________________
१।२८] प्रथमः प्रत्यक्षप्रस्तावः
२४३ तदभावप्रसङ्गात् । भवतु तत्रापि संवेदनस्य तत एव तैन्नियम इति चेत् ; किमिदानीमनुमानेन ? व्यवसाय इति चेत् ; न ; बहिःसाकारस्यैव ज्ञानस्य व्यवसायत्वात् । अव्यवसायत्वेऽपि किं तद्व्यवसायेन ? प्रवृत्तिरिति चेत् ; न ; तस्या दर्शनादेवोपपत्तेः "तत्प्रधानत्वात्" [प्र.. वा० १।५] इति वचनात् , क्षाणिकत्वादेरप्रवृत्तिविषयत्वाच्च ।
समारोपव्यवच्छेद इति चेत् ; तेनापि किम्? विषयनियम इति चेत् ; न; 'संवेदना- ५ दर्थान्तरात्ततस्तदयोगात् , "तसाद्यतोऽस्यात्मभेदात्” इति वचनव्यापत्तेः । अनर्थान्तरादप्यसारूप्यरूपान्न ततस्तन्नियमः "तसात्प्रमेयाधिगतः साधनं मेयरूपता' [प्र०वा० २।३०६] इत्यस्योपद्रवात् । सारूप्यरूपत्वे तु तस्य संवेदनकारणादेव भावात् विफलमनुमानम् । तन्न विषयनियमः तद्व्यवच्छेदात् ।।
____ संवाद इति चेत् ; ननु सोऽपि संवेदनविषयस्येत्थम्भावव्यवसाय एव, स च घटना- १० देव भवति घटनस्य व्यवसायरूपत्वात् । 'क्षणभङ्गादेरिदं संवेदनं नान्यस्य'इति नियमनं हि घटनम् , तच्च व्यवसायात्मकमेव उल्लेखरूपत्वात् अतद्रूपस्य॑ व्यवसायान्तरस्याप्यभावात् । घटनमपि तब्यवच्छेदादेवेति चेत् ; न; तस्य विषयसारूप्यादेव भावात् । तद्व्यवच्छेदसहायमेव "तदपि तन्निबन्धन" न केवलं समारोपे तदप्रतिवेदनादिति चेत् ; न तर्हि सति तस्मिअवश्यम्भावी तन्नियम इति दुर्भाषितमेवेदम्-"भावादेवाऽस्य तद्भावे" [प्र०वा०१।६] इति । १५ तब्यवछेदाच्च तस्य विशेषे तत एव तन्नियमोन सारूप्यात् । अविशेषे तु न तदपेक्षणम् अविशेषकारिण्यपेक्षाया अनभ्युपगमात् । तत्सहायत्वमेव विशेष इति चेत् ; न;
पृथक् तस्य समर्थत्वे सहायेनेह किं फलम् ? । पृथक् तस्यासमर्थत्वे सहायेनेह किं फलम् ॥ ६६३ ॥ "सामयं तादृशं तस्य सारूप्यस्य मतं यदि । सहायं यदपेक्ष्यैव कुर्वीत घटनक्रियाम् ॥ ६६४ ॥ सहायनियमेनैव स्वहेतुबलभाविना । चैतन्यं नित्यमध्येवं किन्न स्यान्नियतार्थदृक् ॥ ६६५ ॥ सारूप्यमन्तरेणापि तत्रार्थनियमस्थितेः । तत्साधनप्रयासोऽयं धर्मकीर्तेरतो वृथा ॥ ६६६ ॥ "तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः । भाव्यं तेनात्मना येन प्रतिकर्म विभज्यते ॥" [प्र० वा० २।३०२] इति ।
१ क्षणिकत्वादावपि । २ सारूप्यादेव । ३ एव नियम आ०, ब०, प० । विषयप्रतिनियमः । ४ व्यवसायः सारूप्यस्य फलमिति चेत् । ५ "प्रवृत्तेस्तत्प्रधानत्वात्"-प्र० वा०। ६ संवेदनाद् भिन्नात् समारोपव्यवच्छेदात् । ७ समारोपव्यवच्छेदा विषयनियमः । ८ अनुल्लेखात्मकस्य । ९ समारोपव्यवच्छेदादेव । १. विषयसारूप्यम् । ११-नं केवलं आ०, ब०,५०।१२ सारूप्ये। १३ सारूप्यस्य । १४ समारोपव्यवच्छेदापेक्षणम् । १५ सामर्थ्यात्ताह-आ०, ब०, ५०।१६ चैतन्ये ।