावप्रसङ्गात् व्योमकुसुमवत् । शक्तस्याप्याकारद्वारेणैव बहिर्विषयत्वमिति चेत्; न; पारम्पर्यदोषात् । भवति ह्येवं पारम्पय्र्यम् -'शक्तित आकारः, ततोऽर्थवेदनम्' इति ।
I
१ निराकारत्वेन २ हृदयगतः । भगवतो आ०, ब०, प० । ३ पत्तेः क ता० । ४ आकारस्यैव । ५ पृथग्द-आ०, ब०, प० । ६ अर्थस्यापि । ७ पृथग्ह-आ०, ब०, प० । ८ अर्थे । ९ पितृरूपम् आ०, ब०, प० । १० वस्तुतस्तज्ज्ञा-आ०, ब०, प० । ११ विषयनियमे ।