________________
२४१
१।२७ ]
प्रथमः प्रत्यक्षप्रस्तावः प्रसिध्यति । संवित्तेस्तदाकारता चेत् परित्यज्यते; कथं तस्य संवदेनमिति नियमः ? साक्षात्करणादेव नियमो भविष्यतीति चेत्, किमिदं साक्षात्करणमर्थस्य रूपम् , अथ सवेदनस्य, अथान्यदेव किश्चित् ? ।
अर्थस्य साक्षात्करणं यदि रूपं वदिष्यते । साक्षात्कारि हि विज्ञानं कथमर्थस्य तद्भवेत् १ ॥ अथ संवेदनस्यैव रूपं साक्षाक्रिया मता। साक्षात्कृतः कथं सोऽर्थो न ह्यन्यस्यान्यरूपता ।।
अन्यत्वेऽप्येष दोषस्तु भवेदेवानिवारितः।
तथा हि-यदि साक्षात्करणमर्थस्य स्वभावः 'नीलादिवत्साधारण इति सर्वस्य संविदितः सोऽर्थो भवेत् । साक्षाक्रिया चार्थस्य न युक्ता ज्ञानधर्मत्वात् । अथ ज्ञान. १० धर्मोऽसावर्थविषयः तेनार्थः संविदित उच्यते; अर्थविषय इति को हि विषयार्थः ? अर्थसंवेदनरूपत्वादिति चेत् ; अर्थस्य संवेदनमिति किम्?अर्थरूपत्वात्संवेदनस्येति चेत् ; सैवार्थाकारता संवेदनस्य । अथार्थाजातत्वादर्थसंवेदनम्। तथा सति चक्षुषोऽपि जातत्वात् चक्षुःसंवेदनमिति प्राप्तम् । अर्थ पश्यति न चक्षुरिति चेत् ; अर्थ पश्यतीति कोऽर्थः ? अर्थ पश्यत् दृश्यते तेन पश्यतीत्युच्यते केन पश्यति ? स्वरूपेण । यथैव तर्हि स्वरूपं १५ संवेदनरूपेण पश्यति तथा अर्थमर्थरूपेणेत्यर्थरूपता अर्थस्य साधिका, संवेदनरूपता संवेदनस्येति तदाकारतैव सर्वस्य साधिका । नान्यः स्वभावो भेदकोऽपि ज्ञानस्यार्थेन घटयति ।" [प्र. वार्तिकाल० २।३०४ ] इति । अत्राह
एतेन वित्तिसत्तायाः साम्यात्सर्वैकवेदनम् ॥२६॥
प्रलपन्तः प्रतिक्षिप्ताः प्रतिबिम्बोदये समम् । इति ।
प्रलपन्तो निरुपपत्तिकमभिजल्पन्तस्ताथागताः प्रतिक्षिप्ताः । किं प्रलपन्तः? सर्वैकवेदनं सर्वस्य नीलधवलादेरेकेनैव ज्ञानेनाधिगमम् । कुतः? वित्तिसत्तायाः साम्यात् निराकारज्ञानसद्भावस्य सकलविषयसाधारणत्वादिति । केन तेषां प्रतिक्षेपः ? एतेन कपिलदूषणेनेति । तथा हि किं तदेकज्ञानम् यस्य निराकारत्वे सर्वविषयत्वमापाद्येत ? नीलादिविषयो निर्णय एवेति चेत् ; न ; तस्य निराकारतयैव नियतविषयस्य स्वानुभवप्रत्यक्षेणानुभवात् । निराकारत्वे २५ कुतो विषयनियम इति चेत् ? स्वहेतुप्रयुक्तादेव शक्तिनियमादिति घूमः । कुतस्तस्यावगम इति चेत् ? विषयनियमादेव। ननु "तन्नियमोऽपि शक्तिनियमादेवावगम्य" इति कथन्न परस्पराश्रय
साक्षात्कार-आ०, १०,५०। २ अन्यथान्य-आ०, ५०, ५०। ३ संदिश्य-आ०, ब०, ५०। सदिष्य-प्र. वार्तिकाल । ४ नीलतादि-भा०, ब०,०। ५ कोऽपि वि-मा०, ब०,५०।६ द्वितीयैकवचनम् । -गमात् मा०,०प०। ८-न सति कापिल-आ०,व०प० । ९ शक्तिमियमस्य । १० विषयनियमोऽपि ।-गम्यत इति भा०,०,प.।
"