________________
१।२५ ]
प्रथमः प्रत्यक्ष प्रस्तावः
तन्न भाक्तोऽपि भोगादिस्तत्रेति सुविवेचयन् ।
इदमाह वचो देवो 'यद्यकिञ्चित्करेण किम्' || ६५८॥
२३५
सेनाव्यूह जयस्योपपन्न एव राजन्युपचारस्तस्य प्रमाणतः प्रतीतेः । प्रतीतिविषयतया चोपचारस्य लोके प्रवृत्तिदर्शनात् । न चैवं पुरुषे भोगस्यै कुतश्चित्तस्यैवानधिगमात् । न हि प्रत्यक्षेण बुद्धिसत्त्वव्यतिरिक्तस्य चिद्रूपस्याधिगतिः; तस्य स्वयमचेतनत्वात् । सांसर्गिकाच चैतन्याव्यतिरिच्य ग्रहणानुपपत्तेः । नाप्यनुमानात्; भोगादेर्लिङ्गस्य निषिद्धत्वात्, लिङ्गान्तरस्य च यथास्थानं निराकरणात् । नाप्यागमात् ; तस्याप्तवचनात्वात्, तस्मिन् कस्याश्चिदसम्भवात् । आप्तान्तरोपदेशात्तत्परिज्ञाने चानवस्थानदोषात् । न चापरं प्रमाणम्, यतस्तत्प्रतिपत्तिः “त्रिविधं प्रमाणमिष्टम् ” [ सांख्यका० ४] इति वचनात् । ततो निःशेषप्रमाणव्यापारदूरपथपरिवर्त्तित्वेन व्योमारविन्दमकरन्दसौरभसन्निभ एव पुरुष इति कथं १० तस्योपचारादपि भोगवत्त्वं यतो निष्फलं तत्परिकल्पनं न भवेत् ? इति सर्वमेतच्चेतसि कुर्वतो देवस्येदं वचनमाविर्भूतम् - 'अकिञ्चित्करेण किम्' इति ।
५
विकल्पान्तरमुपक्षिति- 'अथ' इत्यादि । 'अथ' इति वितर्के । परिच्छेदोऽर्थनिर्णयो नीयं न प्रत्यक्षः, किन्त्वचेतन एवासाविति यदि अयं परस्याभिप्रायः । तत्रोत्तरम्, अकिञ्चित्करेण तत्परिच्छेदेन किम् ? न किञ्चित् । असिद्धं तस्य अकिञ्चित्करत्वं भोगापव- १५ र्गार्थत्वात्, "भोगापवर्गार्थं दृश्यम् " [ योगसू० २।१८ ] इति वचनात् । भोगार्थत्वं तु भोग्यप्रतिबिम्बावहत्वात् । विषयो हि तंत्र प्रतिबिम्बित एव पुरुषस्य भोग्यो भवति, “बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते” [ ] इति वचनात् । अपवर्गार्थत्वञ्च रजस्तमोभ्यामनभिभूतस्य सवभूयिष्ठतया नितान्तनिर्मलस्य स्वरूपतच्छायागत पुरुष विवेकप्रतिपत्तिकरत्वात् । सति तद्विवेकपरिज्ञाने तत्रापि निर्विण्णस्य चेतनस्य वैराग्यबलेन 'तत्प्रतिरोधेन स्वरूपप्रतिष्ठान- २० स्यापवर्गस्योपपत्तेरिति चेत्; उच्यते- तत्परिच्छेदः पुरुषस्यात्मनमनुपदर्शयन् कथं भोग्यमुपदर्शयेत् "दर्पणादावेवमदर्शनात् ? उपदर्शितात्मन एव दर्पणादेस्तं प्रति "मुखाद्युपदर्शकत्वप्रसिद्धेः । आत्मानमुपदर्शयन्नपि यदि तदन्तरप्रतिबिम्बित मुपदर्शयति तदा तदन्तरमप्यपरतदन्तरप्रतिबिम्बितमेवोपदर्शयति, तत्राप्येवमित्यपरापरतत्परिच्छेद कल्पनायामनवस्थानान्न प्रकृतभोग्यो पदर्शनं सम्भवतीति कथं तस्य भोगार्थत्वं "यद किञ्चित्करत्वं न भवेत् ? अतदन्तरप्रतिबिम्बितस्य २५ तस्योपदर्शने सुतरामकिञ्चित्करत्वं विषयस्यैव तथा तदुपदर्शनोपपत्तेः ।
१ - वेचयेत् आ०, ब०, प०, स० । २ -स्य श्लोके आ०, ब०, प० स० । ३ उपचारः इति शेषः । ४ प्रत्यक्षस्य । ५ नाप्युपगमा-आ०, ब०, प०, स० । ६ कश्चिदस-आ०, ब०, प०, स० । ७ - क्षिपतैथे- आ०, ब०, प०, स० । ८ नायं प्र-आ०, ब०, ब०, प०, स० । १० तत्प्रतिविरो- भा०, ब०, प०, स० । स० । १२ मुख्याद्यु - आ०, ब०, प०, स० । १३ प्राक्तनभो - आ०, ब०, प०, स० ।
प०, स० । ९ बुद्धौ । तत्प्रति- भा०, ११ - दर्पणादावेव दर्श-आ०, ब०, प०, ब०, प०, स० । १४ यदि कि-आ०,