________________
२४२
न्यायविनिश्चयविवरणे
[ ११२८ इति चेत् ? न ; तन्नियमस्य प्रत्यक्षत एव सिद्धत्वात् । केवलं ‘स कुतः' इति प्रश्ने तेनियमेन प्रत्यवस्थानं तस्यावश्यम्भावनाभ्युपगम्यत्वात् , अन्यथा सारूप्यासम्भवस्यापि निवेदनात् । ततो यद्यर्थस्य परिच्छेदो व्यवसायोऽभ्युपगम्यते तस्य प्रत्यक्षसिद्धत्वात् , तर्हि तत्रान्यत एव विषयनियमादकिश्चित्करमेव सारूप्यकल्पनमिति किं तेन ? तदाह
प्रत्यक्षोऽर्थपरिच्छेशे यधकिश्चित्करण किम् ॥२७॥ इति । पक्षान्तरमाह___ अथ नायं परिच्छेदो यदि [ अकिञ्चित्करेण किम् । ] इति ।
अथ इति विनर्के । यदि अयम् अनन्तरपरिच्छेदो नीलादिव्यवसायरूपो न न विद्यत इति तत्राह-अकिश्चित्करेण किम् सारूप्यकल्पनेन विषयाभावान् ? न हि निविषयं १० तत्कल्पनमुपपन्नम् ; व्योमकुसुमेऽपि तत्प्रसङ्गात् । साङ्ख्यकल्पितं चैतन्वं तद्विपय इति चेत् ;
न ; तस्यासत्त्वात् । कथमन्यथा “संसर्गादविवेकश्च[श्चत्]" [प्र०वा०२।२७७] इत्यादिना तन्निराकरणम् ? सतस्तदेयोगात् । स्वलक्षणवदभ्युपगमसिद्धस्य तस्य तद्विषयत्वमिति चेत् ; न ; तत्सिद्धस्यापरमार्थत्वात् । अपरमार्थत एव संवेदनं तत्सारूप्यं चेति चेत् ; कुतः कि
सिध्येदित्यन्धमूकं जगद्भवेत् ? स्वप्रसिद्धमेव तर्हि निर्विकल्पकं दर्शनं तद्विषय इति चेत् ; न ; १५ तस्यापि प्रतिक्षेप्स्यमानत्वात् । ततो निर्विषयत्वादुपपन्नमेव तत्परिकल्पनस्याकिञ्चित्करत्वम् ।
भवतु तर्हि व्यवसायस्यैव तद्विषयत्वमिति चेत् ; न; तस्य स्वतः प्रत्यक्षत्वे सारूप्यस्यापि तदात्मनः प्रत्यक्षत्वप्रसङ्गात् । अस्तु को दोष इति चेत् ; न; निर्विवादत्वेन तत्साधनप्रयासवैफल्यापत्तेः । तत्प्रत्यक्षस्याप्यव्यवसायत्वेन विवाद इति चेत् ; कथं पुनर्व्यवसायाव्यव
सायस्वभावः स्यात् विरुद्धधर्माध्यासेन भेदात् ? इत्यस्वसंवेदनमेव व्यवसायस्याभ्युपगमविरुद्धमाप२० तितमिति कुतस्तत्सिद्धिः अन्यतस्तत्सिद्धरनभ्युपगमात् ? स्वसंवेदनादेवान्यत इति चेत् ; 'न तस्य
स्वतः' इत्यादिप्रसङ्गाचक्रकापत्तेरनवस्थानाच्च । ततः सव्यवसायमेव तंत्स्वसंवेदनं तेन च तत्स्वरूपवत सारूप्यस्यापि व्यवसायान्न तत्र विवाद इत्यकिञ्चित्कर एव तत्साधनत्रयासः। तदाहप्रत्यक्षोऽर्थपरिच्छेदो यद्यकिश्चित्करेण तत्प्रयासेन किम् ? न किञ्चिदिति ।
यदि चायं निर्बन्धो व्यवसायस्य स्वसंवेदनमव्यवसायमेवेति ; तदेवाह-'अथ नायं २५ परिच्छेदो यदि' इति । 'अर्थ' इति पूर्ववत् यदि अयम् अनन्तरः परिच्छेदो व्यवसा
यस्य स्वसंवेदनं व्ययसाय एवेति निश्चयो न न विद्यते इति । तत्राह-अकिञ्चित्करेण किम् सारूप्येण न किश्चित्फलमिति यावत् । विषयनियमस्तस्य फलमिति चेत् ; न; अव्यवसितात्ततस्तदयोगात् क्षणिकत्वादिवत् । न हि क्षणिकत्वादौ नास्त्येव सारूप्यं नीलादावपि तदव्यतिरिक्त
१ विषयनियमस्य । २ शक्तिनियमेन । ३ -पि वे-आ०, ब०,५०। ४ प्रत्यक्षान्तरमाह मा०, ब०, ५०। ५ तदप्रयो-भा०, ब०, ५०। ६ सलक्षणवदनभ्युप-आ०, ब०, ५०। ७ व्यवसायप्रत्यक्षस्य । ८-स्याप्यव-आ०, ब०, ५०। ९ तत्संवे-आ०, ब०, ५०।