________________
२२८
न्यायविनिश्चयविवरणे
[ ११२४
द्यनवसरं भवेत् ? पर्यन्ते कस्यचिज्ज्ञानस्यात्मवेदनत्वादनवसरमेवेदमिति चेत्; न; तद्वत्प्रथमज्ञानस्यापि 'तत्त्वानुषङ्गात् । तदेवाह - 'अन्यथा तद्वत्प्रथमं किन्न मृग्यते' इति । ततस्तस्याप्यन्यत एव वेदनादनवस्थानमेव ।
नानवस्थानं विषयान्तरसन्निधानात् । सन्निहिते हि विषयान्तरे तत्रैव ज्ञानम्, न ५ ज्ञानज्ञानादाविति चेत्; न; सन्निहितेऽपि तस्मिन् तस्यैवान्तरङ्गत्वेन बलीयस्त्वात् । अन्तरङ्गोsपि (हि) ज्ञानज्ञानादिः आत्मसमवायात्, न विषयान्तरं विपर्ययात्, प्रत्यासन्नसम्बन्धश्च । प्रत्यासन्नो” हि तर्त्र मनसः सम्बन्धः संयुक्तसमवायलक्षणः त्रयसन्निकर्षत्वात्, विषयान्तरज्ञानहेतुस्तु सम्बन्धो विप्रकृष्टः 'चतुष्टयादिसन्निकर्षत्वात् । ततो बलवति प्रत्यासन्नसम्बन्धे
ज्ञानज्ञानादौ स्वविषयज्ञानजननसमर्थे सति कथं सन्निहितेऽपि विषयान्तरे ज्ञानं यदनवस्थानं १० न भवेत् ? अव्यापक " तत्सन्निधानम्, व्याप्तिविषये मानसप्रत्यक्ष सकलार्थवेदिनि माहेश्वरे च ज्ञाने तदभावात् । " ततो न विषयान्तरसन्निधानमङ्गमवस्थितेः । सत्यपि विषयान्तरसन्निधानादे'वस्थाने कथं पर्यन्तज्ञानस्याप्रतिपन्नस्यास्तित्वम् ? किं पुनः प्रतिपत्त्या व्याप्तमस्तित्वं येन तदभावे न भवेत् ? बाढम् ; कथमन्यथा' व्योमकुसुमादेस्तन्नं भवेत् ? सर्वस्य तर्हि सर्वज्ञत्वं "सतः सर्वस्य वेदनात् । " प्रत्येकं न वेदनं "बहुभिरेव वेदनादिति चेत्; न; असर्वज्ञेनैवमपि " प्रतिपत्तुमशक्य१५ स्वादिति चेत्; सत्यम्; अस्ति प्रतिपुरुषं सर्वज्ञत्वम्, अन्यथा व्याप्तिपरिज्ञानाभावस्य निवेदनात् । पर्यन्तज्ञानस्यापि तर्हि पावकादिवत् व्याप्तिज्ञानविषयत्वादेवास्तित्वमिति चेत्; कथं तहींदमुक्तं भासर्वज्ञेन " - " न पुनरविदितो नास्त्येवोपलम्भः" [ ] इति ।
"कथं वा व्याप्तिज्ञ' नस्यास्तित्वम् ? भवतां कथम् ? स्वयमुपलम्भात् ; ममाप्येवमिति चेत्; न; 'अन्यथा' इत्यादिदोषात् । उपलम्भान्तरादिति चेत्; अनुपघातमनवस्थानम्, २० तस्यापि तदन्तरादस्तित्वोपपत्तेः । तत्रापि विषयान्तरसन्निधानादवस्थानमिति चेत् ; न ; 'सत्यपि ' इत्यादेरनुबन्धेन चक्रकप्रसङ्गादनवस्थापत्तेश्च । ततः पर्यन्तज्ञानस्याप्रतिपत्तिकत्वादभाव
२४
एव वक्तव्यः ।
तदनेन शक्तिपरिक्षयात् ईश्वरनियोगाच्चावस्थानमिति प्रतिविहितम् ; पर्यन्तज्ञानस्याप्रतिपत्तिकत्वेनाभावप्रसङ्गात् । तदभावे च तद्विषयस्याप्यभावस्तावदेवं यावत् प्रथमज्ञानस्य २५ तदर्थस्य चाभाव इत्यसिद्ध एव तन्निबन्धनो व्यवहार इति । तदाह
१ आत्मवेदनत्वानुषङ्गात् । २ पर्यन्तस्यापि ज्ञानस्य । ३ विषयान्तर एव । ४ अत्र ताडपत्रं त्रुटितम् । ५ - सन्ने हि तत्र मनः स-आ०, ब०, प०, स० । ६ ज्ञानज्ञाना दो । ७ ज्ञानज्ञानादिः आत्मा मनश्चेति त्रयम् । ८ हेतुस्तत्सम्बन्धी आ०, ब०, प०, स० ९ विषयान्तरम् इन्द्रियम् आत्मा मनश्चेति चतुष्टयम् । १० विषयान्तरसन्निधानम् । ११ ततो विष-आ०, ब०, प० । १२ - दनवस्थाने आ०, ब०, प०, स० । १३ - पन्नव्याप्तित्वम् आ०, ब०, प०, स० । १४ प्रतिपत्त्या अस्तित्वव्याप्त्यभावे । १५ अस्तित्वम् । १६ स्वतः भा०, ब०, प०, स० । सत्वेन रूपेग । १७ सतः तत्तद्व्यक्तिरूपेण । १८ सामान्यरूपतया । १९ बहुव्यक्तिद्वारेण । २० - ज्ञेन पुनर-आ०, ब० प०, स० । २१ कथं व्या-आ०, ब०, प०, स० । २२ उपलम्भान्तरस्यापि । २३ अन्यस्माद् उपलम्भान्तरात् । २४ - नादनवस्थानमिति आ०, ब०, प०, स० । २५ तद्विषयत्वस्या- आ०, ब०, प०, स० । उपान्त्यज्ञानस्य ।