________________
१४२६] प्रथमः प्रत्यक्षप्रस्तावः
२३९ पुरुषवशेन तदनुपपत्तेः । कथं पुनश्चित्तस्य दृश्यत्वे स्वसंविदितत्वम् ? कथं च न स्यात् ? अन्यत्र चक्षुरादौ शब्दादौ वा 'दृश्ये तददर्शनादिति चेत् ; मा भूदन्यत्र तदर्शनं चित्ते तु विद्यत एव । विद्यमानमपि तद्धान्तमेव, पुरुषसन्निधिबलेन भावादिति चेत् ; न; तंदपरिज्ञाने तद्वचनानुपपत्तेः । तत्परिज्ञानमपि यदि पुरुषात् 'ममेदं सन्निहितम्' इति, यदि वा चित्तात् 'ममायं सन्निहितः' इति; तदा तस्यावश्यम्भावि स्वपरविषयत्वमित्यफलमुंभयपरिकल्पनं ५ चित्तत एव सकलसमीहितपरिनिष्पत्तेः। स्वसंवेदने कथं तस्यार्थवेदनम् ? निर्णयरूपं हि वेदनम्, न ोकनिर्णयसमय एव निर्णयान्तरम् ; युगपत्तदप्रतिवेदनात् । तथा च सूत्रम्-"एकसमये चोभयानवधारणम् ।" [ योगसू० ४।२० ] इति । प्रसिद्धचार्थवेदनमेव चित्तस्येति न तस्य स्वतो दृश्यत्वम् । नापि चित्तान्तरात् ; अनवस्थानात् तस्यापि तदन्तरदृश्यत्वात् । अदृश्यत्वमेवेत्यपि न युक्तम् ; तत्प्रचारसंवेदनेन सत्त्वानां प्रवृत्तिदर्शनात्–'क्रुद्धोऽहम्, भीतोऽहम् , अमुत्र १० मे रागः, अमुत्र मे क्रोधः' इति । ततोऽन्यदेव तत्र दर्शनमभ्युपगन्तव्यम् । न चैवं चित्तवत्तत्र दोषः, तस्य स्वतः परतश्चादृश्यत्वात् । विषयोपलम्भमात्रस्यैव तंद्रूपतयोपगमादिति चेत् ; न ; दत्तोत्तरत्वात् ।
अपि च, दर्शनायत्तं तस्य दृश्यत्वमिति कुत इदमवगन्तव्यम् ? "अनन्तरान्यायादिति चेत् ; न ; तेनापि दर्शनदृश्ययोर्व्यवसाये ततोऽपि तदयोगात् । तद्वयवसाययोश्च भेदे कथं ११५ - योगपद्येन भावो दृश्यादन्यदेव दर्शनमिति "एक समये च" इत्यादिसूत्रविरोधात् । एक एव तदुभयव्यवसायी न्याय इति चेत् ; चित्तमप्येकमेव स्वपरव्यवसायि किन्न स्यात् ? यतस्तस्मा. दन्यदेव दर्शनं न भवेत्। अवश्यं "चेदमभ्युपगन्तव्यम् , अन्यथा वनादिव्यवहारोऽपि न भवेत् व्यवसायबहुत्वे तदनुपपत्तेः । न तत्र व्यवसायबहुत्वम् , एकस्यैव धवखदिरादिविषयस्य मेचकस्य व्यवसायस्याभ्यनुज्ञानादिति चेत् ; न ; स्वपरयोरपि तस्यैकस्य प्रसङ्गात् । एकव्यवसा- २० यविषयत्वे कथं तयोर्भेद इति चेत् ? न ; धवखदिरादावपि समानत्वात् । तत्रापि प्रति. विषयं भिन्ना एव व्यवसाया इति चेत् ; कुतस्तेषामवगमः ? अनवगतानामभ्युपगमविरोधात् । कुतश्चिव्यवसायादिति चेत् ; न; 'तत्रापि प्रतिव्यवसायं तद्भेदे 'कुतः' इत्यादिप्रश्नादनिष्ठापत्तेः। न प्रतिविषयं तद्भेदः "तस्मादेकमनेकार्थमवस्थितं च चित्तम्" [योगभा० १।३२] इति भाध्यविरोधाश्च । ततो यथा बहिः कथञ्चिद् विषयभेदाब्यवसायभेदेऽपि विज्ञानमेकमेव २५
१ दृश्येत तद्द-आ०, ब०, ५०।२ चित्तापरिज्ञाने । ३ चित्तस्य । ४ -मुभयकल्प-आ०, ब०, प० । चित्तपुरुषावुभयम् । ५ प्रतिसिद्ध-आ०,०। प्रतिषिद्ध-प० । ६ अदृश्यमेवे-आ०,०प० । ७ तत्प्रचारसत्त्वानां आ०, ब०, प० । चित्तप्रचार। "स्वषुद्धिप्रचारप्रतिसंवेदनात् सत्वानां प्रवृत्तिदृश्यते क्रुद्धोऽहं भीतोऽहम् अमुत्र मे रागः अमुत्र मे क्रोध इति"-योगमा० ४।१९। ८ दर्शनस्य । ९ दर्शनरूपतया । १० चित्तस्य । ११ अन्तरान्न्याय-आ०, ब०, प० । अनन्तरोत्पन्नानुभवात् । १२ अनन्तरानुभवेनापि। १३ दर्शनदृश्यव्यवसाययोः । १४ यतः दृश्यादभिन्नमेव दर्शनमिति । १५ उभयव्यवसायि ज्ञानम् । १६-स्य व्यव-आ०, ब०, ५०। १७ स्व. परयोः। १८ धवखदिरादावपि । १९ कुतश्चेव्य-आ०, ब०, प०। २० व्यवसायविषयकव्यवसायभेदे । २१-दनिष्टापत्तेः ता०।