________________
२३६ न्यायविनिश्चयविवरणे
[श२५ अकरणा न विषयप्रतिपत्तिः क्रियात्वात् छिदिक्रियादिवत् । करणञ्च मुख्यं तत्परिच्छेद एव व्यवसायस्वभावत्वात्, व्यवसायोपलब्धस्यैव विषयस्य उपलब्धत्वोपपत्तेः, नेन्द्रियादिकं विपर्ययात् । नापि तत्प्रतिपत्तौ करणान्तरकल्पनायामनवस्थानं स्वत एव करणत्वात् , अकर.
णस्य हि तदन्यतः प्रतिपत्तिः । करणस्य तु तद्रूपतया परत्र ज्ञानमुपनयतो नितरामात्मनि ५ सदुपनयनं प्रदीपवत्। प्रदीपस्य हि प्रकाशरूपतया प्रसिद्धमेव परत्रेवात्मन्यपि परिज्ञानोपनयनम्।
तन्न तन्निरपेक्षस्य विषयस्यैव स्वरूपोपदर्शनमिति कथं तस्याकिञ्चित्करत्वमिति चेत् ? इदमप्य. किञ्चित्करमेव वचनम् । तथाहि-यदि विषयोपलम्भस्वभावः पुरुषः किं तत्परिच्छेदेन ? पुरुषवत्तदुपलम्भस्यापि नित्यतया तन्निरपेक्षत्वात् , निष्फलकल्पनायामनवस्थानात् । तस्यातत्स्व.
भावत्वेऽपि नितरां तस्य निष्फलत्वम् अन्धं प्रति प्रदीपवत् । तत्सन्निधौ तस्य तदुपलम्भनमिति १० चेत् ; न; स्वयमशक्तस्य तदयोगात् व्योमकुसुमवत् । स्वयमपि शक्तौ सैव तत्र साक्षात्
करणम् , तत्र सत्यामसत्यपि प्रदीपादौ नक्तञ्चरेषु सान्धकाररूपदर्शनस्य प्राणिमात्रे अन्धकार. दर्शनस्य च भावादिति किं तत्कल्पनेन ? तेंदुपधानेन व्यवसायस्वभावत्वं तदुपलम्भस्येति चेत् ; न; स्वत एव तस्यापि भावात् । तत्परिच्छेदस्यापि तदुपस्त(ट)म्भादेव तत्स्वभावत्वं न
स्वतोऽचेतनत्वात् । तन्न तस्य भोगार्थत्वम् । १५ अत एवं नापवर्गार्थत्वम् , अपवर्गस्य भोगनिवृत्तिरूपतया भोगाभावेऽनुपपत्तेः । विवेकप्रतिपत्त्यङ्गतया च तस्यापवर्गार्थत्वम् । न च तस्य तदङ्गत्वमिति निवेदितमिवार्थविचारे । ततः सूक्तम् 'अकिश्चित्करेण किम्' इति ।
अपि च, नीलादिसुखादिविषयोपस्थापनेन हि तस्य भोगार्थत्वम्, तदुपस्थानञ्च तत्प्रतिबिम्बात् । तदपि कुतस्तस्यावगन्तव्यम् ? तत एव"तत्परिच्छेदात् , स एव हि 'मयीदं प्रतिबिम्बमस्मादर्थादुपजातम्' इति प्रत्येतीति चेत् ; न; तस्य अचेतनत्वेन तदयोगात् । चिच्छायासक्रमाच्चेतन एव स इति चेत् ; न; तत्सङक्रमस्य पुरुषादनन्यत्वे वक्ष्यमाणोत्तरत्वात् । अन्यत्वे तु न तस्य. स्वतश्चेतनत्वं "तस्य पुरुषधर्मत्वेन अन्यत्रायोगात् "चैतन्यं पुरुषस्य स्वरूपम्" [ योगभा० ११९] इति वचनात् । चिच्छायान्तरसङ्क्रमकल्पना
यामनवस्थानात् । भवन्नपि कथञ्चिच्चेतनो यदि पृथगेवार्थ पश्यति किं प्रतिबिम्ब१, कल्पनेन ? पुरुषस्यापि तथा तदर्शनोपपत्तेः । यदि न पश्यति; कथं तत्कार्यतया प्रति
बिम्बं प्रतीयात् ? अप्रतिपन्ने कारणे तत्कार्यत्वस्याशक्यप्रतिपत्तिकत्वात् । इन्द्रियस्याप्रतिपत्तावपि तत्कार्यतया रूपदिज्ञानं कथं प्रतीयत इति चेत् ? न; स्वतस्तदनभ्युपगमात्" । न हि तदेवेन्द्रियज्ञानमात्मन इन्द्रियकार्यत्वं प्रत्येति; तद्व्यतिरेकादेव लिङ्गात्तत्प्रतिपत्तेः । वक्ष्यति चैतत्
"अक्षादेरप्यदृश्यस्य तत्कार्यव्यतिरेकतः" [न्यायवि० श्लो० १७९ ] इति ।
१ अर्थपरिच्छेदेन । २ विषयोपलम्भखभावाभावे । ३ विषयपरिच्छेदस्य । ४ शक्ती सत्याम् । ५ तदुपाधानेन ता० । ६ पुरुषस्य । ७ एवावर्गा-आ०, ब०, ५०। ८ -ति वेदि-आ०, ब०, प० । ९ अतः भा०, ब०,०।१. विषयपरिच्छेदात् । ११चेतनत्वस्य । १२ -तदभ्युपगमात्-भा०, ब०, प० ।