________________
१।२४] प्रथमः प्रत्यक्षप्रस्ताव:
२२९ गत्वा सुदूरमप्येवमसिद्धावन्त्यचेतसः । असिद्धेरितरेषां च तदर्थस्याप्यसिद्धितः ॥२३॥
असिद्धो व्यवहारोऽयम् इति । ततः किम् ? इत्याह
अतः किं कथयाऽनया । ५ अतः अनन्तरन्यायात् । किम् ? न किञ्चित् 'व्युत्पाद्यम्' इति शेषः ? कया ? कथया सूत्रवार्तिकादिलक्षणया । अनया प्रसिद्धयेति । तत्त्वज्ञानव्युत्पादनमेव हि 'तस्याः प्रयोजनम्-अनन्तरन्यायेनं च तदभावान्निष्प्रयोजनैव कथेति भाव इति ।
'निराकारतर' इत्यादयः अन्तरश्लोकाः वृत्तिमध्यवर्तित्वात् , 'विमुख' इत्यादि. वार्तिकव्याख्यानवृत्तिग्रन्थमध्यवर्तिनः खल्वमी श्लोकाः । वृत्तिचूर्णीनां तु विस्तारभयानास्मा- १८ भिर्व्याख्यानमुपदर्यते । सङ्ग्रहश्लोकास्तु वृत्त्युपदर्शितस्य वार्तिकार्थस्य संग्रहपरा इति विशेषः ।
तदेवमवस्थापितेऽर्थज्ञानस्यात्मवेदने साङ्ख्यः प्राह-सत्यम् , अर्थज्ञानं प्रत्यक्षमिति नात्र विवादः किन्तु तत्परार्थमचेतनश्च । परार्थं तत् संहतत्वात् , शयनासनाद्यङ्गवत्। शयनासनाद्यङ्ग हि परस्परप्रत्यासत्तिविशिष्टतया संहतं परार्थमेवोपलब्धं तस्य तदुपभोक्तृशरीरार्थत्वेनोपलब्धेः, 'अतो न साध्यवैकल्यमुदाहरणस्य । नापि हेतोरसिद्धत्वम् ; अर्थज्ञानस्यापि गुणत्रयरूपतया संहत. १५ त्वोपपत्तेः । सन्निवेशविशेषो हि संहतत्वम् , तच्च भेदसव्यपेक्षम् , भेदश्चाविकलो गुणानामिति संहतमेव तदात्मकमर्थज्ञानम् । तदात्मकत्वच तस्य यथासम्भवं सुखदुःखमोहनिमित्त. त्वेनाध्यवसायात्" । न ह्यतदात्मक" तन्निमित्तं भवितुमर्हति अतिप्रसङ्गात् । भवति च "ततः कस्यचित्कदाचित् सुखम् अन्यदा दुःखं मोहो वा। ततो गुणत्रयात्मकम् , ततश्च परार्थम् , "अत एवाचेतनम् । परार्थत्वं हि परानुभवापेक्षत्वं विषयत्वमेवोच्यते । विषयश्च घटादिरचेतन एव प्रतिपन्नः । तत इदमुच्यते-'अर्थज्ञानमचेतनं विषयत्वात् घटादिवत्' इति । तत्रेदमाह
प्रत्यक्षोऽर्थपरिच्छेदो यद्यकिश्चित्करेण किम् ॥२४॥
अथ नायं परिच्छेदो यद्यकिञ्चित्करण किम् ?
अर्थस्य नीलादेः परिच्छेदो निर्णयः अर्थपरिच्छेदः । प्रत्यक्षः स्वानुभवाध्यक्षवेद्यः तथैव व्यवस्थापितत्वात् । अनेन 'अर्थज्ञानमचेतनम्' इति प्रत्युक्तम् ; अचेतनत्वे २५
१ कथायाः। २ -न तद-आ०, ब०, ५०, स.। ३ -मध्यविवर्तिनः ता०। ४ वृत्तिचूर्णिता तु आ०, ब०, ५०, स०। ५ वृत्तिप्रदर्शितस्य आ०, ब०, ५०, स.। ६ “सङ्घातपरार्थत्वात्-इह लोके ये सङ्घाताः ते परार्था दृष्टाः पर्यकरथशय्यादयः"-पांख्यका० माठर०, गौड़पाद०, युक्तिदी, तत्वको. का. १६ । ७ शयनासनाद्यङ्गस्य । ८ ततो आ०, २०, ५०, स० । ९ भेदसंव्यपेक्ष्यं आ०,०, स... -वसायो न भा०, ८०,५०, स.। " सुखदुःखमोहानात्मकम् । १२ अर्थज्ञानात् । १५ अन्यथा दु-आ०,०,०, स०।१४ तत आ०, ब०, १०, स०।१५ अर्थज्ञानञ्चेत-आ०, ब०, १०, स.।