________________
२४०
न्यायविनिश्चयविवरणे
[१/२६
तथा स्वपरयोरपि इति नार्थस्तदर्शनार्थेन दर्शनकल्पनेनेति । व्याख्यातमनिन्द्रियप्रत्यक्षम् ।
सौगतः प्राह - भवतु स्वसंविदितमेव ज्ञानं तस्य तु कथं बहिर्विषयत्वम् ? न सत्त्वमात्रेण अतिप्रसङ्गात् । सकल विपयसाधारणं हि तत्सत्त्वम् तेन च तस्य बहिर्विषयत्वे सर्व सर्वविषयमेव संवेदनमिति कथं प्रतिकर्मव्यवस्था - 'नीलस्यैवेदं संवेदनं न पीतस्य' इति ?
1
"
स्यान्मतम् - आलोचनाज्ञानेन्द्रियतद्विषयसन्निकर्षादेरेव तद्व्यवस्थेति; तन्न; तस्यापि साधारणत्वात् । असाधारणस्य हि व्यवस्थापकत्वम् । न चासौ तथा नीलाधिगमवत् पीताद्यधिगमेऽपि भावात्, तदधिगमोत्पादकत्वाश्च । न हि तदुत्पादकस्यैव तद्व्यवस्थापकत्वम्; एक क्रियानिमितस्य क्रियान्तरं प्रत्यनङ्गत्वात् । अन्यथा यतः कुतश्चिदखिलक्रियानिष्पत्तेर्न कस्यचिदप्यभिमतक्रियावैकल्यं भवेत् । अर्थेनैव तर्हि संसर्गिणा तद्व्यवस्था, संसृष्टस्यैव नीलादेर्वेदनं नापरस्येति १० चेत् ; न ; तस्याप्यज्ञातस्य व्यवस्थापकत्वेऽतिप्रसङ्गात् । न चाव्यवस्थायां तज्ज्ञानम् । तज्ज्ञाना[ त्] व्यवस्थायां परस्पराश्रयात् । तस्मात्तदात्मभूतस्यैव कस्यचिद्भेदस्य व्यवस्थापकत्वम् । स चार्थाकार एव तत एवाधिगमस्यार्थघटनोपपत्तेः । अन्यस्य तु मान्द्यपाटवादेः सतोऽपि तद्भेदस्य साधारणतया तदनङ्गत्वात् । तथा च वार्त्तिकं तन्निबन्धनञ्च—
"
"तस्माद्यतोऽस्यात्मभेदादस्याधिगतिरित्ययम् ।
१५
क्रियायाः कर्मनियमः सिद्धा सा तत्प्रसाधना ॥ [ प्र० वा० २।३०४ ] यतः स्वरूपभेदादस्य संवेदनस्य अयमस्य नीलस्य पीतस्य वाधिगतिः इति नियमः साधिगतिस्तत्साधनी सिद्धा, तन्मात्रभावादेव नियमस्यास्य भावात् । तथा चोक्तम् - " भावादेवास्य तद्भावे” [प्र०वा० १।६ ] न चेयमर्थघटना सारूप्यादन्यतः संवेदनस्य । यतःअँर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम् ।
'अन्य [:] स्वभावो ज्ञानस्य भेदकोsपि कथञ्चन ॥ तस्मात्प्रमेयाधिगतेः साधनं मेयरूपता ।
२०
साधनेऽन्यत्र तत्कर्मसम्बन्धो न प्रसिद्ध्यति ।। [ प्र० वा० २।३०५,६ ] तदाकारं हि संवेदनमर्थं व्यवस्थापयति नीलमिदं पीतं वेति । यथा आकारयोगित्वं ज्ञानस्य तथोत्तरत्र प्रतिपादयिष्यामः । अन्यत्र तु साधने तेन कर्मणा सम्बन्धो न
१ आलोचनाज्ञानादेरपि । २ संसर्गिणोऽर्थस्य । ३ अर्थाकारादेव । ४ अर्थघटनानङ्गत्वात् । ५-गतिनियमः आ०, ब०, प० । ६ - नात्सिद्धा आ०, ब०, प० । ७ “ एनामधिगतिम् अर्थरूपताम् अर्थसरूपतां मुक्त्वा नान्यः कश्चिदिन्द्रियादिः स्वभेदात् कथञ्चन केनापि प्रकारेण ज्ञानस्य भेदकोऽप्यर्थेन ज्ञेयेन घटयति योजयति ..... तस्मात्प्रमेयाधिगतेः फलभूतायाः व्यवस्थाप्यायाः साधनं प्रमाणं नीलस्येयमधिगतिः पीतस्य चेयमित्यादि । मेयरूपता । अर्थेन सारूप्यं तस्य प्रतिविषयं भिन्नस्य सूपलक्षणत्वात् । सारूप्यात् पुनरन्यत्र साधने तस्याः क्रियायाः कर्मसम्बन्धो नीलस्येयमधिगतिः पीतस्य चेत्यादि न सिध्यति । इन्द्रियाधिगतिविशेषस्य सम्भवेऽप्यनुभवमात्रात्म कज्ञानस्य विशेषकत्वायोगात् । ज्ञानगतस्यापर विशेषस्य लक्षणभेदेनानु ग्लक्षणात् । " - प्र० वा० म० वृ० ३।३०५३०६ । ८ अन्यस्य भावो आ०, ब०, प० । “अन्यः स्वभेदात् " - प्र० वा०म०वृ० । ९ सम्बद्धो आ०, ब०, प० ।