________________
२३८ न्यायविनिश्चयविवरणे
[१२६ बिम्बवतो विज्ञानात् ; तस्यापि कुतस्तत्कार्यत्वमवगन्तव्यं तत्कार्यात्ततस्तदवगतेरयोगात् । पुरुषादेवेति चेत् ; न ; तत्रापि 'तेनापि' इत्यादेः प्रसङ्गादनवस्थोपनिपाताच्च । स्वत एंव तैयोस्तेने परिज्ञाने व्यर्थ सार्थप्रतिबिम्बस्यापि ज्ञानस्य कल्पनम् विनापि स्वत एव पुरुषस्यार्था
वगमनसद्भावात् । भवत्ये (स्वे)वमिति चेत् ; तर्हि न कैवल्यम् , सर्वदाऽर्थस्य भावेन तदर्शन५ स्यानिवृत्तेः । अंभावे वा पुरुषविकलमेव कैवल्यं भवेत् , तदा दृश्याभावेन "तद्दर्शनस्य कैवल्ये
"तदेकरूपस्य पुरुषस्यासम्भवात् । आत्मदर्शनरूपस्तदा पुरुष इति चेत् ; न ; तद्दर्शनस्यापि 'दृश्यदर्शनादभेदात् , अन्यथा निरंशत्वव्यापत्तेः ।
भवतु तर्हि "तदा तस्य "स्वपरविषयत्वविशेषणरहिता दृशिरेव रूपम्, "द्रष्टा दृशिमात्रः” [योगसू० २।२०] इति वचनादिति चेत् ; कथमिदानी प्रागतद्रूपत्वे तदापि तद्रूपत्वं १. कौटस्थ्यव्यापत्तेः ? प्रागपि तद्रूप एव स इति चेत् ; कथं दृश्यदर्शित्वम् ? इत्ययत्नसिद्धमेव
कैवल्यं भवेत् । सत्यम्, न तदापि तस्य तद्दर्शित्वम्, दृश्यसन्निधानादेव केवलं "तद्व्यपदेशात् , संसारस्य च पत्मार्थतोऽसम्भवादिति चेत् ; कुतः सन्निधिज्ञानम् ? न तावद् दृश्यात् ; अचेतनत्वात् , चिच्छायासक्रमाच्च चेतनत्वस्य प्रतिषिद्धत्वात् । नापि पुरुषात् ; तस्य वस्तुतो
निर्विषयत्वात् । सन्निधेरपि “तदन्तरवशादर्शनकल्पनायाम् अनवस्थानात् । ततो दुर्भाषितमेवेदं १५ विन्ध्यवासिनः-"तस्माञ्चित्तवृत्तिबोधे पुरुषस्यानादिः सम्बन्धो हेतुः" [योगमा० १।४]
इति; तस्यैव सम्बन्धस्यापरिज्ञानात् । न चापरिज्ञातविषया प्रेक्षावतां वचनप्रवृत्तिः । सत्यपि सन्निधाने न तावता तस्य तदर्शित्वम्"; तद्ब्रहणपरिणामे सत्येव तदुपपत्तेः । अन्यथाप्रवृत्तस्यापि तद्दर्शित्वप्रसङ्गात् , सर्वगतत्वेन सर्वदा "तत्सन्निधानभावात् । तपरिणामश्च न तस्याविकारिणः सम्भवतीति न पुरुषस्यापि वस्तु तदुपरक्तं वा चित्तं संवेद्यं सम्भवतीति । तदेवाह
अप्रत्यक्षं स्वसंवेद्यमयुक्तमविकारिणः । इति ।
पुरुषस्य हि दृश्यमप्रत्यक्षमेव प्रत्यक्षेण तत्प्रतिबिम्बवत् , अतः (अन्तः) करणलक्षणे२५नापरिज्ञातेन तत्प्रतिपत्तेरयोगात्, तदपरिज्ञानस्य च निवेदितत्वात् । भवतु स्वतस्तस्य तत्संवेद्यं न प्रत्यक्ष इति “चेत् ; 'स्वसंवेद्यम्' इत्यप्ययुक्तम् त(क)स्य ? अविकारिणः स्वतस्तद्वेदनाभावस्याभिहितत्वात् । ततो यदि "चित्तस्य दृश्यत्वम् स्वसंविदितमेव तदभ्युपगन्तव्यं
..अर्थकार्यत्वम् । २ विज्ञानात् । ३ एवानयो-आ०, ब०, ५०। ४ अर्थतत्प्रतिबिम्बयोः । ५ पुरुषेण । ६ ज्ञानकल्पनां विनापि । ७ अर्थदर्शन । ८ अर्थस्याभावे । ९-भावे सदर्थदर्श-आ०, ब०, प०।१० दृश्यदर्शनस्य । ११ दृश्यदर्शनात्मकस्य । १२ -स्यासद्भावात् मा०, ब०, प० । १३ दृश्यदर्शनाभे-आ०, ब०, प०। १४ कैवल्यकाले । १५ स्वपरविषयत्वमिति विशे-प० ।-यत्वमितिशे-आ०, ब. । १६ दृशिमात्रखरूपम् । १७ दृश्यदर्शित्वव्यपदेशात् । १८ दृश्यसन्निधानान्तर। १९ -चित्रवृत्तिबोधे-आ०,०,५० । २० -नादिसम्बद्धो हे-मा०, ब०,१०।"-नादिसम्बन्धो"-योगमा । २१ पुरुषस्य । तस्य दर्शि-आ०, ब०, प० । २२ दृश्यदर्शित्वम् । २३ -स्यापि दर्शि-आ०, ब०, ५०। २४ दृश्यसन्निधान । २५-परिज्ञानेन आ०, ब०, ५०। २६ दृश्यप्रतिपत्तेरयोगात् । २७ तदज्ञानस्य आ०,०,५०।२८ चेत् संवे-आ०,०,१०।२९ चेत्तस्य प०। चेतस्य मा०, ब०।३.-त्वमख-आ०,०, प.।