________________
२३० न्यायविनिश्चयविवरणे
[ ११२५ स्वसंवेद्यत्वायोगात्। तत इदमुच्यते-चेतनस्तत्परिच्छेदः', स्वसंवेद्यत्वात् , यस्तु न चेतनो नासौ तथा यथा नीलादिः, स्वसंवेद्यश्च तत्परिच्छेदः, तस्माच्चेतन इति ।
नायं प्रयोजको हेतुः, स्वयमचेतनत्वेऽपि तस्य चेतनसंसर्गेण स्ववेदनोपपत्तेः । एवं तवेदनस्य विभ्रमः स्यादिति चेत् ; न ; अव्यतिरेकापेक्षया तदभ्युपगमात् । अभ्युपगम्यत ५ एव चेतनतत्परिच्छेदँयोरव्यतिरेकवेदनस्य विभ्रमत्वम्, व्यतिरेकस्यैव परमार्थत्वात् । प्रत्यक्षत्वं विभ्रमस्य कथमिति चेत् ? न ; वस्तुतस्तस्याप्यभावात् केवलमनुत्पन्नविवेकदर्शनप्रतिपत्रभि. प्रायानुसन्धानमात्रेण तदभिधानात् । तन्न स्वसंवेद्यत्वं चेतनत्वसाधनायालं तत्परिच्छेदस्य अन्यथानुपपत्तिविकलत्वादिति चेत् ; तदिदमपर्यालोचितमेव परस्य वचनम् ; विभ्रमविषयत्वेनं
चेतनतत्परिच्छेदयोरपि तदविवेकवदवस्तुतैव प्राप्नुयात् । इदमप्यभिमतमेवेति चेत् ; कथमि१० दानीं तदवस्तुत्वस्य 'प्रतिपत्तिः ? वस्तुभूतस्य तद्वदनस्याभावात् , अवस्तुभूताच्च" अवस्तुप्रतिपत्तेरपि दुरुपपादत्वात् । वक्ष्यति चैतत्
"विभ्रमे विभ्रमे तेषां विभ्रमोऽपि न सिद्ध्यति ।" [न्यायवि० श्लो० ५४] इति ।
ततो वस्तुभूतमेव तद्वदनमङ्गीकर्तव्यमिति कथन्न तत्रायं दोषः-'चेतनज्ञानभागयोर. प्यवस्तुत्वं विभ्रमविषयत्वात् तदविवेकवत्' इति ? तयोरविभ्रान्तमेव तद्वदनं निर्बाधत्वात् , १५ तदविवेके तु भ्रान्तमेव "बाधवत्त्वात् , तस्मादसिद्धमेव "तयोविभ्रमविषयत्वमिति चेत् ;
भवत्येवेदं यदि "तद्वेदनमेव लभ्येत । कुतो न लभ्यते ? विवेकावेदनादेव । विवेको हि ज्ञानभागाच्चेतनस्य तदविविक्तः" । कथं "तदवेदने 'तस्यापि वेदनम् ? वेदने वा
विदिताविदितत्वेन चिदाकारविवेकयोः । विरुद्धधर्माध्यासेन भेदस्तत्र कथन्न वः ? ॥६३५॥ विवेकाद्भिद्यमानश्च "तदाकारो बजत्यलम् । ज्ञानभागेन तादात्म्यमभावादन्यथा गतेः ॥६३६॥ तथा च वस्तुतस्तत्रं चिद्रूपत्वव्यवस्थितेः । चिति संसर्गतश्चित्त्वं तस्येत्यनुचितं वचः ।। ६३७॥ तस्मादेकान्ततो भेदाश्चित्स्वभावविवेकयोः । विरुद्धधर्माध्यासेऽपि नैवायं शक्यकल्पनः ॥६३८॥ एकान्ताभेदपक्षे च चिद्रूपस्याप्यवेदनम् । तद्विवेकवदेव स्यादिति "तत्सम्भवः कथम् ॥६३९॥
-दः संवे-आ०, ब०, प०। २-दि ख-भा०, ब०, ५०, स.। ३ अर्थज्ञानस्य । ४-दनयोर-आ०, ब०, ५०, स०।५ प्रत्यक्षत्वस्य । ६ प्रत्यक्षत्वाभिधानात् । ७ वचनं हि वि-भा०, ब०, ५०, स०। ८-त्वे चेतनतत्प-मा०,०, स०।-वे चेतनत्वात्तत्प-प०। ९ प्रतिपत्तर्वस्तु-आ०, ब०,५०, स०।१. -ताच वस्तु-भा०, ब०, ५०, स.। ११ बाधवत्वं त-आ०, ब०,५०। बाधकत्वात् स.। १२ चेतनज्ञानभागयोः। ॥ भवतैवेदं आ०,१०,५०।१४ चेतनज्ञानभागयोर्वेदनमेव । १५ चेतनादभिन्नः । १६ विवे. कावेदने । १. चेतनस्यापि । १८ चिदाकारः। १९ ज्ञानभागे । २. चिद्रूपसद्भावः ।