________________
२३४
न्यायविनिश्चयविवरणे
[ १२५ इति सप्ततिकारस्य, "अयमेव च तस्य भोगो यत्तत्र छायासक्रमणसामर्थ्यम्' [ ] इति च तन्निबन्धनकारस्य ।
अपि च, तेन भोगेन भोग्यं भुञ्जानः पुमान्न 'तावदभुक्तेनैव भोक्तुमर्हति, मुक्तात्मनोऽपि तत्त्वप्रसङ्गात् । तस्य स भोग एव न भवति तेन तस्याननुभवादिति चेत् ; इतरस्यापि ५ न स्यात् तेनापि तदननुभवस्याविशेषात् । भुक्तेनैव भुङ्क्ते इति चेत् ; कुतस्तद्भुक्तिः ? स्वत
इति चेत् ; व्यथं तद्भोगकल्पनम् , भोगस्यापि स्वत एव तत्प्रसङ्गात् । भोगान्तरेण तत्प्रतिच्छायालक्षणेनेति चेत् ; नतत्रापि तदन्तरकल्पनायामनवस्थानात् । तन्न भोगेन पुरुषस्य साफल्यम् ।
नापि कैवल्यार्थेनोपक्रमेण; भोगाभावे तस्यैव वैफल्यात् । भोगोपरम एव हि "कैवस्यम्, भोगस्य च स्वत एवाभावात् किं तदुपरमार्थेनोपक्रमेण ?
भोगाभावे स्वतः सिद्धे किंशुके पाटलत्ववत् । कस्तदर्थं प्रवर्तेत यदि नोन्मादवान् जनः ॥६४९॥ सत्यं न तस्य भोगस्तन्निवृत्त्यै नापि वर्तनम् । सदा शान्तस्वभावत्वात् दृशिमात्रस्य तत्त्वतः ॥६५॥ केवलं बुद्धिसत्त्वस्थो भोगादिरुपचर्यते । तत्र स्वामिनि राश्येव सेनाव्यूहगतो जयः ॥६५१॥ इति चेदुपचारस्य निष्फलस्यैव कल्पने। ततोऽन्यत्रापि तत्तृप्तिरनवस्थानमानयेत् ॥६५२॥ प्रमाणाविषये तस्मिन्नुपचारः कथञ्च वा । प्रतीत एव यल्लोके दृश्यते तत्प्रवर्तनम् ।। ६५३॥ न पुमान् तादृशः कापि प्रत्यक्षेणावलोक्यते । यादृशं कापिलाः प्राहुः प्रशान्तब्रह्मवादिनः ॥६५४॥ भोगादेर्लिङ्गतः पूर्व तस्य ज्ञानं निवारितम् । प्रत्यक्षाद्यपरिज्ञातं कथमाप्तोऽपि तं वदेत् ? ॥६५५॥ आप्तत्वस्यैव तज्ज्ञानरहिते सम्भवात्ययात् । आप्तान्तरोपदेशेन तज्ज्ञाने चानवस्थितेः ॥६५६॥ नापि दृष्टानुमानाप्तवचनेभ्यः प्रमान्तरम् । यतस्तत्प्रतिपत्तिः स्यादित्यसन्नेव ते पुमान् ॥६५७॥ .
१ तावद्भुक्ते-आ०, ब०, ५०, स. । २ सत्प्रस-आ०, ब०, ५०, स.। भोक्तृत्वप्रसङ्गात् । ३ मुक्तस्य । ४ तदनुभ-भा०, ब०, १०, स० । ५ "पुरुषस्य उपचरितभोगाभावः शुद्धिः, एतस्यामवस्थायां कैवल्यं भवति ।"-योगभा. ३५५। ६ न सत्यभो-आ०, ब०, प० स०। ७ कथन वा आ०, ब०, १०, स०। ८ उपचारप्रवृत्तिः। ९ अतो नानुमानात्तद्गतिः । १.-ते भा०, ब०, प., स.