________________
१२२५]
प्रथमः प्रत्यक्षप्रस्तावः
२३३ प्रत्युक्तम् ; तस्यापि विषयदर्शनस्य तत एव भावात् । चेतनस्यापि तदपराधिष्ठानादेव भोक्तृत्वकल्पनायामव्यवस्थितेः पुरुषेऽपि प्रसङ्गात् ।
अपि च, यद्ययं भोगः पुरुषादनन्य एव तद्वदेव नित्य इति व्यर्थ एव भोग्यसन्निधिः अकिञ्चित्करत्वात् । भोगार्थो हि तत्सन्निधिः, भोगनित्यत्वे च किं तेन ? तत्सन्निधिनित्यत्वा. देव तन्नित्यत्वमिति चेत् ; न ; अनिर्मोक्षप्रसङ्गात् । आत्यन्तिको हिँ परभोगोपरमो भोक्तु- ५ निर्मोक्षः, तस्य च भोग्यसन्निधिनित्यत्वे दुरुपपादत्वादपरिच्युतिरेव संसारस्येति कथमुपजात. तन्निवेदस्यापि"तापत्रयनिवृत्तये तन्निवर्तनहेतौ जिज्ञासा तपश्चरणं वा सम्भाव्येत ? तदुक्तमन्यत्र
"दृश्यदर्शकयोमुक्तिनित्यव्यापकयोः कथम् ।
यतस्तापाद्विमुच्येत तदर्थश्च तपश्चरेत् ? ॥" [ सिद्धिवि० परि० ८] इति ।
तन्न तत्सन्निधेर्नित्यत्वम् । "तदनित्यतयैव तर्हि भोगोपरमादपवर्ग इति चेत् ; न; १० तदुपरमे तदात्मनः पुरुषस्याप्युपरमात् "पुरुषोच्छेदकैवल्यवादोपनिपातात् । तन्न भोगस्य पुरुषादनन्यत्वम् ।
अन्यत्वमेवास्तु तस्य तत्प्रतिबिम्बरूपत्वात् , पुरुषप्रतिबिम्बं हि बुद्धिविवर्तगतं तद्त्तिसरूपं भोगः । न च प्रतिबिम्बतद्वतोरभेदः"; चन्द्रतोयतत्प्रतिबिम्बयोर्भेदस्यैव प्रतिपत्तेरिति चेत् ; उच्यते-तत्प्रतिबिम्बं यदि न'ततः; तदवस्थं तद्वैफल्यम् । तत एवेति चेत् ; तस्य यदि १५ नित्यं तत्करणसामर्थ्य नित्य एव भोग इति कथमपवर्गः ? भोग्यसन्निधावेव तत्सामर्थ्यमिति चेत् ; न; प्रागसमर्थस्य "तदापि तदयोगात् , नित्यतया स्वरूपप्रच्युतेरसम्भवात् । प्राच्यास. मर्थरूपपरित्यागेन तदा तत्समर्थरूपोपादाने तु परिणाम्येव परमार्थतः पुरुष इत्ययुक्तमुक्तम्"चितिशक्तिरपरिणामिनी' [ योगभा०१।२ ] इति ।
___सत्यपि पूर्व सामध्ये तत्सन्निधावेव "तस्य "तत्कर्तृत्वं सामग्रीतः कार्यभावात् नान्यदेति २० चेत् ;तदापि" तस्य यद्यनुपचरितमेव तत्कारित्वं कथमुक्तम्
"गुणकर्तृत्वेऽपि तथा कर्त्तव भवत्युदासीनः ।" [ सांख्यका० २० ] इति ?
उपचरितमेवेति चेत् ; वस्तुतस्तर्हि निष्फल एव पुरुष इति कथं भोगात्तदनुमानम् तस्याऽतत्फलत्वात् ? ततो निषिद्धमेवतत् (मेतत्)"पुरुषोऽस्ति भोक्तभावात्" [सांख्यका०१७]
विषयदर्शनात्मकस्य भोगस्य । २ परिच्छेदादेव । ३ चेतनस्यापि परिच्छेदस्य । ४ तदापराधि-आ०, ब०, ५०। ५ भोग्यसन्निधिना। ६ भोगनित्यत्वम् । ७ हि भोगो-आ०, ब०, ५०, स०। ८ "बुद्धेरेव पुरुषार्थापरिसमाप्तिबन्धः, तदर्थावसायो मोक्षः"-योगभा. २०१८ । “तदर्थावसायः विवेकख्यात्या पुरुषार्थसमाप्तिः"-योगवा० २।१८। ९ भोग्यनित्य-भा०, ब०, ५०, स०।१. “दुःखत्रयाभिघा. ताज्जिज्ञासा तदपघातके हेतो"-सांख्यका० ।भोगसन्निध्यनित्यत्वेऽपि । १२ पुरुषच्छेद-आ०, ब०, १०, स.। १३ -दतश्च-आ०, ब०,१०,स.। १४ पुरुषात् । १५ भोग्यसन्निधिकालेऽपि । १६ भोग्यसन्निधावेव । १७ पुरुषस्य । १८ प्रतिबिम्ब । १९ भोग्यसनिधिकालेऽपि ।