________________
१।२५] प्रथमः प्रत्यक्षप्रस्ताव:
२३७ अत्राप्येवमिति चेत् ; आस्तां तावत्। तन्न तत एव तत्कार्यत्वावगमः । प्रत्यक्षादन्यत इति चेत् ; न; तस्याप्यर्थाविषयत्वे ततोऽपि तदसम्भवात् । अर्थविषयत्वञ्च यदि प्रतिबिम्बमन्तरेण; प्रथमप्रत्यक्षेऽपि व्यर्थं तत्कल्पनम् । प्रतिबिम्बेनेति चेत् ; तदर्थकार्यत्वस्यापि न स्वतोऽवगमः पूर्ववत । अन्यतः प्रत्यक्षादिति चेत् ; न; 'तस्याप्यर्थाविषयत्वे' इत्याद्यनुबन्धादव्यवस्थितेः ।
एतदेवाह
प्रत्यक्ष करणस्यार्थप्रतिबिम्बमसंविदः ॥२५॥ इति ।
करणस्य बुद्धिविवर्त्तस्य स्वस्य परस्य वा प्रत्यक्षं स्फुटसंवेद्यम् अर्थप्रतिबिम्बम् अर्थकार्य प्रतिबिम्बम् 'अयुक्तम्' इत्युपरिभागस्थेन सम्बन्धः । कुतः ? इत्याह-असंविदः अचेतनत्वात् । न ह्यचेतनेन कस्यचित्प्रत्यक्षत्वमुपपन्नम् , चेतनकल्पनावैफल्यापत्तेः । चेतनत्वेनाप्युक्तन्यायेनासंविदोऽसम्प्रतिपत्तेः । तन्न प्रत्यक्षात्तत्परिज्ञानम् ।
___नाप्यनुमानात् ; प्रत्यक्षाभावे तदप्रवृत्तेर्लिङ्गाभावाच्च । विषयनियमो लिङ्गमिति चेत् ; न; तस्य 'एतेन' इत्यादिना निराकरणात् । कार्यव्यतिरेकस्तर्हि लिङ्गम्, कार्यस्य प्रतिबिम्बलक्षणस्य सत्यपि कारणान्तरसाकल्ये कदाचिदनुत्पद्यमानत्वादिदमवगम्यते-अस्ति कारणान्तरमप्यस्य यदभावादिदानीमनुत्पत्तिरिति, स चार्थो व्यपदिश्यत इति चेत् ; न; व्यातिरेकस्यासिद्धः, सति पूर्वज्ञानादौ तस्यावश्यम्भावात् । भवतु प्रतिबिम्बसादृश्ये तस्मादेव तस्योत्पत्तिः, १५ तद्वैसादृश्ये तु कथम् ? अतोऽर्थादेव तादृशात्तदुपजननमिति चेत् ; तादृशत्वेऽप्यर्थस्य कथं तदुपजनकत्वम् ? शक्तेरिति चेत् ; सा किमन्यत्र तत्कारणे नास्ति ? तथा चेत् ; कथमेकप्रधानात्मकत्वं जगतः ? शक्त्यभेद एव तदुपपत्तेः, शक्तरेव प्रधानार्थत्वात् ।
शक्तीनां यदि भिन्नत्वं ह्यस्यात् प्रतिकारणम् (?) । भेदान्तरवदेवासामपि कार्यत्वमापतेत् ॥६५९॥ तद्धतुष्वपि शक्तीनामेवं भेदप्रकल्पने । शक्तिभेदप्रबन्धस्यानादितायां कथं भवेत् ॥६६०॥ एकशक्तिनिबद्धत्वं जगद्भेदस्य कल्पितम् ? । यतः प्रधानं तत्त्वं ते लब्धसजीवनं भवेत् ॥६६१॥ तदेकशक्तिसद्भावे प्रतिबिम्बविधायिनाम् ।
असत्यपि क्वचित्कार्य व्यतिरिच्येत तत्कथम् ॥६६२॥ तन्न कार्यव्यतिरेकस्यापि लिङ्गत्वमिति नानुमानादपि तत्परिज्ञानम् ।
भवतु पुरुषादेव तत्परिज्ञानं तस्य साक्षादेवोपलब्धिरूपत्वादिति चेत् ; न ; तेनापि पृथगर्थतत्प्रतिबिम्बयोरपरिज्ञाने तयोर्हेतुफलभावस्य दुरवबोधत्वात् । तत्परिज्ञानच यदि तत्प्रति
. प्रतिबिम्बकल्पनम् । २ न्यायवि० श्लो० १८ । ३ पूर्वज्ञानादेव । " भिन्नत्वं हि स्या-प० । ५ कारणाभे-आ०, ब०, ५०। ६ प्रवादं तत्त्वं भा०, ब०,५०।
20