________________
२३१
१२५]
प्रथमः प्रत्यक्षप्रस्तावः अविवेकपरिज्ञानं तेन ज्ञानस्य यद्भवेत् । 'संसारकारणत्वेन कापिलैरभिलप्यताम् ॥६४०॥ चिद्रूपवद्विवेकस्याप्यथवा नियमाद्हे । कथञ्चिद्भेदक्तृप्तिस्तु ज्ञानदृग्भागयोरपि ॥६४१॥ तद्वदेव भवेदेतद्देवैरन्यत्र भाषितम् । "वित्तेविषयनिर्भासविवेकानुपलम्भतः । विज्ञातायाः क्वचित्सिद्धो विरुद्धाकारसम्भवः ॥" [सिद्धिवि०प्र०परि०] इति ।
ततो यत् पतन्जलेः सूत्रम् - "दृग्दर्शनशक्त्योरेकात्मतेवासिता"। [ योगसू० २।६] इति । यच्च तत्रैव विन्ध्यवासिनो भाष्यम्-“भोक्तभोग्यशक्त्योरत्यन्तासङ्कीर्णयोरविभागप्राप्ताविव सत्यां भोगः प्रकल्प्यते” [ योगभा० २।६ ] इति ; तत्प्रतिविहितम् ; १० इवार्थत्वानुपपत्तेः, वस्तुत एवोक्तेन न्यायेन तयोरविभागस्य भावात् । न हि साक्षादेव सतस्तदविभागस्य इवार्थत्वमुपपन्नम् ; तच्छक्योरपि तदर्थत्वप्रसङ्गात् । तथा च तद्वदेवावंस्तुसत्त्वं तयोरपीति स एव पुनरपि मायावादः प्राप्तः । निरुपद्रवप्रतिपत्तिविषयत्वेन तच्छक्त्योरेंनिवार्थत्वपरिकल्पनं तदविभागेऽपि समानम्-कथश्चित्तस्यापि” निरुपद्रवतयैव प्रतिवेदनात् । कुतश्चायमिवार्थः प्रतिपत्तव्यः ? तत एव दर्शनशब्दवाच्यात् ज्ञानभागादिति चेत् । १५ "तेनाप्यात्मानमप्रतियता कथं तत्र 'हगेकत्वस्य इवार्थस्य प्रतिपत्तिः "एक इवाहं दृशा' इति ? न हि स्फटिकमप्रतियतः 'प्रवाल इव स्फटिकः' इति प्रतिपत्तिः । आत्मनश्च "यदि दृक्छक्त्यसङ्कीर्णतयैव परिज्ञानम् ; न भवत्येव तत इवार्थवेदनम् ।
दृकशक्त्या स्वमसङ्कीर्णं तद्भागः प्रविदन्नयम् । तत्सङ्कीर्ण इवास्मीति कथं नामावबुध्यताम् ? ॥६४३॥ शुभ्रमेव मणिं कश्चित् कस्यचित्परिपश्यतः । न ह्यारक्त इवेत्येव तत्र बुद्धिः प्रवर्तते ॥६४४॥ कथं वा तदसङ्कीर्णस्यात्मनः स्यात्ततो" गतिः । अचेतनत्वात्तस्यैष न धर्मोऽयं घटादिवत् ।।६४५॥ दृक्शक्तिसङ्करात् सोऽपि चेतनो यदि कल्प्यते । तन्नासङ्कीर्णतद्वित्तौ तत्साकर्याव्यवस्थितः ॥६४६॥
-राकार-आ०, ब०, प., स. । २ पातञ्ज-ता० । ३ -त्मतेवास्मि-आ०, ब०, ५०, स.। ४ एवार्थ-आ०, ब०, ५०, स०। ५ दृग्दर्शनशत्योरपि । । इवार्थत्व । ७ अविभागवदेव । ८ -वस्तुस्वं स. । ९ -रनिवार्यस्व-प०, स.। १० अनिवार्थत्वं वस्तुत्वमिति । " अविभागस्यापि । १२ -यमेवार्थः मा०, ब०, ५०, स०। १३ -ति चित्तेनापि स०।१४ ज्ञानभागेनापि । १५ दृगेकत्वस्यार्थ-आ., ब०.५०, स०। १६ एकैवाहं आ., ब०, ५०, स.। १७ -तः पाटल इव भा०, ब०, १०, स.।१८ -पत्तितात्म-आ०,ब०,१०,स.। १९ यदि तच्छत्त्य-आ०,ब०प० । यदेतच्छक्य-स.। २. परत आ., ब०, ५०, स०।२१ ज्ञानभागात् । २२ ज्ञानभागोऽपि । २३-र्यव्यव-भा०, ब०, ५०, स.।।