________________
न्यायविनिश्चयविवरणे
[११२५
अन्यया यदि 'सङ्कीर्ण(ण) दृक्छक्तयात्मानमन्यया । असङ्कीर्णतया वेत्ति विरोधानवकाशनात् ॥६४७॥ तन्न तत्सङ्करेऽप्येवैमिवार्थत्वोपकल्पने । प्राच्यप्रसङ्गतो यस्मादव्यवस्थामतिभ्रमः ॥६४८॥
कथं वा ज्ञानभागस्य स्वत एव चिद्रूपासङ्कीर्णतया परिज्ञानं अचेतनत्वात् कलशादिवत् ? चेतनसङ्कीर्णतया चेतन एवामित्यपि न शोभनम् ; तदसङ्करपरिज्ञानसमय एव तत्सङ्करस्याव्यवस्थितेविरोधात् । नास्ति विरोधः, यस्माद् अन्यैव सा दृक्शक्तिर्यदपेक्षमसाङ्कर्यपरिज्ञानं तद्भागस्य, साप्यन्यैव तच्छक्तित्सङ्करापेक्षं तस्य चेतनायमानत्वमिति चेत् ;
न; "प्राच्यस्येव तत्सङ्करस्यापि अविद्याविषयतयाँ इवार्थत्वे तत्रापि 'कुतश्चायमिवार्थः १० प्रतिपत्तव्यः' इत्यादिप्रसङ्गस्यानुबन्धादव्यवस्थया बुद्धिविभ्रमापत्तेः। प्रतिपित्सानिवृत्त्या
तद्विभ्रमनिवृत्तिरवस्थितिभावात् , यावन्तः खल्विवार्थतया तच्छक्तिसङ्कराः प्रतिपित्सिता निष्पन्ने तावतां तत्परिज्ञाने भवत्येव व्यवस्था, तदपरेषाम् इवार्थतया प्रतिपित्सावैकल्यादिति चेत् ; कथमिदानीमप्रतिपन्नास्ते सूत्रभाष्याभ्यां तदर्थत्वेनाभिधियेरन् , प्रतिपन्नवस्तुविषयत्वात्
प्रेक्षावतां वचनप्रवृत्तेः ? तस्मादवश्यम्भाविनी साकल्येन तत्प्रतिपत्तिरिति कथमनवस्था. १५ व्यावृत्तिर्यतो मतिविभ्रमो न भवेत् । नापि तच्छक्तेरपरापरत्वम् यतः कयाचित्तस्य सङ्करः
कयाचिच्च विपर्ययः परिकल्प्यते, परस्यैवमनभ्युपगमात् । तन्न तत एव तस्य तच्छक्ति. सङ्करविकलस्य प्रतिपत्तिः, यत इवार्थस्य तत एवाधिगमः स्यात् ।।
नापि परतः; तस्याप्यचेतनत्वे घटादिवदेव प्रतिपत्तिधर्मत्वानुपपत्तेः । 'दृक्शक्तिसाङ्क. र्याच्चेतन एव परः' इत्यपि न युक्तम् ; तत्रापि तत्साङ्कर्यस्य इवार्थत्वेन स्वतः प्रतिपत्तेरुक्त२० न्यायेनासम्भवात् , परतः प्रतिपत्तौ अनवस्थापत्तेः । दूरमनुसृत्यापि कस्यचिदनन्याधीनमेव
चिद्रूपत्वमभ्युपगन्तव्यम् । अन्यथा ततः कस्यचिदिवार्थत्वापरिज्ञानात् । इत्युपपन्नमर्थज्ञानस्य वस्तुभूर्तचेतनत्वनिवेदनार्थ प्रत्यक्षग्रहणम् , अचेतनत्वे कल्पितंचेतनत्वे च प्रत्यक्षत्वानुपपत्तेः ।
भवतु प्रत्यक्षस्तत्परिच्छेद इत्यत्राह-'यदि' इत्यादि । यद्ययमभ्युपगम्यते तदा अकिश्चित्करेण न किञ्चित्करोतीत्यकिञ्चित्करः पुरुषः, तस्यैवाकर्तृत्वाभ्युपगमात् , तेन २५ किम् ? न किञ्चित्फलम् । निष्फल एवासौ "कल्पित इत्यर्थः । सफल एवासौ तत्परिच्छेदस्या.
धिष्ठानात् , सं हि चेतनाधिष्ठित एव प्रवृत्तिमान् , चेतनश्च नापरः पुरुषादिति चेत् ; न; अचेतनत्वस्यासिद्धत्वात्, तत्र स्वत एव चेतनत्वस्योपपादितत्वात् । एतेन भोगस्तत्फलमिति
। संकीर्ण यच्छत्त्यात्मानमन्यया आ०, २०, ५०, स० । २-रेष्वेवमिवा-आ०, ब०, ५०, स० । ३ कथञ्चाज्ञान-प्रा०, ब०, ५०, स०। १ प्राच्यस्यैव भा०, ब०, ५०, स० । ५ -तयैवार्थ-आ०, ब०, प०,स। ६ स्वत एव मा०, ब०, ५०, स०।७-न्यादीनमेव आ०, ब०, ५०, स०। ८ -तमचे-मा०,ब., प०, स०। ९-तमचे-मा०, ब०, ५०, स०।१. कल्पते इ-आ०, ब० । कल्प्यते इ-प० । ११ परिच्छेदः । १२ परिच्छेदे।