________________
१२४ ]
प्रथमः प्रत्यक्ष प्रस्तावः
अयं सौगतः किं न किञ्चित् कुर्वीत" इति शेषः । कया ? कथया वार्तिकादिरूपया, अनया प्रसिद्धया । कुतः ? इत्याह-- 'अत:' इति । अतो व्यवहारादेव कथा यत इति । एतदुक्तं भवति सति हि प्रतिपाद्यप्रतिपादकादिलक्षणे व्यवहारे सम्भवति कथा तस्यास्तद्विशेषत्वात् असति तु तस्मिन् तस्था एवाभावान् । कथं तय किमप्यसौ शिष्य व्युत्पादनमन्यद्वा कुर्वीतेति ?
२२७
२
७
"
99
१०
यदि वा, 'निराकारेतरस्य ' इत्यादिनैव प्रसङ्गागतं सौगतमवक्षिप्य नैयायिकमेव पुनरप्यपक्षिपन्नाह - 'ज्ञानज्ञानम्' इत्यादि । ननु तं प्रति न युक्तमनवस्थाप्रसञ्जनम् : न हि तन्मते ज्ञानज्ञानस्य परिज्ञाननियमः, तदपरिज्ञानेऽपि दोषाभावात् । तत्कथमस्य तद परापेक्षणं यतस्तत्प्रसङ्गः ? प्रथमज्ञानस्यापि तन्नियमः कस्मादिति चेत् ? न; तत्रापि तदभावात् । न तस्यापि नियमेन परिज्ञानम्, अपरिज्ञातस्यैव तस्यापि विषयप्रकाश ४कत्वात्, तावतैव व्यवहारस्यापि सम्भ-दिति चेत्; क इदानीं परोक्षज्ञानवादिनो मीमांसarat' विशेषः स्यात् ? अयमेव यत्तस्यै परोक्षमेव ज्ञानम्, , नैयायिकस्य तु कदाचित्प्रत्यक्षमपीति चेत्; उच्यते - यदा तत्परोक्षम् ; तदा तदस्तीति कुतः ? भवतोऽपि " तथाविधं पावकादिकं "चिदस्तीति कुत इति चेत् ? मा भूत्, २० न काचित् क्षतिः । न चैवं "भवतः 'अपरिज्ञातस्यैव विषयप्रकाशत्वम्' इत्यभ्युपगमक्षतेः । अन्यदा प्रत्यक्षत्वादिति चेत्; न; ततस्तदैव तत्सत्त्वो - पपत्तेः। एकदा प्रत्यक्षस्यान्यदापि सत्त्वे नित्यमर्थज्ञानं भवेत्, पूर्वापर कोट्योरपि अप्रतीतस्यैव सत्वोपपत्तेः । परोक्षस्यापि तत्कार्याद्व्यवहारादस्तित्वं पावकस्येवे" धूमादिति चेत्; न; व्यवहारस्यापि धूमवदपरिज्ञातस्यागमकत्वात । परिज्ञातस्यैव गमकत्वमिति चेत्; न; तत्परिज्ञानस्यापि अर्थपरिज्ञानवदपरिज्ञाने कुतोऽस्तित्वम् ? व्यवहारादेव तत्कृतादिति चेत्; न; तत्रापि 'व्यवहारस्यापि' इत्यनुसन्धानाद्" अव्यवस्थापत्तेः । ततो यदुक्तं भासर्वज्ञेन - " तदप्रaat aaist व्यवहाराः प्रवृत्ता इति कुतोऽवगम इति चेत् ? इति पूर्वपक्षयित्वा तत्प्रतिवचनम् -तद्द्व्यवहारदर्शनादेव अङ्कुरदुःखादिदशनाद् बीजाऽधर्मादिनिश्चयवत्" [ ] इति ; तत्प्रतिविहितम् ; व्यवहारतस्तदवगमस्य अनवस्थादोषोपहतत्वेन दुष्करत्वात् ।
१५
द्यभ्युपगम्यापि परोक्षत्वमनवस्थानदोषान्न निर्मुक्तिः, अर्थज्ञानस्य प्रत्यक्षत्वनियम एवाङ्गी कर्तव्यः । तद्वत्तज्ज्ञानस्यापि तन्नियमे कथं तदन्तरानपेक्षणं यतो 'ज्ञानज्ञानलता' इत्या- २५
3
५
१ कुर्वतेति भा०, ब०, प०, स० । २ व्यवहारे देवकथा यतः ता० । ३ कथयतः आ०, ब०, प० । ४ व्यवहारविशेषत्वात् । ५ व्यवहारे । ६ कथया । ७ सौगतः । ८ नैयायिकम् । ९ ज्ञानज्ञानापरिज्ञानेऽपि । १० तदन्यज्ञानापेक्षणम् । ११ अनवस्थाप्रसङ्गः । १२ परिज्ञाननियमः । १३ प्रथमज्ञानस्य । १४ - प्रकाशत्वात् ता० । १५ नैयायिकस्य । १६ मीमांसकस्य । १७ ज्ञानम् । १८ परोक्षम् । १९ क्वचिदस्ति कुतः आ०, ब०, प०, स० । २० नः का-आ०, ब०, प०, स० । २१ भवतोऽपि परि-ता० । नैयायिकस्य । २२ प्रत्यक्षकाल एव । २३ उत्पत्तेः प्राक्कोटौ विनाशात् पश्चात्कोटौ । २४ ज्ञानस्य । २५ - स्यैव धू-आ०ब०, प० । २६ व्यवहारपरिज्ञानस्यापि । तत्परिज्ञातस्या - आ०, ब० । २७ व्यवहारपरिज्ञानकृतात् । २८ सन्धादव्य - ता० । २९ यदभ्यु - आ०, ब०, प०, स० । ३० मे वाशी - आ०, ब०, प०, स० । ३१ अर्थज्ञानज्ञानस्यापि । ३२ तदन्तरापे - आ०, ब०, प०, स० ।
२०