________________
२२६
न्यायविनिश्चयविवरणे
[१२३
तदात्मनः प्रत्यक्षस्याप्यवस्तुत्वप्रसङ्गात् । तदयम् अञ्जनविन्यासादेव लोचनभङ्गः । प्रत्यक्षस्य तत्प्रति ं 'संस्कारार्थेनैव सारूप्येण 'नीरूपत्वस्योपस्थापनात् । अवस्तुविषयस्यापि तस्यै तत्र प्रामाण्यं प्रतिबन्धादिति चेत्; न; अनुमानादन्यस्य तदभावात् । तस्य च " प्रकाशनियमः" " इत्यादौ निषेत्स्यमानत्वात् । ततो न कुतश्चिदपि सारूप्यं सुपरिज्ञानम् । ततो न तज्ज्ञानं ५ विशेष्यं नापि तस्य विशेषणं सारूप्यम्, अत इदमुक्तम्- अविशेष्यविशेषणम् । इति सूक्तं 'निराकारेतरस्य ' इत्यादि । ततो न योगसौगतावन्योन्यमतिशयाते अस्ववेदनादिव स्ववेदनादपि संवेदनादर्थसिद्धेरभावात् । मा भूत्तत्सिद्धिः, संवेदनमात्रस्यैवाभ्युपगमादिति चेत्; न; "स्वतस्तत्त्वम्" इत्यादिना तन्निराकरणात् ।
इदानीमनवस्थानमेव संविद्विषयं पूर्वोक्तं व्यक्तीकुर्वन्नाह -
१०
ज्ञानज्ञानमपि ज्ञानमपेक्षितपरं तथा ॥ २१ ॥ ज्ञानज्ञानलताशेषनभस्तलविसर्पिणी ।
पर्यन्ते - 'प्रसज्येत' इति । निराकारमेव ज्ञानं ततो नानवस्थानं परतस्तत्र सारू - व्यपरिज्ञानाभावादिति चेत्; न; तद्वदेव प्रथमज्ञानस्यापि निराकारत्वापत्तेरविशेषात् । निराकारस्य कथं विषयनियमः ? इत्यपि न युक्तम् पर्यन्तज्ञानेऽपि समानत्वात् । शक्तिनियमात्तत्र १५ तन्नियमः प्रथमज्ञानेऽपि न वैमुख्यमावहति । तदेवाह -
[ प्रसज्येत ] अन्यथा तद्वत्प्रथमं किन्न मृग्यते १ ॥ २२ ॥ इति ।
ततः प्रथमवत् पर्यन्तेऽपि " सरूपमेव ज्ञानम् । तस्य च परतः प्रतिपत्तौ तदवस्थ एव "तत्प्रसङ्गः । तत्र च सुदूरमनुसृत्यापि पर्यन्तज्ञानस्य कुतश्चिदप्रतिपत्तौ न ततस्तत्पूर्वस्य नापि 'ततस्तत्पूर्वस्य परिज्ञानं यावत्प्रथमज्ञानमप्रतिपन्नम् । " अर्थप्रतिपत्तिरर्थाकारज्ञानप्रतिपत्तेरेव २० तत्प्रतिपत्तित्वात् तस्याश्चाभावादिति प्रवृत्त्यादिव्यवहार विकलमखिलं जगद्भवेत्, तत्त्वप्रतिपत्तिमूलत्वेन तदभावेऽभावात् । एतदेवाह -
२५
गत्वा सुदूरमप्येवमसिद्धावन्त्यचेतसः । असिद्धेरितरेषां च तदर्थस्याप्यसिद्धितः ॥ २३॥ असिद्धो व्यवहारः इति ।
मा भूत्तद्व्यवहार इति चेदाह -
" तस्यार्थ -
अयमतः किं कथयाऽनया ? इति ।
१ संसारा-आ०, ब०, प०, स० । २ निरूप - आ०, ब०, प०, स० । ३ विकल्पस्य । ४ ७ - दिव खवेदनादर्थ - आ०, ब०, प०, वस्तुप्रतिबन्धात् । ५ प्रामाण्याभावात् । ६ न्यायवि० श्लो० ३३ । स० । ८ न्यायवि० श्लो० ५६ । ९ - परस्तथा आ०, ब०, प०, स० । १० पर्यन्तज्ञाने विषयनियमः । ११ स्वरूप-आ० प०, ब०, स० । १२ अनवस्थाप्रसङ्गः । १३ कुतश्चित्प्र-आ०, ब०, प०, स० । १४ पर्यन्तज्ञानात् । १५ उपान्त्यज्ञानस्य । १६ उपान्त्यज्ञानात् । १७ अर्थाप्रति - ता० । १८ प्रवृत्यादिव्यवहारस्य । तस्यार्थ - आ०, ब०, प०, स० ।