________________
२४४
५
न्यायविनिश्वयविवरणे
सहायसन्निधानेऽपि तदसन्निधिवत्स चेत् || ६६८ ॥ कथमर्थविदित्येष सारूप्येऽपि समो नयः ।
तत इदमप्यलङ्कारवचनं प्रत्युक्तम्
[ १२८
“यथा तद्बोधकं वस्तु तथैव तदबोधकम् ।
यदा तोधकं वस्तु केन नेष्टमबोधकम् ॥” [प्र० वार्तिकाल ० २ । ३०२] इति । सारूप्येऽपि समानत्वात् । तन्न तत्सहायत्वमपि तस्य विशेष इति निष्फलं तदपेक्षम् । अतः क्षणक्षयादौ सारूप्यस्यैव विषयनियमनिबन्धनत्वात् कथन्न वैयर्थ्यमनुमानस्य ? तदनिच्छता च न तत्र तस्यै तन्निबन्धनत्वमभ्यनुज्ञातव्यम् । तथा च कथं नीलादावपि तस्य तत्त्वमविशेपादिति सूक्तम्- 'अथ नायम्' इत्यादि । तन्न व्यवसाये सारूप्यस्य कल्पन १० प्रत्यक्षविरोधात् । स्वतस्तनिश्चये च तत्प्रयासवैफल्यात् । अनिश्चये च तस्याकिश्चित्करत्वात् ।
भवतु साङ्ख्यस्यैव चैतन्ये तत्कल्पनम्, इदमेवाह - 'अथ' इत्यादिना । कापिलीयः पुरुष: अयं सारूप्यविषय इति परिच्छेदो निश्चयः सौगतस्य यदि इति ; तत्राह - अकि ञ्चित्करेण पुरुषेण किम् ? न किञ्चित् । विषयाधिगमस्य तत्फलत्वात् कथं तस्याकिञ्चित्करत्वमिति चेत् ? न; आकारवादे पृथकृतदधिगमाभावात् । आकारद्वारा तदधिगम इति १५ चेत् ; आकारस्यैव कुतोऽधिगमः ? स्वत इति चेत्; न; कापिलैस्तदनभ्युपगमात् । विषयाfurमादेव स्वाधिगमो व्यवस्थाप्यते तदभावे तदनुपपत्तेरिति चेत्; न; पृथक् तदधिगमाभावस्य उक्तत्वात् । पृथगेव तदधिगमः कापिलैरभ्युपगम्यत इति चेत्; न; तदभ्युपगमस्य प्रमाणत्वे कथमाकारकल्पनम् ? तदभाव एव तदुपपत्तेः । अप्रमाणत्वे तु न पृथक् तदधिगमः, यतः स्वाधिगमसम्पादनम् ? आकारद्वारादेव तदधिगमात्तत्सम्पादनमिति चेत्; न; " तदसम्पादने २० तस्यैवासिद्धेः " तत्सम्पादनात्तत्सिद्धौ च परस्पराश्रयात् । तन्न विषयाधिगमादपि तत्सम्पादनमुपपन्नम् । तत इदं साङ्ख्यसिद्धान्तानभिज्ञतयैव परेणोक्तम्- "" यथैव तर्हि स्वरूपं संवेदनरूपेण पश्यति तथार्थमर्थरूपेण” [प्र० वार्तिकाल० २।३०६ ] इति । ततो विषयाधिगमस्याकारवतस्तच्चैतन्यादभावादुपपन्नम् –'अकिञ्चित्करेण किम्' इति ।
1
नापि निरंशे दर्शने तत्कल्पनमुपपन्नमित्या वेदयति - ' प्रत्यक्षम् ' इत्यादिना । २५ करणस्य इन्द्रियस्य कार्य प्रत्यक्षं साक्षात्कारिज्ञानम् । उपलक्षणमेतत् प्रत्यक्षान्तरस्यापि । तत् अर्थप्रतिबिम्बम् अर्थाकारमिति अयुक्तं युक्तिवर्जितम् । विषयनियम एव संवेदनस्य तत्र युक्तिः तदभावे तदनुपपत्तेरिति चेत्; न; निरंशस्यै एतस्यैवाननुभवात् । न हि निरंशं
१ - धानोऽपि - आ०, ब०, प० । २ समारोपव्यवच्छेदासन्निधानतुल्यं स विशेषः । ३ सदा आ०, ब०, प० । ४ क्षणिकत्वादौ । ५ सारूप्यस्य । ६ विषयनियमनिबन्धनत्वम् । ७ चेत् आकार-आ०, ब०, प० । ८ - तेः प्रमा-आ०, ब० । ९ तदधिगमात्तत्सम्पादने आ०, ब०, प० । विषयाधिगमात् स्वाधिगमसम्पादनम् । १० स्वाधिगमासम्पादने । ११ स्वाधिगमसम्पादनात् । १२ यदैव भा०, ब०, प० । १३ -स्व त भा०, ब०, प० ।